________________ उग्गम 722 -अभिधानराजेन्द्रः | भाग 2 उग्गम साध्वर्थमोदने निर्वय॑माने यत्तत्सकाञ्जिकादि तदप्याधा कर्मादि तदवयवरुपत्वात्। ततः काञ्जिकेन आयामेन अवरणेन वा उष्णोदकेन च यत्संसृष्टं तदपि पूतिर्भवति / एतदेव रूपकत्रयेण भाष्यकृत् व्याख्यानयति। शुक्केणं विजं छिकं तु, असुइणा धावए जहा लोए। इह सुक्केण विछिकं, धोवइ कम्मेण भाणं तु / लेबालेवत्ति जं वृत्तं,जंपिदय्वमलेवुडं। तं पि घेत्तूण कप्पंति, तक्काकिइमलेवडं। आहाइ जं कीरइ तंतु कम्म, वजेहि उप्पण्ण्ममग्गणं व।। सौवीर विस्सामणतंदुलोया, कम्मति तो तग्गहणं करेति।। सुगमं नवरम्। आद्यरूपकेणावयव इति पदं व्याख्यातं द्वितीयरूपकेण लेवालेवईत्ति तत्रायं भावार्थः यदपि वल्लचनकादि द्रव्यमलेपकृत् तदपि प्रथममनाभोगादिकरणतः पात्रे गृहीत्वा पश्चात्कथमपि परिज्ञाते परित्यज्य पात्रं कल्पयति। कल्पत्रयेण प्रक्षालयति। किं पुनस्तक्रादिकं लेपकृद् गृहीत्वा तत्र सुतरां कल्पत्रयेण प्रक्षालनं कर्त्तव्यमिति परिज्ञापनार्थ / लेपालेप इत्युक्तत् / तथा यदेव मुख्यवृत्त्या साधूनाधाय क्रियते तदेवाधाकर्मनान्यदिति बुद्ध्या शिष्या वर्जयिष्यन्ति ओदनमेकैकं केचलं न शेषं तन्दुलोदकादिकं ततो गुरवो भद्रबाहुस्वामिनः सौबीरां विश्रामणतन्दुलोदकान्यप्याधाकर्मेति परिज्ञापनार्थं तद्ग्रहणं सौवीरादिग्रहणं विशेषतः कुर्वन्ति। तदेवं शोधिकोटिरुक्ता। संप्रति विशोधिकोटिमाह। सेसा विसोहिकोडी, भत्तं पाणं विगिंच जहसत्तिं। अणलक्खिय मीसदव्वे, सव्वविवेगे य वा सुद्धो / / शेषा औद्देशिकं नवविधमपि च विभागौद्देशिकमुपकरणं पूतिर्मिश्रस्याद्यो भेदः स्थापना सूक्ष्मप्राकृतिका प्रादुष्करणं कृतं प्रामित्यकं परिवर्तितमभ्याहृतमुद्भिन्नं मालापहृतमाच्छेद्यमनिसृष्ट- मध्यवपूरकस्याद्यो भेदश्चेत्येवंरूपाणि विशोधिकोटि: विशुध्यति शेषं शुद्धं भक्तम् यस्मिस्तूवृत्ते यद्वा विशुद्धयति पात्रमकृतकल्पत्रयमपि यस्मिन्नुज्झिते सा विशोधिः साचासौ कोटिश्च भेदश्च विशोधिकोटिः। उक्तंच "उद्देसियम्मि नवगं, उवगरणं जं च पूइयं होइ, / जावंति य मीसगयं च, अज्झोयरए पढमपयं। परियट्टिए अभिहडे, उब्भिन्ने मालोहडेई य अच्छिज्जे अणिसट्टे, पाउयरकीयपामिचे। सुहमा पाहुडिया विय, ठवियगपिंडो य जो भवे दुविहो / सव्वोविएसिरासी, विसोहिकोडी मुणेवव्वो। अत्र विधिमाह ( विगिंच जह सत्ति) अनया विशोधिकोट्या यत्संसृष्टं मन्नं पानं वा तद्यथाशक्ति विगिंच परित्यज / इयमत्र भावना / भिक्षामटता पूर्वं पात्रे शुद्धं भक्तंयस्मिन्नेव तत्रैवानाभोगादिकरणवशतो विशोधिकोटिदोषं गृहीतं पश्चाच कथमपि ज्ञातं यथैतद्विवक्षितं विशोधिकोटिदोषदुष्टं मया गृहीतमिति ततो यदि तेन विनापि निर्वहति तर्हि सकलमपि तद्विधिना परिस्थापयति / अथन निर्वहति तर्हि यदेव विशोधिकोटिदोषदुष्टं तदेव तावन्मानं सम्यक्परिज्ञाय त्यजति। पुनरलक्षितेन सदृशवर्णगन्धादितया पृथक् परिज्ञातुमशक्येन मिश्रितं भवति। यद्वा द्ररूपेण भक्तादिना अन्यत् भक्तादि तदा सर्वस्यापि तस्याविवेकः कृते च सर्वात्मना विवेके यद्यपि केचित्सूक्ष्मा अवयवा लयिता भवन्ति यथापि तत्र पात्रे ऽकृतेकल्पे ऽष्यन्यत्परिगृह्णन् शुद्धो यतिस्त्यक्तभक्तादेर्विशोधि कोटित्वात् / विवेकश्चतुर्की भवति। तद्यथा द्रव्यतः क्षेत्रतः कालतौ भावतश्च / तथाचाह / दव्वाइओ विवेगो, दव्वे जं जं जहिं खित्ते। काले अकालहीणं, असढो जं पस्सई भावो / द्रव्यादिको द्रव्यक्षेत्रकालभावविषयो विवेकः तत्र यद्रव्यं परित्यजति स द्रव्यविवेकः। तथापरित्याज्यं यत्रपरित्यज्यतेस क्षेत्रविवेकः क्षेत्रेविकः क्षेत्रविवेकः इति व्युत्पत्तेः। तथा यद्विशोधिकोटिदोषदुष्टमकालहीनं शीघ्र परित्यजति एष कालतो विवेकः / इह यदेव दोषदुष्ट भक्तादिपरिज्ञातं तदेव तत्कालविलम्बाभावेन परित्यक्तव्यम्। परित्यागबुद्ध्या वा पृथक् भिन्ने स्थाने कर्तव्यमन्यथा भावतस्तत्परिग्रहात्संयमहानिप्रसक्तेः। तत उक्तमकालहीनमिति तथा यः असठोऽरक्तद्विष्टः सन् दोषदुष्ट पश्यति दृष्ट वा कालहीनं शीघ्रं परित्यजति स भावे भावतो विवेकः। इह निर्वाह सति विशोधिकोटिदोवसन्मिभंसकलमपि परित्यक्तम्। अनिवहि तुतावन्मात्र तत्र विधिमुपदर्शयितुकामः प्रथमतश्चतुर्भङ्गिकामाह। सुक्कोलसरिसपाए, असरिसपाए य एत्थ चउभंगो। तुल्ले तुलनिवाए, तत्थ दुवे दुन्नतुलाउ।। अत्र शुष्कस्य आर्द्रस्य च सदृशे समाने ऽन्यस्मिन् वस्तुनि मध्ये पाते सति तथाऽसदृशे असमाने ऽन्यस्मिन् वस्तुनि मध्ये पाते सति चतुर्भङ्गी भवति। सूत्रे च पुंस्त्वनिर्देश आर्षत्वात्। चत्वारो भङ्गा भवन्तीत्यर्थः ते चामी।शुष्के शुष्क पतितं, शुष्के आर्द्रम्, आर्द्र शुष्कम्, आर्टे , आर्द्रमिति / तत्र येन येन पदेन यौ यौ भनौ लब्धौ तौ तौ तथा दर्शयति (तत्थत्ति) तत्रतुल्ये समाने सति अन्यस्मिन् वस्तुनि मध्ये तुल्यनिपाते सति चतुर्भङ्गी सदृशस्य वस्तुनः प्रक्षेपे द्वौ प्रथमचतुर्थरूपौ भङ्गो लग्धौ तौ च " सुक्कोल्लसरिसपाए" इत्यनेन पदेन सूचितौ।तथा द्वौ भड़ौ द्वितीयतृतीय रूपौ। अतुल्यात् विसदृशत्वात् प्रक्षिप्यमाणौ लब्धौ। तौ च "असरिसपाए य" इत्यनेन पदेनोक्तौ तदेवं चतुर्भङ्गिकामभिधाय सप्रत्यनेनैवोद्धरणविधिमाह। सुक्के सुकं पडियं, विगिंचिउ होइ तं सुहं पढमे / वीयंमि दव्वं छोड़े, गालंति दव्वं करं दाउं // तइयंमि कर छोद्धं, उल्लिंचइ उयणाइ जं तरह। दुल्लहदव्वं चरिमे, तल्लियमेत्तं विगिचंति। शुष्के वल्लचनकादौ मध्ये यत् शुष्कं वल्लचनकादि पतितं तत्सुखं जलादिकमनन्तरेण " विगिंचिउ होइ" परित्युक्तं भवति। परित्याज्यं भवतीत्यर्थः / एष प्रथमो भङ्गः / तथा द्वितीयो भङ्ग तथा द्वितीये भङ्गे शुष्के वल्लचनकादौ मध्ये आर्द्र तीमनादिविशोधिकोटिदोषवत्पतितमित्येवंरूपे द्रवं काञ्जिकादितत्रमध्ये ऽपसृतंप्रक्षिप्य पश्चात्पात्रमवनम्य पात्रकर्णकदेशे च शुद्धभक्तपानरक्षणार्थ करंच दत्वा सर्व द्रवंगालयन्ति। तथा तृतीये शुद्धम्। आर्दै तीमनादौ मध्ये पतितंशुष्कतरं वल्लचनकादिरूपमोदनमित्येवंरूपे तत्र तीमनादौ मध्ये कर हस्तं प्रक्षिप्य ओदनादि यद् यावन्मानं शक्रोति तावन्मात्रमशठः सन् उल्लिञ्चति आकर्षति ततः शेष तीमनादिकलभते / तथा चरमे आर्दै आर्द्र पतितमित्येवंरूपे यदि तव्यं दुर्लभमन्यत्र न प्राप्यते तत्र उद्देशतस्तावन्मात्रं परित्यज्यन्ति। तथाचाह।