________________ उम्गम 723 अभिधानराजेन्द्रः। भाग 2 उग्गम संथरे सव्वमुज्झंति, चउभंगो असंथरे। असाढा सुज्झई जेसु, मायावी जेसु वज्झई।। संस्तरे निर्वाहे सति सर्वमपि पात्रे स्थितं विशोधिकोटिसंसृष्टमुज्झति। असंस्तरे अनिर्वाहे पुनश्चतुर्भङ्गी चत्वारोऽन्तरो क्ता भङ्गा / सूत्रे च पुंस्त्वनिर्देश आर्षत्वात् / कथंभूतास्ते भङ्गा इत्याह / येषु भङ्गेषु असठोऽरक्तद्विष्टः सन् वर्तमानः शुद्ध्यति शुद्धमापद्यते / मायावी च येषु बध्यते तदेवं विशोधिरूपं कोटिद्वयं सप्रपञ्चमुक्तमिदानीं तदेवोपसंहारव्याजेन संक्षेपत आह! कोडीकरणं दुविहं, उग्गमकोडी विसोहिकोडीय। उग्गमकोडीछिकं, विसोहिकोडी अणेगविहा॥ कोडीकरणं दुविहं द्विप्रकारं द्विधा कोटिरित्यर्थः तद्यथा उद्रमकोटिर्विशोधिकोटिश्च / तत्रोद्गमकोटिषट्कमाधाकर्मिकोद्देशि- कान्त्यतो दातृकादिषड्भेदा / विशोधिकोटिः पुनरनेकविधा / औद्देशिकादिरूपा। संप्रत्यन्यथाकोटीः प्रतिपादयति। नव चेव अट्ठारसगं, सत्तावीसा तहेव चउपन्ना। नउह दो चेव सयाउ, सत्तरा होइ कोडीणं / / प्रथमतः कोटयो नव भवन्ति। तद्यथा स्वयं हननमन्येन घातनमपरेण हन्यमानस्यानुमोदनम् / तथा स्वयं पचनमन्येन पाचनं तत्परेण पच्यमानस्थानुमोदनं तथा स्वयं करणम् अन्येन कारणं करणपरेण क्रियमाणस्यानुमोदनम्। इहाद्याः षट् विशोधिकोटयोऽनियमास्तु तिस्रो विशोधिकोटयः। एता अपि नवकोटीः कोपि रागेण सेवते कोपि द्वेषण ततो द्विकेनगुणिता अष्टादश भवन्ति। अथवा एवं ताः कोऽपि मिथ्यादृष्टिः कुशास्त्रसंपर्कसमुत्थवासनावसतो निःशवंसेवते।कोपि सम्यग्दृष्टिः सन् विरतोऽप्यनाभोगादिकारणतोऽपरिज्ञानतः कोपि पुनः सम्यग्दृष्टिरपि सन् अविरतत्वेन गार्हस्थ्यमवलम्बमानः ततो मिथ्या- त्वादिरूपेण त्रिकेण नवगुणितां शप्तविंशतिर्भवति / रागद्वेषौ त्वत्र पृथग्विवक्ष्येते यदा पृथग्विक्ष्येते तदा ताभ्यां सप्तविंशतिर्गुणिता चतुः पञ्चाशद्भवति / तथा तथैव नव कोटयः कदाचित् पुष्टमालम्बनमधिकृत्य दशविधकान्त्यादिधर्मपरिपालनार्थ सेव्यन्ते। यथा दुर्भिक्षे। यदातुपृथक् विवक्ष्येते तदा ताभ्यां सप्तविंशतिर्गुणिता कान्तारे वान्येन फलादिना ऽभ्यवहृते नाहं देह धृत्वा क्षान्तिमार्दवार्जवं यच्च ब्राह्य पालयिप्यामीति (हंतीति ) एवमन्येन घातनाद्यपि भावनीयम् / ततो नव दशभिर्गुणिता जाता नवतिः / इयं च सामावृत्तेः चारित्रनिमित्ता केचित्पुनश्चारित्रनिमित्ता विशिष्टज्ञानलाभसंभवनिमित्ता च यथास्मिन् कान्ता रादावनेन फलादिना ऽभ्यवहृतेन देहमहं धृत्वा क्षान्त्यादिकं पालयिष्यामि प्रभूतानि च शास्त्राण्यधिष्ये इति (हंतीत्यादि ) एषा च ज्ञानस्य प्रधान्यविवक्षणात् ज्ञाननिमित्ता भण्यते / के चित् पुनश्चारित्रनिमित्ता दर्शनस्थिरीकरणहेतुशास्त्रपरिज्ञाननिमित्तां च यथाऽस्मिन् कान्तारादावनेन फ लादिनाभ्यवहृतेन देहं परिपाल्य क्षान्त्यादिकं पालयिष्यामि दर्शनं च निर्मलं विधास्ये इति ( हंतीत्यादि ) एषा च दर्शनस्य प्राधान्यविवक्षणादर्शननिमित्ताभिधीयते / तत एवंप्रकारा नवतिरिति त्रिभिर्नवतिर्गुण्यते ततो द्वे शते सप्तत्यधिके कोटीनां भवति। उक्तंच " रागाइमिच्छाइरागाई समणधम्म नाणाई। नव नव सत्तावीसा, नवन उईए उगुणेकारा"या तुदर्शनस्थिरीकरणार्थ प्रभूतशेषशास्त्रावगाहनार्थ चारित्रार्थं च सेव्यते सा सामान्यतश्चारित्रनिमित्तायामन्तर्भाव्यते ततोतस्तत्रोक्तभेद संख्यानियमव्याघातः / संप्रत्युद्गमद्वारदोषाणां वक्ष्यमाणोत्पादनाद्वारदोषणां च यतः संभवस्तदुत्थितान् वैवक्तयेनाह। सोलस उग्गमदोसे, गिहिणेउसमुट्ठिए वियाणाहि। उप्पायणाय दोसे साहू उसमुडिओ जाण॥ एतान् अनन्तरोक्तान् षोडशसंख्यान् उद्गमदोषान् गृहिणः सकाशादुत्थितान् विजानीहि / तथा ह्याधाकर्मादिदोषदुष्ट भक्तादिगृहस्थरेव क्रियते येतु उत्पादनाया दोषा वेक्ष्यमाणास्तान् साधुतः साधोः सकाशादुत्थितान् जानीहि / धात्रीत्वादीनां साधुभिरेव क्रियमाणत्वात् / तदेवमुक्तमुद्गमद्वारम् / पिं० / पञ्चा० / इहाधाकर्म औदेसिकचरमभेदत्रयम् / आहारादतिमिश्रजातान्त्यभेदद्वयं बादरप्रभृतिका अध्यवपूर्विकान्त्यभेदद्वयं चाविशोध्यन्ते कोटि पुरीषलवेनेव तदवयवेनापि स्पृष्टं सर्वमाहरतोप्यविशुद्धकोटयः / तत्संपृक्तं चान्नादिसंस्तरे साधवः सर्वं त्यजन्ति / असंस्तरे तु विविच्य तदेव त्यजन्ति घृतादिकमपि तावन्मात्रमेव त्यजन्ति शेषं यद्यपि तदवयवयोगस्तथापि शुद्धत्वमिति। जीत०। प्रव० स्था०) उग्गमं से य पुच्छेज्जा, कस्सट्ठा केण वा कडं / सोचा निस्संकियं सुद्धं,पडिगाहिज्ज संजए। उद्गमं तत्प्रसूतिरूपं (से) तस्य शङ्कितस्याशनादेः पृच्छेत्तत्स्वामिनं कर्मकरं वा यथा कस्यार्थमेतत्केन वा कृतमिति श्रुत्वा तद्वचनं न भवदर्थ किंत्वन्यार्थमित्येवंभूतं निःशङ्कितं शुद्धं सत् ऋजुत्वादिभावगत्या प्रतिगृह्णीयात्संयतः विपर्ययग्रहणे दोषादिति सूत्रार्थः / तथा " असणं पाणगंवाविखाइमं साइमंतहा। पुप्फेसु होज्जऊमीसं बीएस हरिएसुवा" दश०५ अ००। षोडशानामुद्गमदोषाणां प्रायश्चित्तमभिधित्सुराह / गुरुगा आहय चरमतिग, मीसवायरसपव्ववायहडे / कडपूइए य गुरुगो, अज्झायरए य चरमदुगे।। आधाकर्मगृह्णतःप्रायश्चित्तं चत्वारो गुरुकाः (चरमंतियत्ति) औद्देशिक द्विविधमोघेन विभागेन च। तत्र विभागतो द्वादश विधं तद्यथा उद्दिष्ट कृतं कर्म च / उद्दिष्ट चतुर्विधमौद्देशिकं समुद्देशिकमादेशिकं समादेशिकम्। कृतमपि चतुर्विधं तद्यथा उद्देशकृतं समुद्देशकृतमादेशकृतं समादेशकृतं च / कर्मापि चतुःप्रकारं तद्यथा उद्देशकर्म समुद्देशकर्म आदेशकर्म समादेशकर्म च / त्रयचतुष्कका द्वादश इह यावन्तः केचन भिक्षाचराः समागच्छन्ति तावतः सर्वान् उद्दिश्य यत् क्रियते तदौउद्देशिकमुच्यते। पाषण्डिन उद्दिश्य क्रियमाणं समुद्देशं श्रमणानुद्दिश्यादेश निर्ग्रन्थानधिकृत्य समादेशम्। उक्तंच "जावंतिय उद्देसो, पासंडीणं भवे समुद्देसो। समणाणं आदेसो, निग्गंथाणं समादेसो"एतस्मिन् द्वादशविधे विभागोद्देशके यचरमं त्रिकं समुद्देशकर्म आदेशकर्म समादेशकर्म च तत्र गृह्यमाणे प्रत्येकं चत्वारो गुरुकास्तपःकालविशेषिताः (मीसंति) मिश्रजातं त्रिविधं यावन्तिकमिश्रे पाषण्डिकमिश्रं स्वगृहमिश्रं च / तत्र पाषण्डिकमिश्रे स्वगृहमिश्रेच प्रत्येकं चत्वारो गुरुकास्तपः कालगुरुवः ( बायरत्ति ) द्विविधा प्राभृतिका सूक्ष्मा बादराच तत्र बादरायां गृह्यमाणायां चत्वारो गुरुकाः ( सपचवायाहडेत्ति ) यत्र यत्र ग्रामादौ सप्रत्यपाय