________________ उईरणा 701 अभिधानराजेन्द्रः। भाग 2 उईरणा क्षपते अनन्तानि स्पर्द्धकानि उत्कृष्टरसान्यद्यापि तिष्ठन्ति / ततोऽनन्तभागेऽपि शेषे मूलानुभागसत्कर्मापेक्षयाऽनन्तगुणहीना उत्कृष्टानुभागोदीरणा लभ्यते किं पुनरसंख्येयगुणहीनादावनुभागकर्मणीति। संप्रति विपाके विशेषमाह। विरियंतरायकेवल-दसणमोहणीयणाणवरणाणं / असमत्थपत्तएसु, सव्वदव्वेसु वि विवागो॥ 272 / / वीर्यान्तरायकेवलदर्शनावरणाष्टाविंशतिविधमोहनीयपञ्चविधज्ञानावरणानां पञ्चत्रिंशत्प्रकृतीनां समस्तपर्यायेषु सर्वद्रव्येषु सर्वजीवद्रव्येषु विपाकः / तथाहि इमा वीर्यान्तरायाः पञ्चत्रिंशत् प्रकृतयो द्रव्यतः सकलमपि जीवद्रव्यमुपघ्नन्ति पर्यायतस्तु न सर्वानपि यथा मेधैरतिनिचिततरैरपिसर्वात्मनान्तरितयोरपिसूर्याचन्द्रमसोर्न तत्प्रभा सर्वथाअपनेतुं शक्यते उक्तंच “सुट्ठविमेहसमुदिए, होइपहाचंदसुराणं पि" तथा अत्रापि भावनीयम्। गुरुलघुगाणंतपए, सिएसु चक्खुस्स रूवदव्वेसु। ओहिस्स गहणधारण,जो गइससंतरायाणं / / 273 / / चक्षुषश्चक्षुर्दर्शनावरणगुरुलघुकाः अनन्तप्रादेशकाः स्कन्धास्तेषु विपाकः अवधिदर्शनावरणस्य रूपिद्रव्येषु शेषान्तरायाणां दानलाभोभोगान्तरायाणां ग्रहणधारणयोग्येषुपुद्गलद्रव्येषु विपाकोन शेषेषु यावत्येव हि विषये चक्षुर्दर्शनादीनि व्याप्रियन्ते तावत्येव विषये चक्षुर्दर्शनावरणादीन्यपि तत उक्तरूपो विषयनियमो न विरुद्ध्यते / शेषप्रकृतीनां तु तथा प्रागविपाकोऽभिहितः पुगलविपाकादिस्तथैवात्रावगन्तव्यः / संप्रति प्रत्ययप्ररूपणा कर्तव्या प्रत्ययोऽपि द्विधा परिणामप्रत्ययो भवप्रत्ययश्च / तत्र परिणामप्रत्ययमधिकृत्याह। वेउव्वीय तेयग, कम्मवन्नरसगंधनिद्धलुक्खाउ। सीउण्हथिरसुमेयर, अगुरुलघुगा य नरतिरिय // 274 // वैक्रियसप्तकं तैजसकार्मणग्रहणात्तैजससप्तकं गृहीतम्।तथा वर्णपञ्चकं गन्धद्विकरसपञ्चकं स्निग्धरूक्षशीतोष्णस्थिरास्थिरशुभाशुभगुरुलघूनि चानुभागोदीरणामधिकृत्य तिर्यग्मनुष्याणां परिणामप्रत्ययानि वैक्रियसप्तकं तिर्यङ्मनुष्यगतिमनुष्याणां गुणविशेषसमुत्थलब्धिप्रत्ययं ततस्तदुदीरणापि तेषां गुणपरिणामप्रत्यया तैजससप्तकादयस्तु तिर्यड्मनुष्यैरन्यथाऽन्यथा विपरिणमय्य उदीर्यन्ते ततस्तासामपि प्रकृतीनामनुभागोदीरणा तिर्यग्मनुष्याणां परिणामप्रत्यया। चतुरंस मउय लहुगा, परघाउज्जुप्पइट्ठखगइसरा। पत्तेगतणू उत्तरतणू, सो दोसोवि य तणुतईया।। 275|| समचतुरखसंस्थानमृदुलघुपराघातो द्योतप्रशस्तविहायोगतिसुस्वरप्रत्येकनामानोऽष्टौ प्रकृतयः / उत्तरतन्वर्थे वैक्रियाहारकलक्षणयोरनुभागोदीरणामधिकृत्य परिणाममधिकृत्य परिणामप्रत्यया वेदितव्या यत उत्तरवैक्रिये आहारके वा शरीरे सति समचतुरस्रसंस्थानामनुभागोदीरणां प्रवर्तमाना उत्तरवैक्रियादिशरीरपरिणामापेक्षा / ततः एषापि परिणामप्रत्यया वेदितव्या तथा तृतीया तनुराहरकशरीरमाहारकशरीरग्रहणाचाहारकसप्तकं गृहीतं द्रष्टव्यम् / तत अनुभागोदीरणामधिकृत्य परिणामप्रत्ययं वेदितव्यम् / आहारकसप्तकं हि मनुष्याणां गुणपरिणाम प्रत्ययं भवति। ततस्तदनुभागोदीरणामधिकृत्य परिणाम प्रत्ययं वेदितव्यम्। आहरकसप्तकं हि मनुष्याणां गुणपरिणामप्रत्ययं भवति ततस्तदनुभागोदीरणापि गुणपरिणामप्रत्ययवेति। देसविरयविरयाणां,सुभगाएजसकित्तिउव्वाणं। पुव्वाणुपुव्वगाए, असंखभागो त्थियाईणं / / 276 // देशविरतानां विरतानां च सुभगादेययशः कीत्युबैगोंत्राणामनुभागोदीरणा परिणामकृता तथाहि सुभगादिप्रत्यक्षभूतदुर्भगादिप्रकृत्युदये युतेऽपियो देशे विरतिं वा प्रतिपद्यते तस्यापि देशविरत्यादिगुणप्रभावतः सुभगादीनामेव प्रकृतीनामुदयकोटिपूर्वकमुदीरणायोग्या गुणपरिणामे च प्रत्ययतो वेदितव्या। इदमुक्तं भवति। स्त्रीवेदादीनामतिजघन्यानुभागस्पर्द्धकादारभ्य क्रमेण संख्येयो भागो देशविरतादीनामुदीरणा योग्यो गुणप्रत्ययतो भवति / परस्त्यनुभागोदीरणामिति। तित्थंकरधाईण य, परिणामप्पचयाणि सेसाओ। भवपच्चया उ पुत्ता, वियपुव्वत्तसेसाणं / / 277 // तीर्थकरघातिकर्माणि च पञ्चविधज्ञानावरणनवविधदर्शनावरणनवनोकषायवा मोहनीयपञ्चविधान्तरायरूपाणि सर्वसंख्यया एकोनचत्वारिंशत्प्रकृतयोऽनुभागोदीरणामधिकृत्य तिर्यड्मनुष्याणां परिणामप्रत्ययाः / एतदुक्तं भवति / आसां प्रकृतीनामनुभागोदीरणा तिर्यड्मनुष्याणां परिणामप्रत्यया भवति परिणामो ह्यन्यथाभावेन नयनम् / तत्र तिर्यञ्चो मनुष्या या गुणप्रत्ययेन अन्यथा बद्धानामन्यथा परिणामप्य एतामुदीरणां कुर्वन्ति / ( सेसाओभवपचयाउत्ति ) शेषाः प्रकृतयः सातासातवेदनीयआयुश्चतुष्टयं पञ्चकौदारिकसप्तकं संहननषट्कंप्रथमवयं स्वस्थानपञ्चककर्कशगुरुस्पर्शानुपूर्वीचतुष्टयोपघाततपोच्छ्वासप्रशस्तविहायोगतिवसस्थावरबादरसूक्ष्मपर्याप्तापर्याप्तसाधा-रणदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणनीचैर्गोत्ररूपाः षट्पञ्चाश-त्संख्या अनुभागोदीरणामधिकृत्य भवप्रत्यया वेदितव्याः। एतासामनुभागोदीरणा भवप्रत्ययतो भवतीत्यर्थः / (पुव्वत्तावित्ति) पूर्वोक्ता अपि प्रत्ययाः पूर्वोक्तशेषाणां प्रागुक्ततिर्यड्मनुष्यव्यतिरिक्तानां भवप्रत्यया अनुभागोदीरणा वेदितव्या / तथाहि देवनारकैर्ऋतरहितैश्च तिर्यड्मनुष्यैर्नवानां नोकषायाणां पश्चानुपूर्व्या उत्कृष्टानुभागस्पर्द्धकादारभ्येत्यर्थः / असंख्येया अनुभागा भवप्रत्ययादेवोदीर्यन्ते / तथा वैक्रियसप्तकं तैजससप्तकवर्णपञ्चकगन्धद्विकरसपञ्चकस्निग्धरुक्षशीतोष्णस्पर्शस्थिरास्थिरशुभाशुभगुरुलघुप्रकृतीनां देवा नैरयिकाश्च भवप्रत्ययतोऽनुभागोदीरणां कुर्वन्ति ! तथा समचतुरस्रसंस्थानस्य भवधारणीये शरीरे वर्तमाना भवप्रत्ययादनुभागोदीरणां देवाः कुर्वन्ति। मृदुलघुस्पर्शापराघातोद्योतप्रशस्तविहायोगतिसुस्वर-प्रत्येकनाम्नामुत्तरवैक्रियशरीरिणामुक्ताःशेषाणां भवप्रत्ययतोऽनुभागोदीरणा प्रवर्त्तते / सुभगादेययशः कीर्युचैर्गोत्राणामनुभागोदीरणा गुणहीनास्य भवप्रत्ययतोऽवसे या / गुणवतां तु गुणप्रत्यया / तथा सर्वेषां पराघातिकर्मणामनुभागोदीरणा भवप्रत्यया देवनारकानां तदेव प्रत्ययप्ररूपणा / संप्रति साद्यनादिप्ररूपणा कर्तव्या सा च द्विधा मूलप्रकृतिविषया उत्तरप्रकृतिविषयाचा तत्र प्रथमतो मूलप्रकृतिविषयां तां कुर्वन्नाह। घाईणं अजघन्ना, दोण्हमणुयक्कोसिया तिविहाओ। वेयणिएणुक्कोसो, अनुजहन्ना मोहणीये / / 278 //