________________ उग्गह 732 अभिधानराजेन्द्रः / भाग 2 उग्गह येन्नचैवं (परवडियाएत्ति) परानीतं यदशनादि तत् भृशमवगृह्याश्रित्य नोपनिमन्त्रयेत् / किं तर्हि स्वयमेवानीतेन निमन्त्रायेदिति / तथा (सेइत्यादि) पूर्वसूत्रावत्सर्व नवरमसांभोगिकान् पीठफलकादिनोपनिमन्त्रयेद्यस्तेषां तदैव पीठकादि संभोग्यं नाशनादीति। (सूत्रम्) अत्थिया इत्था केइ उदस्सय परियावन्नए यअचित्ते परिहरणे रिह सवे व उग्गहस्स पुटवाणुण्णवणा चिट्ठइ | अहालंदमवि उग्गहो।। अस्य संबन्धमाह। असहीणेसु विसाहम्मि, तेसुइतिएस उग्गहो वुत्तो। अयमपरो आरंभो, गिहीवि जढे उग्गहे होइ।। अत्राधीनेष्वपि क्षेत्रान्तरंगतेषु साधर्मिकेषु इत्येषोऽवग्रहः प्रोक्तः। अयं पुनरपरः प्रकृतसूत्रास्यारम्भो गहिभिर्विजढः परित्यक्तो यः प्रतिश्रयस्तद्विषयेऽवग्रहो भवति। अनेन संबन्धेनायातस्यास्य व्याख्या / अस्ति वात्रानन्तरस्तत्रा प्रस्तुते प्रतिश्रये किंचिदाहारार्थ भक्तादिकं गृहस्थसत्कमुपाश्रये पर्यापन्नं विस्मृतंपरित्यक्तमुपाश्रयपर्यापन्नम् अचित्तं प्राशुकं परिहरणार्थ साधूनां परिभोक्तुं योग्यं ता सैवावग्रहस्य पूर्वानुज्ञापना तिष्ठतितत्रोपाश्रये तिष्ठद्भिः पूर्वमेवानुजानीत प्रायोग्यमित्येव यदवग्रहोऽनुज्ञापितः सैवानुज्ञापना पश्चादुपाश्रयं पर्यापन्नग्रहणेऽप्यवतिष्ठते न पुनरभिनवमनुज्ञापनं कर्तव्यमिति भावः / कियन्तं कालमित्याह। यथालन्दमपि मध्यमलन्दमात्रमपि कालं यावदवग्रह इति सूत्रार्थः। अथामुमेव सूत्रार्थ भाप्यकृत्प्रतिपादयति। आहारो उवही वा, आहारो मुंजणारिहे कजा। दुविहपरिहार अरिहो, उवही विय कोयि णवि कोयि।। इह सूत्रो किंचिद्ग्रहणेन आहार उपधिर्वा गृहीतः परिहरणार्हग्रहणेन तु संप्रवरपरिभोगार्हाः / तन्नाहारः कश्चिद्भोजनार्हो भवति कश्चित्तु न भवतीति / उपधिरपि कश्चिद्विविध परिहारसाधारणार्ह परिभोगरूपस्याहॊ भवति कश्चिच्च न भवति। तथाहि। संसत्तावपिसियं, आहारो अणुवभोज इत्यादि। सुसिरतिणवंकलइयो, परिहारे अणरिहो उवही।। संसक्तं द्वीन्द्रियादिजन्तुमिश्र भक्तपानम् / आसवो मद्यम् पिशितं पुगलम् / इत्यादिक आहारो अनुपभोज्यः / साधूनामुप भोक्तुनयोग्यः शुषिरतृणवल्कलादिक उपधिरपि परिहारस्यानर्हामन्तव्या। अर्थादापन्न ओदनादिक आहारो वस्त्रादि कश्चापधिः परिभोगार्ड इति। वायंते अणुण्णवणा, पायेग्गे होइ तप्पढमयाए। सो चेव उग्गहो खलु, चिट्ठइ कालो उलंदक्खा।। साधुभिः प्रतिश्रये तिष्ठाद्भिस्तत्प्रयमतया या प्रायोग्यस्यानुज्ञापना कृता भवति सा एवोपाश्रयपर्यापन्नस्यापि ग्रहणे अवगृहस्तिष्ठति। न पुनर्भूया ऽनुज्ञाप्यते / या तु सूत्रो लन्दाख्या लन्द इत्यानिधानं स कालः प्रतिपत्तव्यः इति कृता सूत्रव्याख्या भाष्यकृता। संप्रति नियुक्तिविस्तरः। पुथ्वंसहा दुविहे, दवे आहार जाव अवरण्हे। उवहिस्स ततियदिवसे, इतरे गाहियम्मि जयणाए।। पूर्व प्रथमं तिष्ठत एव वृषभाः समन्तादुपाश्रयमेवावलोकयन्तो द्विविधे द्रव्ये उपयोग प्रयच्छन्ति / द्विविधं द्रव्यं नाम आहार उपधिश्च / तत्प्राधूर्णकादयो गृहिणो विस्मृत्य परित्यज्य वा गता भवेयुः। तेषु गतेषु यावदपराहो भवति तावदाहारं न गृहन्ति परतस्तुगृह्णन्ति उपधेस्तुतृतीये दिवसे गते ग्रहणं कुर्वन्ति इतरन्नाम अर्थजातं तत्कदाचिदगारिणां विस्मृतं भवेत् तदेकान्तं निक्षेपणीयम् (गहियं-तित्ति) यदि धनिकादिभिर्गृहीतं तथा प्रतिवासिकैर्नष्टो भवेत्तथा तत्रापि यत्तेषां विस्मृतं तद्यथोक्तविधिना गृह्णन्ति। एष नियुक्तिमाथासमासार्थः / सांप्रतमेनामेव विवृणोति।। पायं सायं मज्झं-ने यउसमा उवस्सयसमंता। एहिं ति अपिहाए, लहुगो वेसाइमे तत्थ।। प्रातः प्रभातेसायंसंध्यायांमध्याह्वेचकालत्रये वृषभा उपाश्रयं समन्तात् प्रत्युपेक्षन्ते अप्रत्युपेक्षमाणानां लघुको मासम् / दोषाश्च मे / तत्राप्रत्युपेक्षणे भवन्ति।। साहम्मियण्णधम्मिय, गारच्छिण्णिखिवणवोसिरणजु / गिण्हणकट्टणववहार, पच्छकदृड्डाहणिव्विसए।। सधर्मिणी संयमी अन्यधर्मिणी परतीर्थका अगारस्थी अविरतिका एता प्रद्विष्टाः सत्यः साधुप्रतिश्रयसमीपे अर्थजातस्य निक्षेपणं कुर्युः / यद्वा बालकं व्युत्सूज्य गच्छेयुः। परिषहपराजितोवा कोऽपि संयतो रज्जुबन्धनेन प्रियते। तत्रा राजपुरुषैति सति ग्रहणाकर्षलव्यवहारः पश्चात्कृतोड्डानिर्विष याज्ञापनादयो दोषा भवन्ति। इदमेव भावयति।। नोदणकु विय साहम्मिणि, परतिस्थिणिगीउदिद्विरागेण अणुकंपजहिच्छदा-रिजवालं अगारीवा।। सधर्मिणी काचिच खण्डितशीला गर्भवती उड्डाहोऽयमिति मन्यमानैः साधुभिढिं नितरां रजोहरणादिलिङ्ग बहिः कृत्वा भवेत् ततः सा मदीयलिङ्ग मपहृतमिति मन्यमाना तयानोदनया कु पिता सती स्वयमपत्यजातं तदाश्रयसमीपे परित्यजेत् परतीर्थिनी तु दृष्टिरागेण अस्माकमपयश प्रवाहो भविष्यतीति कृत्या संयतानामुपाश्रयसंनिधौ बालकं व्युत्सृजेत परं लोकश्चिन्तयिष्यति एतैरेवतजनितमिति। अथवा अगारी काचिदनुकम्पया यदृच्छया बालकं तत्रा प्रक्षिपत् तत्रानुकम्पया नाम दुष्कालादौ काचिददुस्था योषिजीवानाय स्वापत्यं तदाश्रयान्तिके त्यजति वरमेते अनुकम्पापरायणा अमुं बालकं शय्यातरस्यापरस्य वा ईश्वरस्य गृहे निक्षेप्स्यन्तीति यदृच्छया अभिसंधिमन्तरेणैवमेव व्युत्सृजति।। हाउं व तरेउं वा, अचयंता तेणगा भिवत्थादी। एएहिं वि य जणियं, तहिं व दोसा उजुणदिट्टा।। स्ते नकादयो वस्त्रादिकं हर्तुं वा तरीतु वा (अचयता) अशक्नुवन्तः साधूनां प्रतिश्रयसन्निधौ परित्यजेयुः / उपलक्षणमिद तेनान्यतीर्थिकादयः प्रत्यनी कतया हिरण्यसुवर्णादिकमपहृत्य तत्रा निक्षिपेयुः ततो यदि वृषभाः त्रिसंध्यं च सति प्रत्युपेक्षन्ते तदा लोको ब्रूयात एतैरेवैतदपत्यभाण्ड जनित सुवर्णार्यमत्र प्रक्षिप्तमिति / यस्तु देहे द्रोही द्रव्यार्थवैरादिक रणव्यपरोपितस्य पुरुषादेः शरीरमित्यर्थस्तका प्रतिचरणा कर्तव्या। सम्यक् प्रतिचर्य यदि कोऽपि न पश्यति तदा परिष्ठापनीयमिति हृदयम् / तच परावग्राहपरकीयनिवेशनादौ (निवोज्झंति) परित्यजन्ति / किंतु परैरपि गृहीते तश्च नाग इति