________________ उग्गतव 720 अभिधानराजेन्द्रः। भाग 2 उग्गम उग्गतव त्रि० ( उग्रतपस् ) उग्रमप्रधृष्यं तपोऽनशनादि यस्य स तथा। रा०वि०। भ०। तीव्रतपसि, संथा०। यदन्येन प्राकृतेनपुंसा न शक्यते चिन्तयितुमपि मनसा ( तेन ) विविधेन तपसा युक्ते, रा०। उत्त० / स्था०। ज्ञा०नि०। उम्गतेय त्रि०(उग्रतेजस्)६ब०॥ तीव्रप्रभावे, तीव्रविषे, “आसीविस उग्गतेयकप्या" प्रश्न०१सं० द्वा०। उग्गपव्वइयपुं० (उग्रप्रव्रजित) उग्राः सन्तः प्रव्रजिताः। दीक्षामाश्रितेषु, आदिदेवेनारक्षकत्वेन नियुक्तानां वंशजेषु, औ०। उग्गपुत्त पुं० ( उग्रपुत्र ) 6 त० उग्राणां पुत्राः / उग्राणां कुमारेषु, क्षत्रियजातिविशेषेषु, सूत्र०२ श्रु०१३ अ०भ०। उग्गपुरिस पुं० ( उग्रपुरुष ) उग्रपुरुषविशेषे, स्था० / (व्याख्या पुरिसशब्दे) उग्गम पुं० (उद्गम ) उद्गमनमुद्गमः पिण्डादेः प्रभवे, तत्थुग्गमोपसूई, पभओ एमादि हॉति एगट्ठा। सो पिंडस्सिह पगओ, तस्स य दोसा इमे होति / / तत्रेत्युगमोत्पादनैषणासुमध्ये उद्गमनमुद्गमः। प्रसवनं प्रसूतिः। प्रभवनं प्रभवः ( एमाइत्ति ) एवामदयः आदिशब्दादुद्भवादिपरिग्रहः भवन्ति स्युरेकार्थाः / अनन्याभिधेयाः शब्दा इति गम्यम् (सोत्ति ) स चोद्गमः सचेतनाचेतनमिश्रद्विपदादिद्रव्यविषयत्वेन बहुविषयोपि सन् पिण्डस्य भैक्ष्यस्याधिकृतः प्रस्तुतः / इह पिण्डाधिकारे दोषा दूषणानि तस्य पिण्डोद्रमस्य इमे वक्ष्यमाणा भवन्ति वर्तन्ते / ये हि साध्वर्थ पाकस्थापनप्रकाशनादयो भक्तादिवस्तुनो भक्तस्थापितत्वप्रकटत्वादिरूपेण भवनलक्षणमुद्गमं दूषयन्ति ते उद्गमदोषा इतिगाथार्थः / पंचा० 13 विव० / तत्र प्रथमत उद्गमस्य एकार्थिकानि नामानि नामादिकांश्च भेदान् प्रतिपादयति। उग्गम उग्गोवण मग्गणाय एगट्ठियाणि एयाणि। नामां ठवणा दविए भायम्मि य उग्गमो होइ।। उद्गम उद्गोपना मार्गणाच एकाथिकान्येतानि नामानि सच उद्गमश्चतुर्दा भवति तद्यथा (नामंति) नामोद्गमः यत् उद्गम इति नाम अथवा जीवस्य अजीवस्य वा यदुद्गम इति नाम स नामनामवतोरभेदोपचारात् / यता नाम्ना उद्गमो नामोद्म इति व्युत्पत्ते मोद्गमः / स्थापनोद्रम उद्गमः स्थाप्यमानो द्रव्ये द्रव्यविषयो भावभाव विषयः। तत्र द्रव्योगमो द्विधा आगमतो नो आगमतश्च / नो आगमतोपि त्रिधा / ज्ञशरीर भव्यशरीर तद्व्यतिरिक्तभेदात्। तत्र आगमतो नो आगमतश्च ज्ञशरीरभव्यशरीररूपौ द्रव्यगवेषणावत् भावनीयौ। ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्योद्गमम्। तथा नो आगमतो भावोद्वं च प्रतिपादयति। दव्वम्मि लडुगाई, भावे तिविहोग्गमो मुणेयव्यो। दसणनाणचरित्ते, चरितुग्गमेणेत्थ अहिगारो॥३॥ द्रव्ये द्रव्यविषये उद्गमो लड्डुकादौ लड्डुकादिविषयो लडुकादेः संबन्धी वेदितव्यः / अत्रादिशब्दाज्ज्योतिरादिपरिग्रहः / तथा भावे भावविषये त्रिविधात्रप्रकारो ज्ञातव्यः / तद्यथा दर्शने दर्शनविषयो ज्ञाने ज्ञानविषयश्चारित्रे चारित्रविषयः / अत्र तु चारित्रोद्गमेनाधिकारप्रयोजनम् चारित्रस्य प्रधानमोक्षाङ्गत्वात् / तथाहि ज्ञानदर्शने सती अपि न चारित्रमन्तरेण कर्ममलापगमाय प्रभवतः श्रेणिकादौ तथोपलम्भात् चारित्रपुनरवश्यं ज्ञानदर्शनाविनाभाविस्वरूपेणापि वाभिनवकोपादाननिषेधपूर्वोपार्जितकम्मपिगमकरणस्वरूपम् ततस्तत्प्रधानमोक्षस्याङ्गं तत्प्रधानानुयायिन्यश्च प्रेक्षावतां प्रवृत्तयः / ततोत्र चारित्राद्रमेन प्रयोजनम्। लड्डुकादेरित्यत्रादिशब्देन लब्धं ज्योतिरुद्रमादिरूपं द्रव्योगमं विवरीतुमाह। जोइसतणोसहीणं, मेहरिणकराणमुग्गमो दव्वे / सो पुण जत्तो य जया, जहा य दव्वुग्गमो ददो।। 83|| ज्योतिषां चन्द्रसूर्यादीनां तृणानां दर्भाणामौषधीनां शाल्यादीनां जीमूतानां ऋणस्य उत्तमर्णा यदा तव्यस्य कराणां राजदेयभागानाम्। उपलक्षणमेतत्। अन्येषामपि द्रव्याणांय उद्गमः सद्रव्यसंबन्धी वेदितव्यः / स पुनद्रव्योगमो यतो यस्मात्सकाशात्सयदा यस्मिन् काले यथा च येन प्रकारेण भवति तथा वाच्यः / तत्र ज्योतिषां मेघानां च आकाशदेशात् तृणानामौषधीनां च भूमेर्ऋणस्यव्यवहारादेः कराणां नृपतिनियुक्तपुरुषादेः तथा यदि ज्योतिषां मध्ये सूर्यस्य प्रभाते शेषाणां तु कस्यापि कस्यांचिद्वेलायां तृणादीनां प्रायः श्रावणादौ तथा यथेति ज्योतिषा मेघानां चाकोशे प्रसरणेन तृणानामौषधीनां च भूभी स्फोटयित्वा उर्व निस्सरणेन ऋणस्य पञ्चकशतादिवर्द्धनरूपेण कराणां प्रतिवर्ष गृहस्य द्रम्मद्वयादिग्राह्यमित्येवंरूपेण / एवं शेषाणामपि द्रव्याणां यतो यदा यथा च यथासंभवमुद्रमो भावनीयः। इह प्राक् “दव्वम्मिलड्डुगाइ" इत्युक्तं तेन च लड्डुकप्रियकुमारकथानकं सूचितमतस्तदेवेदानी गाथात्रयेणोपदर्शयति। वासहरा अणुजत्ता, अत्थाणी जोग्गकिडुकाले य। घडगसरावेसु कया उ, मोयगा लडुगपियस्स / / 84 // जोग्गा अजिण्ण्मारुय, निसमुन्भवो सुइसमुत्थो। आहारुग्गामचिंता, असुइ त्ति दुहा मलप्पभवो।।५।। तस्सेवं वेरुग्ग-गमेण सम्मत्तनाणचरणाणं। जुगवंकमुग्गमो वा, केवलनाणुग्गमो जाउ // 86 // वासगृहात्वासभवनात् अनुयात्रानिर्गमः / तत आस्थान्य योग्या क्रीडा सा व्यधीयत / ततः काले भोजनवेलायां तस्य लड्डुकप्रियस्य मोदकप्रियस्य कुमारस्य योग्या घटेषु सरावेषु च कृत्त्वा मोदका जनन्या प्रेषिताः / ते च परिजनेन सह स्वेच्छं तेन भुक्तास्ततो भूयोपि योग्यक्रीडानिरीक्षणासक्तचित्ततया तस्य रात्रौ जागरणभावतस्ते मोदका न जीर्णास्ततोऽ जीर्णदोषप्रभावतोऽतीव पूतिगन्धिमारूतनिसगर्गोऽभवत् / तत आहारोद्गमचिन्ता जाता / यथा त्रिसमुत्था घृतगुडकणिक्कासमुद्भवा एते मोदकास्ततः शुचिसमुत्थाः / सूत्रे च जातावेकवचनम् / केवलं द्विधा मलप्रभवोऽयं देहस्ततस्तत्संपर्कतोऽशुचयो जाता इत्येवंतस्य वैराग्योद्गमेन ज्ञानदर्शन चारित्राणां युगपक्रमेण वा उद्गमो जातस्ततः के वलज्ञानोद्गम इति गाथाक्षरार्थः / भावार्थस्तुकथानकादवसेयस्तचेदम्। श्रीस्थलकं नाम नगरं तत्र राजा भानुस्तस्य भार्या रुविमणी तयोः सरूपनामा तनयः स च यथासुखं पञ्चभिर्धात्रीभिः परिपाल्यमानः प्रथमसुरकुमार इवानेकसुजनहृदयाभिनन्दिनं कु मारभावमधिसरोह / ततः शुक्लपक्षचन्द्रबिम्बमिव प्रतिदिवसं कलाभिरभिबर्द्धमानः क्रमेण कमनीयकामिनीजनमनः प्रह्लादकारिणी यौवनिकामधिजगाम / तस्मै च स्वभावत एव