________________ उग्गह 745- अभिधानराजेन्द्रः | भाग 2 उम्गह चंतेत्ति) भगवता प्रतिषिद्धग्लानप्रतिचारणव्यापृतैः शैक्षो न प्रव्राजनीयो ये तु तं प्रव्राज्यान्यत्रा प्रेषयन्ति तैः प्रेषिते तस्मिन् गच्छान्तरं प्रव्रजति कथं कल्पो विधीयते। इत्येतत्सर्व निरूपणीयम्। तत्रा संगारः संकेतः स दत्तो यस्य शैक्षस्यस संगारदत्तः। अहिताग्न्यादेराकृतिगणत्यातक्तान्तस्य परनिपातः / तस्मिन्नपि कथं कल्पो विधीयते / इत्येतत्सर्व निरूपणीयमिति द्वारश्लोकचतुष्टयसमासार्थः / अथ विस्तरार्थ विभणिषुः प्रथमतो ये पूर्वमुभयज्ञादयः पुरुषा उक्तास्तद्विषयवक्ष्यमाणः प्रेषणभेदसंग्रहायाह। चत्तारिणवगजाणं-तगम्मि जाणादिए विचत्तारि। अभिधारणम्मि एए, खित्तम्मि विपरिणया वा वि।। यः पूर्वमुभयज्ञरूपज्ञादिभेदाच्चतुर्दा ज्ञापक उक्तस्तत्र प्रत्येकं चत्वारो नवकाः प्रेषणनवप्रकाररूपा भवन्ति तथा यो ऽजानानः सन् साधुभिस्त्वमस्माकं न भवसि किंतु पूर्वसाधूनामित्येवं ज्ञापितः तत्रापि चत्वारो नवकाः। अभिधारणं नाम मनसि करणं ततः क्षत्रिकं मनसिकृत्य यद्येते अव्याधातदय आगताः तदा विपरिणता अपि क्षेत्रस्वामिन एव भोग्या इति संग्रहगाथासमासार्थः / अथैनामेव विवरीषुरव्याधातद्वारमङ्गीकृत्य तावदाह। पियमप्पियसभावे, दटुं पुच्छति भावसाहंति) कुत्थगता ते भगवं, पुट्ठव्वे भणंति किं तेहिं।। क्षेत्रिकेषु निर्गतेषु यः साधुरुभयज्ञः शैक्षः सन् प्रव्रजामीत्यभिप्रायेणागतो यावदागन्तुकान साधून पश्यति ततस्ते साधवस्तस्य प्रियमप्रियं वा भावं प्रहसितमुखतया दीनमुखतया वा दृष्ट्वा पृच्छन्ति किमेवं प्रहृष्टवदनश्चिन्तापरो वा पश्यसिएवं दृष्ट्वा तेन स्वरूपे कथिते सति (साहति) सावं कथयन्ति यथागतास्ते अन्यविहारेणेति समास्वस्य यानेवं पृच्छेत् कुत्रा गतास्ते भगवन्तः एवं पृष्टाः सन्तो भणन्ति किं तैर्भवतः प्रयाजनम् स प्राहपवइहिंतिय-पणेते, अनुगच्छगया वयंति दिक्खेओ। तेसि समीवं णमो, णयवाहण ते नयं सोयं / / प्रव्रजिष्याम्यहमिति तेन भणिते साधवो वदन्ति ते क्षेत्रिका अमुकता ग्रामादौ गताः वयं भवन्तं दीक्षयित्वा प्रव्राज्य तेषां समीपे नयामः / सच तकमनन्तरोक्तं वचनं तव नैव व्याहन्तिन विकुट्टयति तथेति प्रतिपद्यते इत्यर्थः एषोऽव्याघात उच्यते। संघाडग एगेणं, पंडवपसेव मुंडिए तिण्णि / तराणेमज्झेथेरे, एकेके तिण्णि नव एते।। ततः साधवस्तं प्रव्राज्य संघाटकेन सह क्षेत्रिकाणामन्तिकं प्रेषयन्ति। अथ संघाटको न पूर्यते तत एकं साधु सहायं दत्त्वा चालयन्ति तस्याप्यभावे एकाकिनमपि विसर्जयन्ति परं पन्थानमुपदिशेयुः। यतः तरुणस्य त्रयः प्रकाराः मध्यम- स्थविरयोरप्येवमेव प्रत्येकं त्रयः एते नव भवन्ति एष प्रथमो नवकः। पढमदिणेसग्गामे, एको णवगो वितिजए वितिओ। एमेव परग्गामे, पढमे वितिए य जे णवगा।। एष एकः प्रथमो नवकः प्रथमदिने स्वग्रामे प्रव्राज्य प्रेषयतां मन्तव्यः। द्वितीये दिवसे एवमेव द्वितीयो नवकः एवं ग्रामे द्धौ नवको उक्तौ / परनामेडप्येवमेव प्रथमद्वितीयदिवसयोी नवकौ एवमेते चत्वारोनवकाः मुण्डितं प्रेषयतां भवन्ति। एमेव य मुंडिस्स वि, चउरो नवगा हवंति कायव्वा / एमेव य इत्थीणवि, णावगाण चउक्कगा दुण्णि।। एवमेव वा मुण्डितस्यापि प्रेष्यमाणस्य चत्वारो नवकाः कर्तव्या भवन्ति एवमेते द्वे नवकचतुष्टये पुरुषाणामुक्ते स्त्रीणामप्येवमेव द्वौ नवकानां चतुष्का संघाटकात्मद्वितीयादिभिः प्रकारैः कर्तव्यौ / अथ क्षेत्रिकाणामन्तिके न प्रेषयन्ति किंतु स्वयमेव स्वीकुर्वन्ति ततश्चत्वारो गुरुकाः। अय किमर्थममुण्डितं प्रेषयन्तीत्युच्यते। सागारियसंकाए, णिच्छति घिच्छंति वा सयं मासे। तत्थ अदु पुणरवि, पच्छिह ममुंडितो एवं / / सागारिकाः संज्ञातकास्तेषां शङ्कया माममी उपवाजयेयुरिति बुद्ध्या स्वग्रामे नेच्छति स शैक्षः प्रव्रजितुम् / यद्वा अमी साधवः प्रव्रजितं न मां ग्रहीष्यन्ति यदिचतान् साधून्नद्रक्ष्यामि ततः पुनरपि अौव प्रत्येष्यामि प्रत्यागमनं करिष्ये इति बुद्धवा नागन्तुकैरात्मानं मुण्डापयति एवममुण्डितं प्रेषयन्ति एतं तावदुभयज्ञविषयो विधिरुक्तः। अथ रूपज्ञादिविषयं तमेवातिदिशन्नाह। एमेव य णवगकमो, सई रूवं च होइ जाणंतो। जो पुण कित्तिं जाणति, ण ते वयं सिस्सते तस्स।। एष एव नवकक्रमः शब्द रूपंच जानाति शैक्षे वक्तव्यः शब्दमेव रूपक्षेत्रे इत्यर्थः / यः पुनः शैक्षः कीर्तिमेव जानाति न रूपं न वा शब्दं तस्य शिष्यत्वे निवेद्यते ते वयं न भवामो येषां सकाशे भवान् प्रव्रजितुमायात इति ततो ब्रूयात। किं न व कप्पइ तुब्भे, दिक्खेउं तेसि तो न अम्हाणं / तत्थ वि सो चेव गमो, णावगाणं जो पुरा भणितो।। किंवा युष्माकंदी क्षयितुं न कल्प्यते ततः साधु भिर्वक्तव्यं तेष- मेव त्वमाभवसि नास्माकमेवमुक्ते यद्यसौ भणति यद्येवंतर्हि मां प्रवाज्य तत्र प्रेषयत अमुण्डितं वा विसर्जयत ततस्तत्रापि स एव गमः प्रकारो यं संघाटकात्मद्विती यादिभिर्भेदैनिष्पन्नानां नवकानां पुरा भणितः।। अथ "अभिधारणम्मिएए, खित्तमि विपरिणयावावि'' इति पश्चार्द्ध व्याचष्टे / विपरिणया निजतिते, अम्हे तुब्भ भणंत लंतेहिं। तह विय ण विते तेसिं, अव्वाहयमादिया होंति।। ये अव्याघातादयो वाताः शैक्षा अत्र प्रस्तुतास्ते क्षत्रिकमभिधार्य प्रथममागता अपि कुतोऽपि हेतोस्तंप्रति विपरिणतास्ततो यद्यागन्तुकान् भणन्ति वयं युष्माकं सकाशे प्रव्रजिष्यामोऽलं प्रर्याप्तं तैः पूर्वसाधुभिरिति तथा ऽप्येवं बुवाणे अपि ते अव्याघातादयस्ते चागन्तुकानां न भवन्ति किंतु क्षेत्रिकस्यैव भवन्ति / गतमव्याघातद्वारम् / अथ पुणो दाइं ति द्वारमाह। एहिंति पुणो दाई, पुढे सिद्धम्मिई य मणसाणा। बहुदोसे माणुस्से, अणुसासणणवग तह चेव।। आगन्तुकसाधूनां समीपे कुत्र गता इति पृष्ट ततस्तैः शिष्टाः अमुकता गता इति कथिते स शैक्षौ बूयात (एहिंतिपुणो हाइंति) यदा ते पुनरप्यत्रागमिष्यन्ति तदा प्रव्रजिष्यामि य एवं भणति स वक्तव्यः। सौम्य! बहुदोषे बह्वन्तराये मानुष्ये मा प्रमादं कुरु एवमनुशासनं कृत्वा तथैव नवकगमेन प्रेषणं कर्त्तव्यम् / अनुशासनमेव विशेषत उपदर्शयति। जंकल्ले कायव्वं, णरेण आजेव तं वरं काउं।