________________ उउ 706 अभिधानराजेन्द्रः भाग 2 ਚ ( रविसहियमित्यादि ) रविसहितमिति रात्रं किमुक्तं भवति / रविमासनिपाद्यमानर्तुचिन्तायां तस्मिन् तृतीयादौ वर्षाकालादिसंबन्धिनि पर्वणि तत्र सूर्यर्तुपरिसमाप्तौ कर्ममासापेक्षया एकैकोऽधिकोहोरात्रः प्राप्यते इति शशिसहितमवमरात्रं चन्द्रनिपादितास्तिथीरधिकृत्य कर्ममासापेक्षया विवक्षितं तृतीयादि पर्वहीनरात्रं भवतीत्यर्थः / सम्प्रति येषु मासेषु सूर्यर्तुपरिसमाप्तिचिन्तायां पूर्वपूर्वसूर्यर्तुगततिथ्यपेक्षयाधिकोहोरात्रः परिवर्द्धते तान् प्रतिपादयति / आसाढ बहुलपक्षे तथा भाद्रपदमासे बहुलपक्षे एवं कार्तिके पौषे फाल्गुने वैशाखे चातिरात्रं बोद्धव्यम् / पूर्वपूर्वसूर्यर्तुगतितिथ्यपेक्षया एतेषु षट् सु मासेषु अधिकोऽहोरात्रो ज्ञातव्यो न शेषेषु मासेषु / एतदेव सविशेषमाह। एकतरिया मासा, तिही य जासु ता उऊसमप्पति। असाढाईमासा, भइवयाइ तिहि सव्वा / / इह सूर्यर्तुचिन्तायां मासा आषाढादयो द्रष्टव्याः आषाढमासादारभ्य. ऋतूनां प्रथमतः प्रवर्तमानत्वात् तिथयः सर्वा अपि भाद्रपदादिषु मासेषु प्रथमादीनामृतूनां परिसमाप्तत्वात् / तत्र येषु मासेषु यासु वा तिथिषु ऋतवः प्रावृडादयः परिसमाप्नुवन्ति ते आषाढादयो मासास्ताश्च तिथयो भद्रपदादिमासानुगताः सर्वा अपिएकान्तरिता वेदितव्याः। तथा हि प्रथम ऋतुः भाद्रपदे मासि समाप्तिमुपैतिततएको मासश्च युगलक्षणमपान्तराले उक्तः / कार्तिके मासे द्वितीय ऋतुः परिसमाप्तिमिनति / एवं तृतीयः पौषमासे, चतुर्थः फाल्गुने, पञ्चमो वैशाखे, षष्ठः आषाढे, एवं शेषा अपि ऋतवः षट्सुमासेष्वेकान्तरेषु परिसाप्तिमाप्नुवन्ति नाशेषेषु मासेषु। तथा प्रथम ऋतुः प्रतिपदि समाप्तिमेति द्वितीयःतृतीयस्या, तृतीयःपञ्चम्यां, चतुर्थःसप्तम्यां पञ्चमो नवम्यां, षष्ठःएकादश्यां, सप्तम-स्त्रयोदश्यामष्टमः पञ्चदश्याम् एते सर्वेऽपि ऋतवो बहुलपक्षे ततो नवम ऋतुः शुक्लपक्षे द्वितीयायां, दशमश्चतुर्थ्या मेकादशःषष्ठ्यां, द्वादशोऽष्टम्यां, त्रयोदशी दशम्यां, चतुर्दशो द्वादश्यां पञ्चदशश्चतुर्दश्याम्एते सप्त ऋतवः शुक्लपक्षे / एते ऋतवः शुक्लपक्षे भाविनः। पञ्चदशापि ऋतवो युगस्पार्द्ध भवन्ति। तत उक्तक्रमेणैव शेषा अपि पञ्चदश ऋतवो द्वितीये युगस्पार्द्ध भवन्ति। तद्यथाषोडशः ऋतुर्बहुलपक्षे प्रतिपदि, सप्तदशः तृतीयायामष्टादशः पञ्चम्यामेकोनविंशतितमः सप्तम्यां, विंशतितमो, नवम्या,मेकविंशतितम एकादश्यां, द्वाविंशतितमः त्रयोदश्यां त्रयोविंश-तितमः पञ्चदश्यामेते षोडशादयस्त्रयोविंशतिपर्यन्ताः / अष्टौ बहुलपक्षे ऋतवः शुक्लपक्षे द्वितीयायां चतुर्विशतितमः पञ्चविंशतितमश्चतुर्थ्यां, षट्त्रिंशत्तमः षष्ठ्यां, सप्तविंशतितमोऽष्टम्याम् अष्टाविंशतितमो दशम्या, मेकोनत्रिंशत्तमो द्वादश्यां त्रिंशत्तमश्चतुर्दश्यामेवमेते सर्वेऽपि ऋतवो मासेष्वेकान्तरितेषु तिथिष्वपि चैकान्तरितासु भवन्ति। सांप्रतमेतेषु ऋतुषु चन्द्रनक्षत्रयोगं च प्रतिपादयिषुस्तद्विषयं करणमाह। तित्तिसया पंचहिगा, अंसा छेओ सयं च चोत्तीसं। एगाइ वि उत्तरगुणा, धुवरासीए स बोधव्वा॥ त्रीणि शतानि पञ्चोत्तराणि अशा विभागाः किंरूपच्छेदकृताएते इत्याह च्छेदशतं चतुस्त्रिंशं किमुक्तं भवति चतुस्त्रिंशदधिकशतच्छेदेन छिन्नं यदहोरात्रं तस्य सक्तानि त्रीणि शतानि पञ्चोत्तराण्यंशोनामिति अयं ध्रुवराशिर्बोद्धव्यः / एष च ध्रुवराशिरेकादिद्युत्तरगुण ईप्सितेन ऋतुना एकादिना त्रिंशत्पर्यन्तेनाद्युत्तरेण एकस्मादारभ्य तत ऊर्ध्वमुत्तरवृद्धेन गुण्यतेति गुणो गुणितः कर्तव्यस्ततोऽस्मात् शोधकानि शोधयितव्यानीति प्रतिपादनार्थमाह। सत्तट्ठि अड्डखेत्ते, दुगतिगगुणियासमेदिवड्डखित्ते। अट्ठासीई पुस्से-सोज्झा अभिइम्मि बायाला || इह यत्र अर्द्धक्षेत्रं तत्र सप्तषष्टिं शोध्यानि च सप्तषष्टिः समे समक्षेत्रे द्विगुणिता सती शोध्या एकोत्तरे द्वेशते तत्र शोध्ये इति भावः। इह सूर्यस्य पुण्यादीनि नक्षत्राणि शोध्यानि चन्द्रस्याभिजिदादीनि तत्र सूर्यनक्षत्रयोगचिन्तायां पुष्ये पुष्यविषया अष्टाशीतिः शोध्यानि चन्द्रनक्षत्रयोगचिन्तायामभिजिति द्विचत्वारिंशत्। एयाणि सोहइत्ता, जं संतं तु होइ नक्खत्तं / रविसोमाणं नियमा,तीसाए उउसमत्तीसु॥ एतानि अनन्तरोदितानि अर्धक्षेत्रव्यर्धक्षेत्रविषयाणि शोधकानि शोधयित्वा यदुक्तप्रकारेण नक्षत्रं शेषं भवति सर्वात्मना शुद्धिमश्नुते तत्र क्षेत्रं रविसोमयोः सूर्यस्य चन्द्रमसश्च नियमाद् ज्ञातव्यम् / क्व इल्याह त्रिंशत्यपि ऋतुसमाप्तिषुएवं करणगाथात्रयाक्षरार्थः। संप्रति करणभावना क्रि यते तत्र प्रथम ऋतुः कस्मिश्चन्द्रनक्षत्रे समाप्तिमुपैतीति जिज्ञासायामनन्तरोदितः पञ्चोत्तरत्रिंशत्प्रमाणो धुवराशिधियते स एकोनगुणितस्तदेव भवतीति ततोऽनेनध्रुवराशिर्जातस्तत्राभिजितो द्वाचत्वारिंशत् शुद्धा स्थिते पश्चाद् द्वे शते त्रिषष्ट्यधिके ( 263 ) ततश्चतुस्विंशेन शतेन श्रवणः शुद्धः। शेषजातमेकोनत्रिंशच्छतं ( 126) तेन च धनिष्ठा शुद्ध्यति तत आगतमेकोनत्रिंशं शतं चतुस्त्रिंशदधिकशतं भागानाम् धनिष्ठासक्तमवगाह्य चन्द्रःप्रथमे सूर्यत्तुं समापयति / यदि द्वितीयसूर्य जिज्ञासा तदा स धुवराशिः पञ्चोत्तरशतत्रयप्रमाणस्विभिर्गुण्यते जातानि नव शतानि पञ्चदशोत्तराणि (615) तत्राभिजितो द्वाचत्वारिंशत् शुद्धा स्थितानि शेषाण्यष्टौ शतानि त्रिसप्तत्यधिकानि ( 873) ततश्चतुस्त्रिंशेन शतेन श्रवणशुद्धिमुपगत स्थितानि शेषाणि सप्त शतानि एकोनचत्वारिंशदधिकानि (736) ततोपिचतुस्त्रिंशेन शतेन धनिष्ठा शुद्धा जातानिषट्शतानि पञ्चोत्तराणि (605 ) ततोपि सप्तषष्ट्या शतभिषक् शुद्धा स्थितानिपश्चात्पश्चशतानि अष्टत्रिंशदधिकानि (538) तेभ्योपि चतुस्त्रिंशेन शतेन पूर्वभद्रपदा शुद्धा स्थितानि चत्वारि शतानि चतुरधिकानि ( 404 ) ततो द्वाभ्यां शताभ्यामेकोत्तराभ्यामुत्तरभद्रपदा शुद्धा स्थिते शेषे त्रिकोनसप्ततिचतुस्त्रिंशदधिकं शतं भागानामवगाह्य द्वितीयं सूर्यतुं चन्द्रः परिसमापयति / एवं शेषेष्वपि ऋतुषु भावनीयम् / संप्रति सूर्यनक्षत्रयोगभावना क्रियते स एव पञ्चोत्तरशतप्रमाणो ध्रुवराशिः प्रथमसूर्यर्तुजिज्ञासायामेके न गुण्यते एकेन च गुणने तावानेव जातस्तत्र पुष्यसत्कावष्टासीती शुद्धा स्थिते शेषे द्वे शते सप्तदशोत्तरे ( 217 ) ततः सप्तषष्ट्या अश्लेषा शुद्धा स्थितं शेषं सार्द्धशतं ( 150) ततोऽपि चतुस्त्रिंशच्छतेन मधा शुद्धा स्थिताः षोडश आगतं पूर्वाफ ल्गुनीनक्षत्रस्यषोडश चतुस्त्रिंशदधिकानिशतभागानवगाह्य सूर्यः प्रथमर्तु समापयति / तथा द्वितीयसूर्यर्तुजिज्ञासायांध्रुवराशिः पञ्चोत्तरशत