________________ उरगम 721 अभिधानराजेन्द्रः / भाग 2 उग्गम रोचन्ते मोदकास्ततो लोके तस्य मोदकप्रिय इति नाम प्रसिद्धिमगमत्। / स च कुमारोऽन्यदा वसन्तसमये वासभवनात्प्रातरूत्थाय आस्थानमण्डपिकायामाजगाम / तत्र च निजशरीरलवणिमापात्कृतसुरसुन्दरीरूपाहंकारमनोहरविला-सिनीजनगीतनृत्यादिकं परिभावयितुं प्रावर्तत / तत्र च स्थितस्य भोजनवेलायामागतायां भोजननिमित्तं जननी प्रधानसरावसंपुटेषु शेषपरिजननिमित्तं च घटेषु कृत्वा मोदकान् प्रेषितवती / ततस्तेन परिजनेन सह मोदका यथेच्छं बुभुजिरे। ते च रात्रावपि गीतनृत्यादिव्याक्षिप्तचित्ततया जागरणभावतो न जीर्णास्ततो ऽजीर्णदोषप्रभावतोऽधोवतोऽतीव पूतिगन्धिर्निर्जगाम / तद्गन्धपुद्गलाश्च सर्वतः परिभ्रमन्तस्तन्नासिकांप्रविविशुः। ततस्तथारूपं पूतिगन्धमाघ्राय चिन्तयामास / यथामी मोदका घृतगुडकणिक्कादिनिष्पन्नास्ततः शुचिद्रव्यसमुत्था एवैते / केवलमयं यो देहो जननीशोणितजनकशुक्ररूपो द्विधा मलप्रभवत्वादशुचिरूपस्तत्संपर्कवशतोऽशुचिरूपो जातः। दृश्यन्ते च कर्पूरादयोऽपि पदार्थाः स्वरूपतः सुरभिगन्धयोऽपि देहसंपर्कतःक्षणमात्रेण दुरभिगन्धयो जायमानाः / क्षणान्तरे शरीरगन्धस्यैव पूत्यात्मकस्योपलम्भात्तत इत्थमशुचिरूपस्याने कापायशतसंकुलस्य शरीरस्यापि कृते ये गृहमासाद्य नरकादिकुगतिविनिपातकारीणि पापकर्माणि सेवन्ते ते सचेतना अपि मोहमयनिद्रोपहतविवेकचेतनत्वादचेतना एव परमार्थतो वेदितव्याः / यदपि च तेषां शास्त्रादिपरिज्ञानं तदपि परमार्थतः शरीरायासफ्लम् / यद्वा तदपि पापानुबन्धिकर्मोदयतस्तयाविधक्षायोपशमनिबन्धनत्वाद-- शुभकर्मकार्येवेति तत्त्ववेदिनामुपेक्षास्पदम् / विद्वता हि सा तत्त्ववेदिनां प्रशंसाऱ्या या यथावस्थितवस्तुविविधहेयोपादेयहा- नोपादानप्रवृत्तिफ ला यां तु सकलजन्माभ्यासप्रवृत्या कथमपि परिपाकमागतापि सती सदैव तथाविधपापकर्मोदयवशत एकान्ताशुचिरूपेष्वपि युवतिजनवदनजघनवक्षोरुहा-दिशरीरावयवेषु रामणियकव्यावर्णनफ्ला सा इह लोकेपि शरीरायासफला परलोके च कुगतिविनिपातहेतुरित्युपेक्षणीया ये पुनः परमर्षयः सर्वदैव सर्वज्ञमतानुसारितागमशास्त्राभ्यासतो विदितयथावस्थितहेयोपादेयवास्तव इत्थं शरीरस्याशुचिरूपतां परिभाव्य युवतिकलेवरेषु नाभिरज्यन्ते नापि कर्माणि स्वशरीरकृते पापानि समाचरन्ति किंतु शरीरादिनिस्पृहतया निरन्तरं सम्यक्शास्त्राभ्यासतो ज्ञानामृताम्भोधिनिमग्नाः सममित्रशत्रवः परीषहादिभी रजिताः सकलकर्मनिर्मूलनाय यतन्ते धन्यास्ते तत्त्ववेदिनस्तानह नमस्करोमि। तदनुष्ठितं च सर्वमिदानीमनुतिष्ठामि इत्येवं तस्य मोदकप्रियस्य कुमारस्य वैराग्योद्गमेन सम्यद्गर्शनज्ञानचारित्राणामुद्गमो बभूव / ततः केवलज्ञानोद्गम इति तदेवमुक्तं मोदकप्रियकुमारकथानकम्। संप्रति यदुक्तं चारित्रोद्गमेनाधिकार इति तत्र चारित्रोद्गमेनाधिकारः शुद्धस्य द्रष्टव्यो नाशुद्धस्य / अशुद्धस्य मोक्षलक्षणकार्यसंपादकत्वायोगात् न खलु वीजमुपहतमडुरं जनयति। सर्वत्राप्यनुपहतस्थैव कारणस्य कार्यजनकत्वात् चारित्रस्य च शुद्धौ कारणं द्विधा तद्यथा / आन्तरं बाह्यं च। ते द्वे अपि प्रतिपादयति। दसणनाणप्पभवं, चरणं सुद्धेसु तेसु तस्सुद्धी। चरणेण कम्मसुद्धी, उम्गमसुद्धी चरणसुद्धी य॥ इह यतो ज्ञानदर्शनप्रभवं चारित्रं ततस्तयोः सुद्धयोस्तस्य चारित्रस्य शुद्धेर्भवति नान्यथा / तस्मादवश्यं चारित्रशुद्धिनिमित्तंचारित्राणा सम्यग्ज्ञानसम्यग्दर्शनेच यतितव्यम्।यतश्चनिरन्तरं सद्गुरुचरणकमलपर्युपासनापुरस्सरं सर्वज्ञमतानुसारितांगमशास्त्राभ्यासकरणम्। एतेन चारित्रशुद्धेरान्तरं कारणमुक्तम्। अथ चारित्रशुद्ध्यापि किं प्रयोजनं येनेत्थं तच्छु द्धिरन्वेष्यते। अत आह / “चरणेणकम्मसुद्धी" चरणेन विशुद्धन कर्मणा ज्ञानावर-णीयादिकस्य शुद्धिरपगमो भवति। तदपगमे चात्मनो यथावस्थितस्वरूपलाभात्मको मोक्षस्ततो मोक्षार्थिना चरणशुद्धिरपेक्ष्यते तथा न के वलयोरेव ज्ञानदर्शनयोः शुद्धौ चारित्रशुद्धिः किन्तूद्रमशुद्धौ च चारित्रशुद्धिरेतेन बाह्य कारणमुक्तम् / ततश्वरणशुद्धिनिमित्तं सम्यदर्शनज्ञानवतापि नियमत उद्गमदोषपरिशुद्ध आहारो ग्राह्यः। ते च उद्गमदोषाः षोडश। तानेव नामतो निर्दिशति। आहाकम्मुद्देसिय, पूइकम्मे य मीसजाए य। ठबणा पाहुडियाए, पाऊपरकीयपामिचे / / परियट्टिए अमिहडे, अभिन्ने मालोहडेई य। अच्छिज्जे अणिसिट्टे, अज्झोयरए यसोलसमे / / (एतद्व्याख्या अहाकम्मशब्दे) दर्श०1 पं० चू०। ध०। केचित्पञ्चदश मन्यन्ते ते चैवं व्याख्यानयन्ति नतु चामी षोडश उच्यन्ते "अज्झोयरओमीसजायंचदोहिं पिएको चेव"भेदआधाकर्मादीनां व्याख्या अन्यत्र अहाकम्मादिशब्देषु विशोधिकोट्यविशोधिकोटिविभागः। संप्रत्येतेषामेव विभागमाह। एसो सोलस भेओ, दुहा कीरइ उग्गमो। एगा विसोहिकोडी, अविसेही उवावए।। षोडशभेद उद्गमः सामान्येन द्विधा तद्यथा एकाविशोधिकोटिः एको भेदोविशोधिकोटिरूपः। अपरा चाविशोधिकोटि-रविशोधिकोटिरूपः / द्वितीयो भेद इत्यर्थः। तत्र यद्वा दोषदुष्ट भक्तेतावन्मात्रे अपनीले सति शेष कल्प्यते स दोषो विशोधिकोटिः शेषस्त्वविशोधिकोटिः / तत्र प्रथमतोऽविशो धिकोटिमाह। आहाकम्मुद्देसिय, चरमतिगं पूइमीसजाए य। वायरपाहुडिया विय, अज्झोयरए चरिमदुगं / / आधाकर्मप्रभेदमौद्धेशिकस्य विभागौद्देशिकस्यान्त्यभेदत्रयं तथा पूतिभक्तं पानरूपं मिश्रजातं पाषण्डिगृहमिश्ररूपं साधु गृहमिश्ररूपम्। वादराप्राभुतिका अध्यवपूरकस्य च चरमद्विकं स्वगृहपाषण्डिमिश्रस्वगृहसाधुरुपम्। एते उद्गमदोषा अविशोधिकोटिरूपाः अनया चाविशोधि कोट्या स्पृष्टं शुद्धं भक्तम्। यघोषदुष्टं भवति तद्दोषमाह। उद्रमकोडीअवयव-लेवालेवे य अकयए कप्पेकंजिय अयामगवाउ, लोयसंसहपूईओ उद्गमकोट्या उद्गमदोषरूपया अविशोधिकोट्या अवयवेन शुष्कसिक्तादिना तथालेपेन तक्रादिना अलेपेन वल्लचनका दिना संसृष्ट तद्भक्तं तस्मिन्नुज्झितेपि कृते अकृते कल्प्ये। अकृतकल्प्यत्रये इत्यर्थः पात्रे यत्पश्चात्परिगृहाते तत्पूरितमव गन्तव्यम् / इह कश्चित् मतिदौर्बल्यादित्थं विकल्पते / यथा तदेव साधूनाधाय निर्वर्तितं तदेवैकमोदनमाधाकर्मभवतिन शेषमवश्रावणकाञ्जिकादितत्संसृष्टपूति न भवतीति ततस्तदभिप्रायनिराकरणार्थमाह ( कंजिएत्यादि ) इह