________________ उईरणा ७००-अभिधानराजेन्द्रः - भाग 2 उईरणा विपाकशुन्याः। उक्तं च "आउव्वभवविवागाई गईत आउस्स परभवे जम्हा। नो सव्वहा वि उदओ गईण पुण संकमणट्ठि" सुगमा शेषाणां त्वष्टसप्ततिसख्यानां प्रकृतीनां जीवविपाको रसः जीवमधिकृत्य विपाको यस्यासौ जीवविपाकः (नाणत्तं पञ्चयामेत्ति) नानात्वं विशेषो यत्तत्र शतकाख्ये ग्रन्थे अनुभागबन्धेनोक्तं तदिह वक्ष्ये उक्तस्य च विशेषमित्यर्थस्तथा तत्रबन्धमाश्रित्य अन्ये एवं मिथ्यात्वादयः प्रत्ययाः उक्ताः / इह उदीरणामाश्रित्य अन्ये एवं वक्ष्यमाणा ज्ञातव्याः तत्र नानात्वप्ररूपणार्थमाह। मीसुदुवाणे सव्वघाइ, दुट्ठाण एगट्ठाणे या सम्मत्तमंतरायंच, देसघाई अचक्खूअ॥२६८|| सम्यङ् मिथ्यात्वं स्थानसंज्ञामधिकृत्य द्विस्थानकं द्विस्थानकरसोपेतं घातिसंज्ञामधिकृत्य सर्वघातिसम्यक्त्वं पुनरुत्कृष्टोदीरणामधिकृत्य द्विस्थानकरसोपेतं जघन्योदीरणांत्वधिकृत्य एकस्थानकं घातिसंज्ञामधिकृत्य च देशघाति वेदितव्यम्। एतच तत्र सर्वथा नोक्तं किंत्विहैव यत्र तत्राऽनुसारेण भागबन्धमाश्रित्य शुभाशुभप्ररूपणा कृता / नच सम्यक्त्वसम्यङ् मिथ्यात्वयोर्बन्धः संभवति तत एतद्वर्जा एव तत्राशुभप्रकृतयो निर्दिष्टाः उदीरणा त्वेतयोरपि भवति तत इह विशेषेणैव तयोरुपादानम्। तथान्तरायपञ्चकप्रकारम्। उत्कृष्टामनुभागोदीरणामधिकृत्य द्विस्थानके एकस्थानके च धातिसंज्ञामधिकृत्यदेशघाति वेदितव्यम्। बन्धं प्रतीत्य पुनश्चतुः प्रकारेऽपि रसस्तद्यथाचतुःस्थानके त्रिस्थानके द्विस्थानके एकस्थानके च / अचक्षुर्दर्शन धातिसंज्ञामधिकृत्य देशघाति। ठाणेसु चउसु अपुमं, हुंठाणे कक्खडचगुरुकंच। अणुपुव्वीओ तीसं, नरतिरियगत जोग्गा य॥२६॥ नपुंसकवेदो बन्धं प्रतीत्य त्रिप्रकारे रसे / तद्यथा चतुः स्थानके त्रिस्थानके द्विस्थानके च / अत्र तूत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानके अनुत्कृष्टां त्वधिकृत्य चतुःस्थानके त्रिस्थानके एकस्थानके च / ननु बन्धाभावे कथमुदीरणायामकस्थानको रसो नपुंसकवेदस्य प्राप्यते उच्यते क्षेपणाकाले रसघातं कुर्वतः तस्य एक स्थानकस्यापि रससंभवात्। तथा कर्कशनाम गुरुनाम च बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके द्विस्थानके च / इह त्वनुभागोदीरणामधिकृत्य द्विस्थानके तथा चतस आनुपूयॊ यावचरतिरश्चामुदयं प्रतिएकान्त-योग्यास्त्रिंशत् / प्रकृ तयस्तद्यथा-मनुष्यायु स्तिर्य गायुगतिर्मनुष्यगतिरकेन्द्रियजातिद्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातिश्चौदारिकसप्तकम् / आयन्तवर्जसंस्थानचतुष्टयसंहननषट् कमातपस्थावरसूक्ष्मपर्याप्तसाधारणं चेति / ता अपि बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके द्विस्थानके च / इह त्वनुभागोदीरणामुत्कृष्टानुत्कृष्टां | चाधिकृत्य द्विस्थानके रसे वेदितव्याः। वेया एगट्ठाणे, दुट्ठाणे वा अचक्खुचक्खू अवेदा। जस्सत्थि एगमवि, अक्खरंतु तस्सेगठाणाणि // 270|| स्त्रीवेदः पुरुषवेदोऽनुभागोदीरणामुत्कृष्टामधिकृत्य द्विस्थानके अनुत्कृष्टां त्वधिकृत्य द्विस्थानके एकस्थानके वा ऽवगन्तव्यौ / एवमचक्षुश्चक्षुर्दर्शनावरणे च बन्धं प्रतीत्य पुनः स्त्रीवेदश्चतुः स्थानके विस्था नके द्विस्थानके वा पुरुषवेदो ऽचक्षुर्दर्शनावरणे चक्षुर्दर्शनावरणे च चतुः प्रकारेऽपि / तद्यथा चतुःस्थानके त्रिस्थानके द्विस्थानके एकस्थानके च / ननु "देसघाई अचक्खुयत्ति' प्रागेवोक्तं तत्किमर्थं पुनरिहाचक्षुर्दर्शनावरणोपादानमुच्यते स्थाननियमार्थम् / पूर्व हि देशधातित्वमेवाचक्षुर्दर्शनावरणस्योक्तमत्र तुरसस्थाननियमः। (जस्सस्थिएत्ति) यस्य जीवस्य एकमप्यक्षरं सर्वपर्यायैः परिज्ञातं वर्त्तते तस्य श्रुतकेवलिनो मतिश्रुतावधिदर्शनावरणप्रकृतीनामनुभागोदीरणायामकस्थानको रसः प्राप्यते संज्वलनानांतुबन्धे अनुभागोदीरणायांचचतुःप्रकारेऽपि रसः। तद्यथा। चतुःस्थानकः त्रिस्थानको द्विस्थानक एकस्थानकश्च / मणनाणं सेससमं, मीसगसम्मत्तमविय पावेसु। छट्ठाणवडियहीणा, उक्कोसाणुभागुदीरणा कुणइ // 271 / / मनः पर्यायज्ञानं शैषैः कर्मभिः समं वेदितव्यम् / इयमत्र भावना। यथा शेषकर्मणामनुभागोदीरणा चतुःस्थानकस्य त्रिस्थानकस्य द्विस्थानकस्य चरमस्य भवति तथा मनः पर्यायज्ञानावरणकर्मणामनुभागोदीरणा वरणस्यपि द्रष्टव्या एवं पुनर्मनःपर्यायज्ञानावरणस्य चतुःप्रकारोऽपि रसो भवति शेषकर्मणां तु बन्धे त्रिप्रकारास्तद्यथा चतुःस्थानकस्त्रिस्थानका द्विस्थानकश्च / तानि च शेषकर्माण्यमूनि / तद्यथा केवलज्ञानावरणं निद्रापञ्चकं केवलदर्शनावरणं च सातासातवेदनीये, मिथ्यात्वं द्वादश कषायाः षट् नोकषायाः नरकायुर्देवायुः नरकगतिर्देवगतिः पञ्चेन्द्रियजातिस्तैजससन्तकं वैक्रियसप्तकमाहारकसप्तकं समचतुरससंस्थानहुंडकसस्थानं वरणपञ्चकं गन्धादिक रसपञ्चकं स्निग्धरूक्षमृदुलघुशीतोष्णरूपं षट्कम् अगुरुलघूपघात पराघात मुच्छ्वासोद्योतप्रशस्ताप्रशस्तविहायोगतित्रस बादरपर्याप्त प्रत्येकस्थिरास्थिरशुभाशुभदुर्भग दुःस्वरसुस्वरानादेययशः कीर्तिनिर्माणतीर्थंकराचैर्गोत्रनीचैर्गोत्राणि च / एतेषां च एकोत्तरशतं संख्यानां शेषकर्मणामुत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानको रसः / अनुत्कृष्टां त्वधिकृत्य चतुः स्थानकरित्रस्थानको द्विस्थानकश्व मतिश्रुतावधिमनः पर्यायज्ञानावरण चक्षुरचक्षुरवधिदर्शनावरणानामुत्कृष्टामनुभागोदीरणामधिकृत्य रसः / स च घाती अनुत्कृष्टां त्वधिकृत्य सर्वघाती देशघाती वा / केवलज्ञानावरणनिद्रापञ्चकमिथ्यात्वद्वादशकषायाणामुत्कृष्टामनुष्कृष्टां वा अनुभागोदीरणामधिकृत्य रसघाती सर्वघाती सातासातवेदनीयायु श्चतुष्टयसकलनामप्रकृतिगोत्रद्विकानामुत्कृष्टामनुत्कृष्टां वा उदीरणामधिकृत्य रसः सर्वघाती अनुत्कृष्टांत्वधिकृत्य सर्वघाती वा प्रतिपत्तव्यः / इदानी मशुभप्रकृतिविषयविशेषमाह (मीसगसम्मत्तेत्ति) अपि च सम्यग्मिथ्यात्वं सम्यक्त्वं चानुभागोदीरणामधिकृत्य पापेषु पापकर्मसु मध्येऽवगन्तव्यम् / घातिस्वभावतया तयो रसस्य अशुभत्वात् शेषप्रकृतयस्तु यथाशतकग्रन्थे अनुभागबन्धे शुभाशुभाचोक्तास्तथात्राप्यवगन्तव्याः / कीदृशे अनुभागसत्कर्मणि वर्तमान उत्कृष्टामनुभागोदीरणां करोति उच्यते--(छट्ठाणवडियहीणेत्ति) अनुभागसत्कर्मणि षट्स्थापनाः पतितहीनादपि उत्कृष्टामनुभागोदीरणां करोति उच्यते प्रवर्तते एतदुक्तं भवति यत्सर्वोत्कृष्टमनुभाग सत्कर्म तस्मिन् अनन्तभागहीने वा संख्यातभागहीने वा असंख्येयगुणहीने वा अनन्तगुणहीने वा उत्कृष्टा अनुभागोदीरणा प्रर्वत्तते यतोऽनन्तानन्तस्पर्द्धकानामनुभागे