________________ उग्गह 744 अभिधानराजेन्द्रः। भाग 2 उग्गह कथमित्याह / सूत्रमर्थस्तदु भयविशारद आचार्यः सातिशयं प्रवचनव्याख्यानं करोति / क्षपको मासक्षपणादितपस्तप्यतो धर्मकथाक्षीराश्रवादिलब्धिसंपन्नतया वैराग्यजननीं धर्मकथां विदधाति / वादी परवादिनं निरुत्तरी करोति / एवमादिभिः प्रभावकै: स्वग्रामीणऽन्यग्रामीणश्च भूयान् जातः प्रव्रज्यायां परिणतः कृतः॥ नीरोगेण सिवेण य, वासो वासासु णिग्गया साहू। अण्णे विय विहरंता, तं चेवय आगता खित्तं / / नीरोगेणग्लान्यभावेन शठेन च राजादौ स्थाय्युपल्लवाभावेन वर्षावासं कृत्वा ते साधवो निगाः। इह वर्षावासे भूयान्काल एका स्थीयते ततः प्रभूतलोकस्योपशमो भवतीत्यभिप्रायेण वर्षावासग्रहणं कृतम्। अन्यथा ऋतुबद्धेऽपि मासकल्पा नन्तरमेव विहारः संभवति एवं ते ततः क्षेत्रान्निर्गताः अन्ये च साधवो विहरन्तस्तदेव क्षेत्रमागतास्तत्रावग्रह चिन्तां चिकीर्षुराह। खित्तोग्गहप्पमाणं, तहिवस केति के तहोरत्तं। जं वेला णिग्गयाणं, तं वेलं अण्णदिवसम्मि।। इह केचिदाचार्याः क्षेत्रावग्रहस्य कालप्रमाणं ब्रुवते यस्मिन्दिवसे ते निर्गतास्तमेवैकं दिवसमवग्रहस्तत ऊर्ध्व रात्रावधग्रहो व्यवच्छिद्यते। केचित्तु भणन्ति अहोरात्रामवग्रहः / द्वितीये ऽह्नि सूर्योदयेऽवग्रहो व्यवच्छिद्यत इति भावः / सूरिराह द्वावप्येतावनादेशौ अयं पुनरादेशो यस्यां वेलायां निर्गतास्त स्यामेव वेलायां यावदन्यस्मिन् दिवसे अवग्रहो भवति ततः परं व्यवच्छिद्यते इत्थं कालतः प्रमाणमुक्तम् / क्षेत्रातस्तु सर्वतः क्रोशयोजनमवग्रहस्तत ऊर्ध्वमनवग्रह इति। खित्तम्मि य वसहीयय, उग्गहो तहिं सिक्खमग्गणा होइ। ते वि य पुरिसा दुविहा, रूवं जाणं अजाणं व।।। इहावग्रहः क्षेत्रो या भावेवा वसतौ वायदिन्द्रकीलादिवर्जितंग्रामनगरादि तदिह क्षेत्र मन्तव्यं तत्रावग्रह प्रतीत्य शैक्षमार्गणा कर्त्तव्या। कस्य भवति कस्य वा नेति विचारयितव्यमित्यर्थः। यत्पुनरिन्द्रकीलकादियुक्तं तदवग्रहयोग्य क्षेत्रन भवतीत्य क्षेत्रमभिधीयते तत्रा वसतिविषया शैक्षमार्गणां भवति / सा चोपरिष्टात्करिष्यते / क्षेत्रविषयां तावत्करोति (ते वि य इत्यादि) ये पुरुषास्तत्र क्षेत्र प्रव्रज्यां ग्रहीतुमाया तास्ते द्विविधाः एके रूपं जानन्तो परे अजानन्तः / इदमेव व्यक्ती करोति। जाणंता जानंता, चउव्विहा तत्थ हॉति जाणंता। उमयं रूपं सद, चउत्थओ होइ जसकित्ती।। जानन्तोऽजानन्तश्चेति शैक्षा द्विविधाः / तत्रा जानन्तस्तावश्चतुर्विधास्तद्यथाएकः शैक्षो विवक्षितक्षेत्रस्थितस्याचार्यादिरुभयं रूपं शब्द च जानाति / धर्मकथाश्रवणार्थं शिष्यः समागतो रूपेण च तमुपलक्षयतीत्यर्थः / द्वितीयो रूपं जानाति न शब्दम् तृतीयः शब्दं न तद्रुपं चतुर्थश्च पुनर्यशः कीर्ति जानाति यशः सर्वदिग्गामिनी प्रसिद्धिः सैवैकादिग्गामिनी कीर्तिः यश उपलक्षिता कीर्तिर्यशः कीर्तिरिति समासः / यस्तु रूपशब्दयशःकीर्तीनामेकमपि न जानाति सोऽजानान उच्यते अथ द्वितीयभङ्गमादौकृत्वा यथाक्रमममूनेव भङ्गान् व्याचष्टे। उचारचेतिमातिसु, पासति रूपं विणिग्गयस्सागो। रत्तिं उचिंतर्णितो, कासगमाढीमुणति सव्वं / / चाउत्थो जसकित्ति, सुणइ सगेमेव सगिहवासी वा। उभयं रूवं सह, कित्तिं व ण जाणते चरिमो।। उच्चारभूमिचैत्यवन्दनादिषु कार्येषु विनिर्गतस्याचार्याद रूपं पश्यति चैको द्वितीयः शैक्षः पश्यतिन पुनः स्वरेण जानीते उपाश्रये तस्यानागमनात्। तृतीयस्तु शैक्षः कर्षणादिकर्षकः कृषीवलस्तत्प्रभृतिकः सकलमपि दिवसं क्षेत्रादौ स्थित्वा रात्रौ प्रदोषे गृहमुपागच्छन् प्रभाते च भूयोऽपि निर्गच्छेत् / धर्मकथायांप्रवर्तते न तु रूपमवलोकते चतुर्थस्तु शैक्षः स्वग्रामवासी वा दूरस्थः सन्तद्रूपं पश्यतिनचधर्मकथा दिशब्दं शृणोति किन्तु लोकमुखेन तेषामाचार्यदीनां यशः कीर्ति शृणोति / यस्तु चरमोऽजानानः शैक्षः स रूपशब्दात्मकमुभयं कीर्ति च न जानाति परं गृहवासनिर्विण्णतया प्रव्रज्जयां ग्रहीतुमायातः / वास्तव्यशैक्षः पञ्चविध उक्तः। वायादुओति एवं, पंचविट्ठो आणुपुटवीए। एएसिं संहाणं, पत्तेयं मग्गणा इणमो।। वाचादूतो नाम आगन्तुकः शैक्षः सोऽप्येवमेव तस्य शैक्षवत्पञ्चविध आनुपूर्व्या यथोक्तपरिपाट्या वक्तव्यः / अथैतेषां दशानामपि शैक्षाणां प्रत्येकं पृथक्-पृथक् इयमेतेषु द्वारेषु मार्गणादि वारणा भवति तान्येव द्वाराण्यभिधित्सुः श्लोकचतुष्टयमाह। अव्वाघाए पुणो होइ, जावजीवपराजिए। वाघाओ संपए वावि, उढिओ विहरंतिते।। पढमे विय दिवसे तु, कहकप्पो उजाणते। जाणाविए कहं कप्पो, पच्छच्चे तहडेविया।। उत्ताअणुक्कए यावि, कहं कप्पो भिधारणे। एगगामे अमिच्छंते, कहं कप्पो विहिज्जते।। दुविहा मग्गणा सीसे, एगपिहा य पडिच्छए। पडिसे हियवचंते, कहं कप्पो विहण्णइ।। न विद्यते व्याघातः प्रवज्यविघ्नो यस्यासा अव्याघातः शैक्षपूर्वसाधुषु क्षेत्रान्निर्गतेष्वपि प्रव्रज्यां गृह्णाति न पुनः कालक्षेपं करोतीतिभावः (पुणेहोइत्ति) पुनभूयोऽपि यदा किलते साधवः समायास्यन्ति तदा प्रव्रजिष्यामीति कश्चित् शैक्षोब्रूयात (जावज्जीवपराजिणत्ति) यदा यदा अहं प्रव्रजितुमभिलषामि तदा तदा भवैर्विघेरुत्तिष्ठमानवजीवमई पराजितः अत एवं मे सांप्रतमपि व्याघात उत्थितो यदेवं साधवो विहारं कृतवन्त इति कश्चिद ब्रूयात। एषां शैक्षाणामेकतरे प्रथम द्वितीयदिवसयोः प्रव्रजितुमुपस्थिते ज्ञायके कथचन प्रकारेण कल्पः पूर्वसाधुसमीपे प्रेषणादिको विधिर्विधीयते तथा वास्तव्ये वाचनाहृते वा त्वमस्माकं न भवसीति ज्ञापिते कथं कल्पो भवेत् / ऋजु म य आचार्यादिरेतान् शैक्षान् पूर्वसाधुसमीपे प्रहिणोति तद्विपरीतो अनृजुः / एतयोश्चिन्ता कर्तव्या। अभिधारणमेकमेनकान् वा साधून सम्यगाधाय शैक्षस्य गमनं तत्र कथमाभाव्यानाभाव्यता क्रियते (एगगामेत्ति) यत्रा ग्रामे क्षेत्रिका स्थितास्तौव केनापि धर्मकविना कोऽपि मिथ्यादृष्टिरुपशमितः स कस्याभवति (अइच्छंतेत्ति) कमप्याचार्यमभिधार्यातिक्रामति विवक्षितक्षेत्रमतीत्याग्रतो गच्छति शैक्षे कथं कल्पो विधीयते / तथा शिष्ये शिष्यविषया द्विधा अज्ञातके शैक्षके द्विप्रकारा मार्गणा भवति प्रतीच्छके च एकविधा केवलमज्ञातक विषया मार्गण (पडिसेहियव)