________________ उम्गह ७३१-अमिधानराजेन्द्रः-भाग-२ उग्गह विद्यते किमप्यस्येत्यकिंचनः निष्परिग्रह इत्यर्थः / तथा अपुत्रः स्वजनबन्धुरहितो निर्मम इत्यर्थः / एवमपशुः द्विपदचतुष्पदादिरहितः यत एवमतः परदत्तभोजी सन् पपं कर्म न करिष्यामीत्येवं समुत्थायैतत्प्रतिज्ञो भवामीति दर्शयति / यथा सर्व भदन्तादत्तादानं प्रत्याख्यामि दन्तशोधनमात्रामपि परकीयमदत्तं न गृह्णामीत्यर्थः तदनेन विशेषणकदम्बकेनापरेषां शाक्यसरजस्कादीनां सम्यक् श्रवणत्वं निराकृतं भवति / स चैवं भूतोऽकिंचनः श्रमणोऽनुप्रविश्य ग्राम वा यावद्राजधीनी वा नैवस्वयमदत्तं गृह्णीयान्नैवापरेण ग्राहयेन्नाप्यपरं गृह्णन्तं समनुजानीयाद्यैर्वा साधुभिः सह सम्यक्प्रब्रजितस्तिष्ठति वा तेषामपि संबन्ध्युपकरणमननुज्ञाप्यनगृह्णीयादिति दर्शयति। तद्यथा छत्रकमिति छद्अपवारणे छादयतीति छत्र वर्षाकल्पादि। यदिवा कारणिकः कचित् कुंकणदेशादावतिवृष्टिसंभवाच्छत्राकमपि गृह्णीयाद्यावचमच्छेदनकमप्यननुझाय प्रत्युप्रेक्ष्य च नावगृह्णीयात्सकृत्प्रगृह्णीयादनेकशः तेषां च संबंधि यथा गह्णीयात्तथा दर्शयति / पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणदिना सकृदनेकशो वा गृह्णीयादिति किञ्च (सेइत्यादि)स भिक्षुरागन्तागारादौ प्रविश्यानुविचिन्त्य चपर्यालोचयति विहारयोग्य क्षेत्रांततोऽवग्रहं वसत्यादिकंयाचेता यश्चयाच्यस्तंदर्शयति। यस्तोश्वरो गृहस्वामी तथा यस्तत्राधिष्ठाता गृहपतिना निक्षिप्तभरः कृतस्तानवग्रहं क्षेत्रावग्रहमनुज्ञापयेद्याचेत कथमिति दर्शयति (काममिति) तवेच्छाया खल्विति वाक्यालंकारे / आयुष्मान्! गृहपते (अहालंदमिति) यावन्मानं कालं भवाननुजानीते (अहारपरिणयंति) यावन्मानं क्षेत्रमनुजानीषे तावन्मात्र कालं तावन्मानं च क्षेत्रमाश्रित्य वयं वसाम इति यावदिहायुष्मन् यावन्मानं कालमिहायुष्मतोऽवग्रहो यावन्तश्च साधर्मिकाः साधवः समागमिष्यन्ति तावन्मात्रमवग्रह ग्रहीष्यामस्तत ऊर्ध्वं विहरिष्याम इति। आचा०५ श्रु०७ अ०१०।। (6) विधवाप्यनुज्ञापनीया। सागारियअहिगारे,अणुवत्तं तम्मि का विसो होति। संदिट्ठो वपनू वा, विहवा सूत्तस्स संबंधो।। इह पूर्वसूत्रात्सागारिकाधिकारः शय्यातराधिकारोऽनुवर्तते तस्मिन् अनुवर्त्तमाने सूत्रो कोऽपि स सागारिकः कोऽपि प्रभुरिति प्रतिपाद्यमित्येष विधवा सूत्रास्य संबंधः / अस्य व्याख्या। न विद्यते धवो भर्ता यस्याः सा विधवा ततो दुहिता जातिकुलवासिनी पितृगृहवासिनी वा इत्यादि। अथवा समासकरणादिदं द्रष्टव्यम् या दुहिता विधवा या च ज्ञातिकुल वासिनी दुहिता / ज्ञातिकुलवासिनी नाम या गृहजामातुर्दत्ता साप्यवग्रहमनुज्ञापयितव्या किमङ्ग! पुनः पिता वा भ्राता वा पुत्रो वा स सुतरामनुज्ञापयितव्यः / तथा चाह (से यावतीत्यादि) ततो द्वावप्यवग्रहमवग्रहीतव्याविति सूत्राक्षरार्थः।।। संप्रति भाष्यकारो व्याख्यानमाह। विगयधवा खलु विधवा, धवं तु भत्तारमहु नेरुत्ता। धारयति धीयते वा, दधाति वा तेण उ धवोत्ति।। विगतधवा खलु विधवा / विगतो धवोऽस्या इति व्युत्पत्तेः धवं तु भरिमाहुर्ने रुक्ता निरुक्तिशास्त्रविदः / कया व्युत्पत्येत्याह / धारयति तां स्त्रियं धीयते वा तेन पुंसा सा स्त्री दधाति सर्वात्मना पुष्णाति तेन कारणेन निरुक्तिवशात् धवइत्युच्यते।। विधवा वा णुण्णविजइ, किं पुण पिय माइभायपुत्तादी। सो पुण पभुवाऽपभुवा, अपभू पुण तत्थिमो होइ।। विधवाऽप्यनुज्ञाप्यते किं पुनः पिता माता भ्राता पुत्रादि स सुतरामनुज्ञाप्यः केवलं पुनः पुत्रभ्रातृप्रभृतिको द्विधा / प्रभु भवेदप्रभुर्वा / तत्र पुनरप्रभवइमे वक्ष्यमाणा भवन्ति तानेव नियुक्तिकृदाह। आदेसदासमइए, विरिङ्गजामाइए उ दिण्णाय। अस्सामिमासो लहुतो, सेसपमुणुग्गहेणं वा।। आदेशः प्राघूर्ण को दासो ऽकिंचनो भृतकः कर्मकरो विरिक्तो गृहीतरिक्तादिभागः पुत्रो भ्राता अन्यो वा तथाऽन्यत्र पृथगगृहे जामातरि एतेऽस्वामिनोऽप्रभव एतान् यदि अनुज्ञापयति तदा प्रायश्चितं मासलघु शेषाः प्रभवः स्वामिनस्तान् अनुज्ञापयेत (अणुग्गहेणंवंति) अप्रभूणामपि येषां प्रभुणानुग्रहः कृतो यथा त्वया कृतं दत्तं वा तत्प्रमाणमिति तेन वा अनुग्रहेणाप्रभूनपि अनुज्ञापयेत नान्यथा। अप्रभूणामनुज्ञापने दोषमाह। दियरातो निच्छुहणा, अप्पहुदोसा आदिन्नदाणं च। तम्हा उ अणुण्णवए, पमुंच पभुणा च संदिटुं।। गहपतिगहवतिणिवा, अविभत्तसुतो अदिण्णकण्णा वा।। अप्रभूणामनुज्ञापने दोषा दिवा रात्रौ वा निष्काशनं तत्रा जनगर्हाविनाशादयो दोषा न केवलं निष्काशनमदत्तादानं च / यस्मादप्रभूणामनुज्ञापने एते दोषास्तस्मात्प्रभुंप्रभुसंदिष्टंवा ऽनुज्ञापयेत् / तमेव दर्शयति (गहपतित्ति) वाशब्दादवि भक्तभ्रातृपितृव्यादि प्रभवति / अथवा या दुहिता विधवा निसृष्टा गृहे प्रमाणीकृता सापि प्रभवति / यदि वा यः स्वय दातुं प्रभुणा आदिष्टः सोऽपि प्रभवति / एताननुज्ञापयेत्। व्य०७ उ०। (7) अवगृहीते चावग्रहे उत्तरकालविधिः साधर्मिकागमने उपनिमन्त्रणम्। से किं पुण तत्थोग्गहंसि पवोग्गहियंसि जे तत्थ साहम्मिया संमोतिय समणुण्णा उवागच्छिज्जाजे तेण सयमेसियाए असणो वा / तेण ते साहम्मिया संभोइया समणुण्णा उवणिमंतेजा णो चेव णं परवडियाए उगिज्झिय उगिण्हिय उवणिमंतेजा से आगंतारेसु वा जाव से किं पुण तत्थोग्गहं सि पवोग्गहियंसि जे तत्थ साहम्मिया अण्णसंभोइया समणुण्णा उवागच्छेज्जा। जे तेणं संयमसियए पीढे वा फलए वा सेज्जासंथारए वा तेण ते साहम्मिए अण्णसंभोइए समणुण्णे उवणिमंतेजा णो चेव णं परिवडियाए उगिज्झिय उगिव्हिय उवाणिमंतेजाते आगंतारेसु वा 4 जाद। (से इत्यादि) तदेवमवगृहीतेऽवग्रहेससाधुः किंपुनः कुर्यादिति दर्शयति / ये तत्र केचनप्राधूर्णकाः साधर्मिकाः साधवःसंभोगिकाएकसामाचारीप्रविष्टाः समनोज्ञा उद्युक्तविहारिण उपागच्छेयुरतिवयसो भवेयुस्ते चैवंभूता ये तेनैव साधुना परलोकार्थिना स्वयमेषितव्यास्ते च स्वयमे वागता भवेयुस्तांश्चाशनादिना स्वयमाहृतेन स साधुरुपनिमन्त्रयेद्यथा गृह्णीत चूयमेतन्मयानीतमशनादिकं क्रियतां ममानुग्रह इत्येवमुपनिमन्त्र