________________ 710 अभिधानराजेन्द्रः। भाग 2 ਚਰੇ त्रयप्रमाणस्त्रिभिर्गुण्यते जातानि नव शतानि पञ्चदशोत्तराणि (615) तताऽष्टाशीत्या पुष्यः शुद्धिमगमत् स्थितानि पश्चादष्टौ शतानि सप्तविंशत्यधिकानि ( 827) तेभ्यः सप्तषष्ट्या अश्लेषा शुद्धा स्थितानि शेषाणि षट् शतानि षड्दिशत्वधिकानि (626) तेभ्यश्चतुस्त्रिंशदधिकेन शतेन पूर्वफाल्गुनी शुद्धा स्थितानि पश्चाच्चत्वारि शतानि द्विनवत्यधिकानि ( 462 ) ततोऽपि द्वाभ्यां शताभ्यामेकोत्तराभ्यामुत्तरफाल्गुनी शुद्धा स्थिते द्वेशते एकोनवत्यधिके (२८९)ततोऽपि चतुस्त्रिंशेन शतन हस्तः शुद्धं स्थितं पश्चात्सप्तपञ्चाशदधिकं शतं ( 157) ततोऽपि चतुस्त्रिंशेन शतेन चित्रा शुद्धा स्थिता पश्चात्त्रयोविंशतिः आगतं स्वातेस्त्रि-योविंशति चतुस्त्रिंशदधिकशतं भागानामवगाह्य सूर्यो द्वितीयं ऋतुंपरिसमापयति। एवं शैषेष्वपि ऋतुषु भावनीयम् तदेवमुक्ताः सूर्यर्तवः। संप्रति चन्द्रर्तुप्रतिपादनार्थमाह। चत्तारि उसयाई वि, उत्तराईजुगम्मि चंदस्स। तेसिं पि य करणविहिं, वोच्छामि अहाणुपुव्वीए॥ इह एकस्मिन् नक्षत्रपर्याये षट् ऋतवो भवन्ति यथा सूर्यस्य चन्द्रस्यापि च नक्षत्रपर्याया युगसप्तषष्टिसंख्यास्ततः सप्तषष्टिः षड्भिर्गुण्यते जातानि चत्वारि शतानिद्व्युत्तराणि एतावन्तो युग चन्द्रस्य ऋतवा भवन्ति तेषामपि चन्द्रप्नां परिज्ञानाय करणविधिं यथानुपुर्व्या क्रमेण वक्ष्यामि / तत्र प्रतिज्ञातमेव निर्वाहयितुकामः प्रथमतश्चन्द्रर्तुपरिमाणमाह। चंदस्स उ परिमाणं, चत्तारिय केवलं अहोरत्ता। सत्तत्तीसं अंसा, सत्तसहिकरणछेएण॥ चन्द्रस्य चन्द्रसंबन्धिन ऋतोः परिमाणं चत्वारः केवलाः परिपूर्णा अहोरात्राः सप्तषष्टिच्छेदकृतेन च च्छेदेन सप्तत्रिंशदंशाः। किमुक्तं भवति सप्तविंशतसप्तषष्टिभागा दिनस्य तथा ह्येकस्मिन् नक्षत्रपर्याये षट् ऋतव इति प्रागेव भावितम् / नक्षत्रपर्यायचन्द्रविषयस्य परिमाणं सप्तविंशतिरहोरात्र एकस्य चाहोरात्रस्य एकविंशतिः सप्तषष्टिभागाः तत्राहोरात्राणां षभिर्भाग हृते लब्धानि चत्वारि दिनानि, त्रीणि शेषाणि तिष्ठन्ति तानि सप्तषष्टिभागकरणार्थं सप्तषष्ट्या गुण्यन्ते जाते वे शते एकोत्तरे ( 201) तत उपरितना एकविंशतिः सप्तषष्टिभागाः प्रक्षिप्यन्ते जाते द्वे शते द्वाविंशे ( 222) तेषां षभिर्भागे हृते लब्धाः सप्तत्रिंशत्सप्तषष्टिभागा इति। संप्रति चन्द्रऋतोराननयनार्थ करणमाह। चंदं उउ आणयणे, पन्नरस संगुणं नियमा। तिहि संखित्तं संतं, वावट्ठी भागपरिहीणं / / चोत्तीससयाभिहियं,पंचुत्तरतिसयं संजयं वि भए। छहि उदसूतारहियं,सएहि लद्धा उऊहोति॥ विवक्षितास्य चन्द्रलॊरानयने कर्तव्ये युगादितोऽयनपर्वसंख्या नमतिक्रान्तं तत्पञ्चदशगुणं नियमात् कर्तव्यं ततस्तिथिसंक्षिप्तमिति यास्तिययः पर्वणाभुपरि विवक्षितान् दिनान् प्रागनिष्कान्तास्तास्तत्र संक्षिप्यन्ते ततो द्वाषष्टिभागे द्वाषष्टि भागनिष्पन्नेऽवमरात्रे परिहीनं विधेयं तत एवं भूतं सच्चतुस्त्रिंशेन शतेनाभिहितं कर्तव्यं तदनन्तरं च पश्चोत्तरैत्रिभिः शतैः संयुक्तं सत् षभिदेशोतरैः शतैर्विभजेत विभक्केच ) सति ये लब्धा अङ्कास्ते ऋतवो भवन्ति ज्ञातव्याः / एष करणगाथात्रयाक्षरार्थः / संप्रति करणभावना क्रियते / कोपि पृच्छति युगादितः प्रथमे पर्वणि पञ्चम्यां कश्चन्द्रर्तुर्वर्तते तत्रैकमपि पर्व परिपूर्णमत्र नाद्याप्यभूदिति युगादितो दिवसा–पोना ध्रियन्ते ते चात्र चत्वारस्ते चतुस्त्रिंशेन शतेन गुण्यन्ते जातानि पञ्च शतानि षट् त्रिंशदधिकानि (536) तत्र भूयस्त्रीणि शतानि पञ्चोत्तराणि प्रक्षिप्यन्ते जातान्यष्टौ शतान्येकचत्वारिंशदधिकानि (841) तेषां षड्भिः शतैर्दशोतरैर्भागो ह्रियतेलब्धः प्रथम ऋतुः अंशा उदरन्तिद्वेशते एकत्रिंशदधिके (231) तेषां चतुस्त्रिंशेन शतेन भागहरणं लब्ध एकः अंशानां चतुस्त्रिंशेन शतेन भागे हृते यल्लभ्यते ते दिवसा ज्ञातव्याः शेषास्त्वंशा उदरन्ति सप्तनवतिस्तेषां द्विकेनापवर्तनायां लब्धाः सार्धा अष्टाचत्वारिंशत् सप्तषष्टि भागा आगतं युगादितः पञ्चम्यां प्रथमः प्रावृड् लक्षण ऋतुरतिक्रान्तो द्वितीयस्य एको दिवसौ गतो द्वितीयस्य च सार्धा अष्टचत्वारिंशत् सप्तषष्टिभागाः। तथा कोपि पृच्छति युगादितो द्वितीये पर्वणि एकादश्यां कश्चन्द्रतुरिति तत्रैकं पतिक्रान्तमिति एको ध्रियते स पञ्चदशभिर्गुण्यतै जाताः पञ्चदश एकादश्यां किल पृष्टमिति तस्याः पाश्चातयादश ये दिवसास्तेप्रक्षिप्यन्ते जाता पञ्चविंशतिः सा चतुस्त्रिंशेत शतेन गुण्यते जातानि त्रयस्त्रिंशत् शतानि पञ्चाशदधिकानि (3350) तेषु त्रीणि शतानि पञ्चोत्तराणि प्रक्षिप्यन्ते जातानि षट्त्रिंशत् शतानि पञ्चपञ्चाशदधिकानि (3655) तेषां षड्भिः शतैर्दशोतरैर्भागो हियते लब्धाः पञ्च अंशा अवतिष्ठन्ते षट् शतानि पञ्चोत्तराणि (605 ) तेषां चतुस्त्रिंशेन शतेन भागे हृते लब्धाश्चत्वारो दिवसाः ( 4 ) शेषास्त्वं शा उदरन्ति एकोनसप्ततिः (66) तस्या द्विकोनापवर्तनायां लब्धाः साश्चितुस्त्रिंशत्सप्तषष्टिभागाः आगतं पञ्च ऋतवोऽतिक्रान्ताः षष्ठस्य यऋतोश्चत्वारो दिवसाः पञ्चमस्य च दिवसस्य सार्भाश्चतुश्चत्वारिंशत्सप्तषष्टिभागाः। एवमन्यस्मिन्नपि दिवसे चन्द्रर्तुरखगन्तव्यः। ___संप्रति चन्द्रर्तुपरिसमाप्ति दिवसानयनाय करणमाह। रविधुवरासी पुट्वंच, गुणिय भयएसणेण छेएण। जं लद्धं सो दिवसो, सोमस्स उऊसमत्तीए।। इहयः पूर्वसूर्यर्तुप्रतिपादने ध्रुवराशिरभिहतः पञ्चोत्तराणि त्रीणि शतानि चतुस्त्रिंशद्भागाःतस्मिन् पूर्वगुणिते ईप्सितेन एकादिना व्युत्तरचतुः शततमपर्यन्तं न व्युत्तरवृद्धेन एकस्मादारभ्य तत ऊर्ध्व स्वन्तरवृद्ध्या प्रवर्द्धमानेन गुणितस्वकेनात्मीयेन च्छेदेन चतुस्त्रिंशदधिकशतरूपेण भक्ते सति यल्लब्धं सोमस्य ऋतुसमाप्तौ दिवसो ज्ञातव्याः / यथा केनापि पृष्टं चन्द्रस्य ऋतुः प्रथमः कस्यां तिथौ परिसमाप्तिं गत इति तत्र ध्रुवराशिः पञ्चोत्तरशतत्रयप्रमाणो ध्रियते (305) स एकेन गुण्यते जातस्तावानेव ध्रुवराशिस्ततःस्वकीयेनच्छेदेन चतुस्त्रिंशदधिकशतप्रमाणेन भागो ह्रियते लब्धौ द्वौ शेषस्तिष्ठति सप्तत्रिंशद् द्विकेनापवर्तना क्रियते जाताः सार्धा अष्टादश / आगतं युगादितो द्वौ दिवसावतिक्रम्य तृतीये दिवसेऽष्टादशसु सप्तषष्टिभागेषु प्रथमश्चन्द्रर्तुः परिसमाप्ति गच्छति द्वितीयचन्द्रर्तुपरिसमाप्तिजिज्ञासायां स ध्रुवराशिः पञ्चोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते जातानि पञ्चदशोत्तराणि नव शतानि (615) तेषां चतुस्त्रिंशदधिकेन शतेन भागो हियते लब्धाः शेषमुरति एकादशोत्तरशतं तस्य द्विक