________________ उग्गह 743 - अभिधानराजेन्द्रः। भाग 2 उग्गह एमेव मासकप्पे, अतीरिए उट्ठिया य पत्तियरा। पुटिवल्ला हुंति पइ-पुण्णे हठिए न लहंति।। एवमेय अतिरिक्ते असंपूर्ण मासकल्पे उत्थिता या पूर्वजिका तच्च प्राप्ता ततः पूर्वसाधव एव प्रभवः। अथ मासकल्पः पूर्णस्ते च दृष्ट्वा अग्लाना अपि तौव स्थितास्ततो नावग्रहं लभन्ते पश्चात्प्राप्ता एव ता प्रभव इति। फासुगगोयरभूमी, उचारे चेव वण्णवसहीए। इट्ठावि लभंते व, तदभावे पच्छ जे पत्ता / / अथ तत्रा प्रासुका गोचरभूमिः उच्चारभूमिश्च विद्यते वसतिश्च छन्ना प्राप्यते। अन्यत्र तत्रा तथाविधमाम्रि ततो दृष्ट्वा अथैवममन्तरोक्तयुक्तया लभन्ते तद्भावे अनन्तरोक्तकारणाभावे ये पश्चात्प्राप्तास्त एव लभन्ते। गतं वज्रिकाद्वारम्। अथसार्थद्वारमाह। जेणग्गहिओ सत्थो, जेण य सत्थ होइ समदोण्हंति। जा वइया पडिसत्था, पुव्व ट्ठियसाहारणं जंच।। येन साधुना सार्थः पूर्व गृहीतो येन वा सार्थवाहः पूर्वमनुज्ञा पितस्तस्यावग्रह आभवति। अथसमकमनुज्ञापितस्ततोद्वयोरप्ववग्रहः यावन्तश्च प्रति सार्था मीलनार्थमल्लिघुतरास्ता समागत्य मिलन्ति तेषु ये साधवस्ते पूर्वस्थितानामुपसंपन्ना भवन्ति / यत्रा परस्परंनिश्रया द्वौ सारं तिष्ठतस्ततःसाधारणं मन्तव्यमिति। एतदेव स्पष्टयति। सत्थे सहप्पघाणा, एक्कणक्केण सत्थवाहेउ। ओपुच्छियावि दिण्णो, दोण्हवि मिलिया व एगट्ठा। सार्थे येकेऽपिअथवा प्रधानाः पुरुषास्तेएकेनानुज्ञापिता एकेन साधुना सार्थवाह आदिष्टस्ताभ्यां चोभयोरपि वितीर्णमनुज्ञापितं ततो येन कृतं नातिक्रम्यते तेन यस्मै प्रदत्तं तस्यावग्रहः।। अथ द्वावप्यन तिक्रमणीयौ ततो द्वयोरपि साधारण क्षेत्रम् / अथ द्वावप्येकत्र मिलितौ अनुज्ञापितौ ततो येन पूर्वमनुज्ञापितस्तस्यावग्रह इति। इंतं महल्लसत्थं,डहरा गोपडिच्छएण तो पभुणो। तुरियं वा आधावति, मएण एमेव अस्सामी।। महल्लं वृहत्तरं कमपि सार्थमागच्छन्तंडहरको लघुतरः / सार्थप्रतिकृते ततो ये लघुतरसार्थवासिनः साधवस्तेनावग्रहस्य प्रभवः। यो वा सार्थो भयेन त्वरितं वृहत्तरसाथ मिलनाय धावति तत्रापि ये साधवस्ते एवमेव स्वामिनः / वृहत्तरवासिन एवावग्रहस्य स्वामिन इति भावः। अह वीमज्झंगिणादी, दुग्गं वा एत्थ दोवि वसिऊणं। वाले हामो पभाए, णिस्सा साधारणं कुणइ / / दौसार्थमका मिलितौ परस्परमित्थं निश्रांकुरुते यथा यदिदमटवीमध्ये नदी दुर्ग वा विद्यते अत्र द्वयेऽपि जना रात्रा वुषित्वा प्रभाते चलयिष्यामः / पुरतो गमिष्यामः इति परस्पर साधारणां निश्रां या कुरुतस्तत्र सचित्तादिकं सर्वमपि साधारणम् / गतं सार्थद्वारम्। अथ सेनाद्वारमाह। सेणाए जत्थ राया, अरणे अहो जत्थ पविट्ठो। सो सेसम्मि उग्गहो, जो उ वडगा यसो इहइं।। यत्रा यस्यां सेनायां राजा भवति तत्रावग्रहो न भवति यत्रा वा ग्रामादौ क्षेत्रो स राजा प्रविष्टस्तत्र यद्यप्यन्ये साधवः पूर्वं स्थिताः सन्ति तथापि यावन्तं कालं स तत्रास्ते तावन्नावग्रहः।। शेष नाम या ग्रामादौ राजा न प्रविष्टो यो वा शून्यसेनो राजक इत्यर्थस्तत्रत्रावग्रहो भवति परं तत्र यो व्रजिकायां गम उक्तः स इहापिमन्तव्यः / गतं सेनाद्धारम्। अय संवर्तद्वारमाह। नागर गो संवट्ठो, अणोग्गहो जत्थ वा य विहो सो। सेसम्मि उग्गहो जो, गामाउ सत्थम्मि सो इहई।। नागरको नगरसंबंधी संवत्ततॊ ऽनवग्रहो न तशावग्रहो भवति। यत्र वा ग्रामादौ स नागरकः संवर्तः प्रविष्टस्तत्रापि नावग्रहः / शेषो ग्रामेयकसंवतस्तत्रावग्रहो भवति परं य एव सार्थे ग्राम उक्तः स एवेह द्रष्टव्यः।। वृ०३ उ०। (16) क्षेत्रात्यागसमय एवागता अपरे तर्हिस एवावग्रहः / (सूत्रम्) जदिवसं समणे निरगंथा सिज्जासंथारयं विप्पजहंति / तदिवसं अवरे समणा निग्गंथा हव्वमागच्छिज्जासवे व उम्गहस्स पुटवाणुण्णवणा चिट्ठइ अहालंदमविग्गहो।। अस्य सूत्रस्य कः संबन्ध इत्याह। उग्गहए व उवगतो, सागरिय उज्झहा उसाधम्मी। रहितं व होइ खित्तं, केवतिकाले स संबंधो।। पूर्वसूत्रो तावदवग्रह एव प्रकृतः प्रस्तुतो वर्तते। "दोवंपि अप्पुण्णवित्ता" इति वचनात् / इदमपि प्रकृतसूामवग्रहविषयम् / यद्वा पूर्वसूत्राद्वये सागारिकावग्रह उक्तः इह तु सागरिकावग्रहादनन्तरं साधर्मिकावग्रहः प्रतिपाद्यते।अथवा पूर्वसूत्रेषुसंस्तारकं प्रत्यर्प्यविहारः कर्तव्य इत्युक्तमत्र तु विहारे कृत तैः साधुभिर्विह-रितमपि तत्क्षेत्र कियन्तं कालमवग्रहयक्तं भवतीति निरूप्यते एष संबंन्धः / अनेनायातस्यास्य व्याख्या (जदिवसंति) प्राकृतत्वात्सप्तम्यर्थे द्वितीया ततो यस्मिन्दिवसे श्रमणा निर्गन्थाः शय्या च वसतिः संस्तारकश्च / तृणफलकात्मकं शय्यासंस्तारकम् अत्र शय्याग्रहणेन ऋतुबद्धकालः सूचितः संस्तारकग्रहणेन तु वर्षाकालः / अथ कारणजाते ऋतुबद्धो यः संस्तारको गृहाते इति कृत्वा संस्तारकग्रहणेन द्वावपि गृहीतौ ततः मासकल्पे वर्षावासे वा पूणे शय्या संस्तारकं वा यस्मिन् दिवसे पूर्वस्थिताः साधवो विप्रजहति परित्यजन्ति तदिवस एवापरे श्रमणा निर्गन्थास्तका क्षेत्रो हटवं शीघ्रमागच्छेयुः ततः क्षेत्रेवग्रहस्य पूर्वानुज्ञापना तिष्ठति। किमुक्तं भवति / य एव ततः क्षेत्रान्निर्गतास्तेषमेवावग्रहेण ततक्षेत्र यत्तु तदिवसमन्ये आगतास्ते क्षेत्रोपसंपन्ना इति कृत्वा यत्तत्रा सचित्तादिकं तत्पूर्वस्थितानामाभाव्यं कियन्तं कालं यावदित्याह (अहालंदमविग्गहे) इह यस्यां वेलायां ते साधवो निर्गतास्तावती वेलां यावद् द्वितीयेऽप्यहि तेषामेवाक्ग्रहो भवतीति वक्ष्यते / यतो यथालन्दमिहाष्टपौरुषीप्रमाणं मध्यमं गृह्यते एतावन्तमपि कालं तदीय एवावग्रहे तत्क्षेत्रम् अतो यद्यागन्तुकास्तत्रा सचित्तादिग्रहणं कुर्वन्ति तदा साधर्मिकाः स्तन्यप्रत्ययं प्रायश्चित्तमा पद्यन्ते / अा तु सचित्तनोधिकार इति सूत्रार्थः / अथ नियुक्तिविस्तरः / तत्र सचित्तावग्रहशैक्षविषय इति कृत्वा प्रथमतस्त दुत्पत्तिं दर्शयति। सुत्तत्थतदुभयोवि-सारए य धम्मकहिवाई।। कालदुअम्मि व संते, उवसंतो स अण्णगामजणो।। कालधर्मे ऋतुबद्धवर्षावासलक्षणे क्वचित्क्षेत्रो वसतां स्वग्रामजनसकोशयोजनाभ्यन्तर वय॑न्यग्रामजनश्चोपशान्त प्रतिबद्धः