________________ उउ 711 अमिधानराजेन्द्रः। भाग 2 नापवर्तानायां लब्धाः सार्धाः पञ्चपञ्चाशत्सप्तषष्टिभागाः आगतं युगादितः षट्षु दिवसेष्वतिक्रान्तेषु सप्तमस्य च दिवसस्य सार्द्धषु पञ्चपञ्चाशत्संख्येषु भागेषु द्वितीयश्चन्द्रर्तुः परिसमाप्तिं गच्छति व्युत्तरचतुः-शततमजिज्ञायां सधुवराशिः पञ्चोत्तरशतत्रयप्रमाणोऽष्टभिः शतैस्त्र्युत्तरैगुण्यते व्युत्तरवृद्ध्याहि व्युत्तरचतुःशततमस्य व्युत्तराष्टशतप्रमाण एव राशिर्भवति। तथाहि यस्य एकस्मादूर्ध्वद्ध्यत्तरवृद्ध्या राशिर्लभ्यते तस्य स द्विगुणो रूपोनो भवति तथा द्विकस्य त्रीणि त्रिकस्य पञ्च चतुष्कस्य सप्त अत्रापि च व्युत्तरचतुः शततमप्रमाणस्य राशेर्युत्तरवृद्ध्या राशिश्चि-न्त्यते ततोऽष्टौ शतानि व्युत्तराणि भवन्ति एवं भूतेन च राशिना गुणने जातेद्वे लक्षे चतुश्चत्वारिंशत्सहस्राणि नव शतानि पञ्चदशोत्तराणि (244615 ) तेषां चतुस्त्रिंशच्छतेन भागो ह्रियते लब्धानि अष्टादश शतानि सप्तविंशत्यधिकानि (1927) अंशाश्वोद्वरन्ति सप्तनवतिस्तस्या द्विकेनापवर्तना लब्धाः सार्धा अष्टाचत्वारिंशत्सप्तषष्टिभागाः आगतं युगादितोऽष्टादशसु दिवसशतेषु सप्तविंशत्यधिकेष्वतिक्रान्तेषु ततः परस्परसार्द्धष्वष्टाचत्वारिंशत्संख्यासु सप्तषष्टिभागेषु व्युत्तरचतुः शततमस्य चन्द्रौः परिसमाप्तिरिति। संप्रति चन्द्रर्तुषु नक्षत्रयोगपरिज्ञानाय करणमाह। सो चेव धुवो रासी, गुणरासी वि य हवंति चेव / नक्खत्तं सोहणणिय, परिजाण पुव्वभणियाणि || युगे चन्द्रानक्षत्रयोगपरिज्ञानार्थ स एव पञ्चोत्तरशतत्रयप्रमाणो | ध्रुवराशिर्वेदितव्यः गुणराशयोऽपि गुणकारराशयोऽपि एकाद्युत्तरवृद्ध्या तएव भवन्ति ज्ञातव्या ये पूर्वमुद्दिष्टाः नक्षत्रशोधनान्यपि च परिजानीहि। तान्येव यानि पूर्व भणितानि द्विचत्वारिंशत्प्रभृतीनि ततः पूर्वकरणे विवक्षिते चन्द्रौ नक्षत्रयोग इति जिज्ञासायां स एव पञ्चोत्तरशतत्रयप्रमाणो ध्रुवराशिः ध्रियते (305) स एकेन गुण्यते एकेन गुणितः सन् स तावेनेव भवति ततो जातो वाचत्वारिंशत् शुद्धा शेषे तिष्ठतो द्वे शते त्रिषष्ट्यधिके (263 ) ततश्चतुस्त्रिंशेन शतेन श्रवणः शुद्धः स्थिते पश्चादेकोनत्रिंशच्छतं ( 126 ) तस्य द्विकेनापवर्तना क्रियते जाताः सार्भाश्चतुःषष्टिभागाः आगतं धनिष्ठायाः सार्द्धमैकेन चतुःषष्टिभागानावगाह्य चन्द्रः प्रथमं स्वऋतुं परिसमापयति द्वितीयश्चन्द्रर्तुजिज्ञासायांस एव धुवराशिः पञ्चोत्तरशतत्रयप्रमाणस्विर्गुण्यते जातानि नव शतानि पञ्चदशोत्तराणि (615) तत्राभिजितो द्वाचत्वारिंशत् शुद्धा स्थितानि शेषाण्यष्टौ शतानि त्रिसप्तत्यधिकानि ( 873) ततश्चतुस्त्रिंशेन शतेन श्रवणः शुद्धमुपगतः स्थितानि शेषाणि सप्तशतानि एकोनचत्वारिंशदधिकानि (736 ) ततो पि चतुस्त्रिंशेन शतानि धनिष्ठा शुद्धा जातानि षट्शतानि पञ्चोत्तराणि ( 605 ) ततोपि सप्तषष्ट्या शतभिषक् शुद्धा स्थितानि पश्चात्पञ्च शतानि अष्टत्रिंशदधिकानि ( 538 ) एतेभ्योऽपि चतुस्त्रिंशेन शतेन पूर्वभद्रपदा शुद्धा स्थितानि चत्वारि शतानि चतुरधिकानि (404) तेभ्योपि द्वाभ्यां शताभ्यामेकोत्तराभ्यामुत्तरभद्रपदाशुद्धा स्थिते शेषे द्वेशते त्र्युतरे ( 203) ताभ्यामपि भागानवगाह्य द्वितीयं स्वं ऋतुं चन्द्रः परिष्ठापयति / तथा ह्युत्तरचतुःशतत मचन्द्रर्तुजिज्ञासायां धुवराशिः पञ्चोत्तरशतत्रयप्रमाणोऽष्टभिः शतैस्त्व्युत्तरैर्गुण्यते जाते द्वे लक्षे चतुश्चत्वारिंशत्सहस्राणि नव शतानि पञ्चदशोत्तराणि (244615) तत्रार्द्धक्षेत्रेषु षट्सु नक्षत्रेषु प्रत्येक सप्तषष्टिरंशाव्यर्द्धक्षेत्रेषु षट् सु नक्षत्रेषु प्रत्येकं चतुस्त्रिंशच्छतमिति षट्सप्तषष्ट्या गुण्यन्तेजातानिचत्वारिशतानि झ्युत्तराणि (402) तथा षट् पञ्चोत्तरेण शतद्वयेन गुण्यन्ते जातानि द्वादश शतानि दशोत्तराणि। (1210) एते च त्रयोपि राशय एकत्र मील्यन्ते मीलयित्वाऽवतिष्ठन्तेऽभिजितो द्वाचत्वारिंशत् प्रक्षिप्यन्तेजातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि ( 3660) एतावानेको नक्षत्रपर्यायस्तत एतत्पूर्वस्य राशेर्भागो ह्रियते लब्धाः षष्टिनक्षत्राणि पर्यायाः पश्चादवतिष्ठन्ते पञ्चपञ्चाशदधिकानि त्रयस्त्रिंशच्छतानि ( 3355 ) तत्राभिजितो द्वाचत्वारिंशच्छुद्धाः स्थितानि शेषाणि त्रयस्त्रिंशच्छतानि त्रयोदशाधिकानि (3313) तेषां त्रिभिः सहस्रैर्दयशीत्यधिकैरनुराधान्तानि नक्षत्राणि शुद्धानिशेषं ते द्वेशते एकत्रिंशदधिके (231) ततः सप्तषष्ट्या ज्येष्ठा शुद्धा स्थित चतुःषष्ट्यधिकं षोडशशतं ( 1664 ) ततोऽपि चतुस्त्रिंशेन शतेन मुलं शुद्धं स्थिता पश्चात् त्रिंशत् (30) आगतं पूर्वफाल्गुनीनक्षत्रस्य त्रिशतं चतुस्त्रिंशदधिकशतं भागानामवगाह्योत्तरचतुःशततमं स्वऋतुंचन्द्रः परिसमापयति।ज्यो०१४ पाहु०॥ चं० प्र०। उउंबरपुं० [(उंबर)/उ(डु) दुंबर] उंशम्भुवृणोति खउम्बरः पृषो० दस्य वा डत्वम्। वाच० "दुर्गादेव्युदुम्बरपादपतनपादपीठेऽन्तर्दः / 8 / 2 1270 / " इति उदुम्बरशब्दमध्यवर्तिनः वा लुक् / प्रा०। (गूलर) इति प्रसिद्ध बहुबीजके वृक्षविशेषे,जी०१ प्रति०। आचा०। देहल्याम्, आ० म० द्वि० / गृहेलुके, गृहावयवविशेषे, आचा०। ताने, नपुंसके, कुष्टभेदे चावाच०। प्रज्ञा०। उउंब ( उंब) रदत्त पुं० ( उदुम्बरदत्त ) पाटलीखण्डनगरवास्तव्ये सागरदत्तसार्थवाहसुते, / तद्वक्तव्यता यथापाटलीखण्डे नगरे सागरदत्तसार्थवाहसुत उदुम्बरदत्ता नाम्राऽभूत् स च षोडशभी रोगैरेकदाऽभिभूतो महाकष्टमनुभूय मृतः / स च जन्मान्तरे विजयपुरराजस्य कनकरथनाम्नोधन्वन्तरिनामा वैद्य आसीत् मांसप्रियो मांसोपदेष्टा चेति कृत्वा नरकङ्गतवानिति। स्था० 10 ठा०। जइ णं भंते उक्खेवो सत्तमस्स एवं खलु जंबू तेणं कालेणं तेणं समएणं पाडलिसंडे णयरे वणसंडे उज्जाणे उंबरदत्ते यक्खे तत्थ णं पाडलिसंडे णयरे सिद्धत्थ राया तत्थ णं पाडलिसंडे णयरे सागरदत्तसत्थवाहे होत्था / अड्डे गंगदत्ता भारिया तस्स णं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए उंबरदत्ते णामं दारए होत्था। अहीणं तेणं कालेणं तेणं समएणं जाव परिसागया तेणं कालेणं तेणं समएणं भगवं गोयमं तहेवए जेणेव पाडलिसंडे णयरे तेणेव उवागच्छइ उवागच्छइत्ता पाडलिसंडे णयरे पुरच्छिमेण दुवारेणं अणुप्पविसत्ति तत्थ णं पासइ एगं पुरिसं कच्छ्रनं कोडियंदो उपरियं भगदलियं अरिसिलं कासिलं सासिल्लं सूय मुहं सूयहत्थं सूयपायं सडियहत्थंगुलियं सडियपायं