________________ उईरणा 696 - अभिधानराजेन्द्रः - भाग 2 उईरणा पल्लासंखियभागणुदए, एगिदिआगए मिस्से। वेसत्तभागवेउ-छिआए पवेणस्स तस्स // 26 // पल्योपमासंख्येयभागानभ्युदये एकं सागरोपमं तावन्मात्रं | सम्यग्मिथ्यात्वस्थितिसत्कर्मा एकेन्द्रियभवादुदत्य संज्ञिपञ्चेन्द्रियमध्ये समयतस्तस्य यतः समयादारभ्य अन्तर्मुहूर्तानन्तरं सम्यमिथ्यात्वस्योदीरणापगमिष्यति तस्मिन्सम्यङ् मिथ्यात्व-- प्रतिपन्नस्य चरमसमये सम्यङ् मिथ्यात्वस्य जघन्या स्थित्युदी-रणा एकेन्द्रियस्तत्कर्मणो जघन्यस्थितिसत्कर्मणश्च सकाशादधो-विर्तमानं सम्यड् मिथ्यात्वमुदीरणायोग्यं न भवति तावन्मात्रस्थि-तिके तस्मिन्नवश्यं मिथ्यात्वोदयसम्भवस्तद्वलनसंभवात् / तथा यैः सप्तभिर्भागैस्सागरोपम भवति तौ द्वौ सप्तभागौ यस्य वैक्रिय-षट्कस्य वैक्रि यशरीरवै क्रि यसंघातवै क्रि यबन्धनचतुष्टयरूपस्य तद्द्विसप्तभागैक्रियं ततो विशेषणसमासः प्राकृतत्वात् स्त्रीत्वनिर्देशः। इहापि च "पल्लासंखियभागेण'' इत्यनुवर्तते ततश्च द्विसप्तभागबँक्रियषट् कस्य पल्योपमासंख्येयभागहीनस्य पवनस्य बादरवायुकायिकस्य तस्य वैक्रियपर्यन्तसमये जघन्या स्थित्युदीरणा। एतदुक्तं भवति बादरवायुकायिकः पल्योपमासंख्येयभागहीनसागरोपमद्विसप्तभागप्रमाणैक्रियषट्कस्य जघन्यस्थितिसत्कर्म बहुशो वैक्रि यमारभ्य चरमसमये वैक्रियारम्भे चरमसमये वर्तमानो जघन्यस्थित्युदीरणां करोति अनन्तरसमये च वैक्रियषट् कमेकेन्द्रियसत्कर्मजघन्यषट्कर्मापेक्षया स्तोकतरमिति कृत्वा उदीर-णायोग्यं न भवति। किंतूद्वलनायोग्यम्। चउरुवसमत्तपेम्म, पच्छामिच्छंखवेत्तु तेत्तीसा। उक्कोससंजमद्धा, अंते सुतणुउवंगाणं // 26 // संसारपरिभ्रमेणन चतुरो वारान् प्रेम मोहनीयमुपशमय्य ततो मिथ्यात्वमुपलक्षणमेतत् सम्यक्त्वं सम्यग्मिथ्यात्वं क्षपितं क्षपयित्वा त्रयस्त्रिंशत्सागरोपमस्थितिको देवो जातः। ततो देवभवाच्च्युत्वा मनुष्येषु मध्ये समुत्पन्नस्ततो वर्षाष्टकानन्तरं तत्समयसंयमप्रतिपन्नेऽप्रमत्तभावे चाहारकसप्तकं बद्धवांस्ततो देशानां पूर्वकोटिं यावत्संयम परिपालितवांस्ततो देशोनपूर्वकोटिपर्यन्ते आहारकशरीरं कृत्वा (सुतणुत्ति) आहारकशरीरम् (उवंगत्ति) आहारकाङ्गोपाङ्ग बहुवचनादाहारंकबन्धनचतुष्टयाहारकसंघातपरिग्रहः तेषां जघन्यां स्थित्युदीरणां करोति इह मोहोपशमं कुर्वन् शेषनामकर्मप्रकृतीनां घातादिभिः प्रभूतं स्थितिसत्कर्म घातयति। देवभवे चापवर्त्तनाकरणेनापवर्तयति ततः आहारकसप्तकं बन्धकाले स्तोकमेव स्थितिसत्कर्म संक्रमयति ततो देशोनपूर्वकोट्युपादानम्। छउमत्त्थ खीणरागे, चउदससमयाहि गालिगढिइए। सेसाणुदीरणंते, भिन्नमुहुत्तो ठिईकालो // 266|| छद्मस्थक्षीणरागस्य पञ्चविधज्ञानावरणचक्षुरवधिकेवलदर्शनावरणपञ्चविधान्तरायलक्षणानां चतुर्दशप्रकृतीनां समयाधिकावलिका शेषायां स्थितौ जघन्या स्थित्युदीरणा शेषाणां च प्रकृतीनां मनुजग-- तिपञ्चेन्द्रियजातिप्रथमसंहननौदारिकसप्तकसंस्थानषट्कोपघातप्रशस्ताप्रशस्तविहायोगति त्रसबादरपर्याप्तप्रत्येकशुभगसुस्वरादेय-यशः कीर्त्तितीर्थकरोथैर्गोत्रलक्षणानां द्वात्रिंशत्प्रकृतीनां पूर्वोक्तानां च नाम ध्रुवोदीरणायां त्रयस्त्रिंशत्प्रकृतीनां सर्वसंख्यया पञ्चषष्टिसंख्या कानां सयोगिकेवलचरमसमये जघन्या स्थित्युदीरणा तस्याश्च जघन्यायाः कालो भिन्नमुहूर्तोऽन्तर्मुहूर्त्तमित्यर्थः। आयुषामप्युदीरणा-न्ते जघन्या स्थित्युदीरणा / संप्रति भागोदीरणावसरस्तत्र च इमे अर्थाधिकारास्तद्यथा संज्ञाशुभाशुभविपाकसूचनार्थमाह! अणुभागुदीरणाए, सन्ना य शुभाशुभविभागो य। अणुभागबंधभणिआ, ताणत्तं पचया चेमे // 267 / / अनुभागोदीरणायां संज्ञाशुभाशुभविपाकश्चय यथा शतकाख्ये ग्रन्थे अनुभागा बन्धाश्वाभिधानावसरे भणितास्तथाऽत्रापि द्रष्टव्याः / तत्र संज्ञासंज्ञिद्विभेदात्स्थानसंज्ञाघाति संज्ञाच। संज्ञा चतुर्विधा एकस्थानको द्विस्थानकस्त्रिस्थानकश्चतुःस्थानकश्च / घातिसंज्ञा त्रिप्रकारा तद्यथा सर्वघाती देशघाती अघातीचा तथा शुभकर्मणामनुभागः क्षीरखण्डोपमः / अशुभकर्मणां त्वशुभघातिघोषातकीनिस्वरसोपमः / एषाच स्थानसंज्ञा घातिसंज्ञा शुभाशुभप्ररूपणाच प्रागनुभाग-संक्रमाभिधानावसरे सप्रपञ्चं कृतेति न भूयोविज्ञायते। विपाकश्चतुर्विधः पुद्गलविपाकः क्षेत्रविपाको भवविपाको जीवविपाकश्च / तत्र पुद्गलानधिकृत्य यस्य रसस्य विपाकोदयः स पुद्गलविपाकः / स च संस्थानषट्कसंहननषट् कातपशरीरपञ्चकाङ्गोपाङ्गत्रयोद्योतनिर्माणस्थिरास्थिरवर्णादिचतुष्कागुरुलघुशुभाशुभपराघातोपघातप्रत्येक साधा-रणनाम्ना षट्त्रिंशत्प्रकृतीनामवगन्तव्यः। तथाहि संस्थाने गाभादीनि औदारिकादिपुद्गलानेवाधिकृत्य स्वविपाकमुपदर्शयन्ति तत आसांरसः पुद्गलविपाक एव / नन्वनया युक्त्याऽरत्योरत्योरपि रसः पुगलविपाक एपा प्राप्नोति।तथाहि कण्टकादिसंस्पर्शादरतिविपाकोदयो भवति सक् चन्दनादिसंस्पर्शात्तु रतेः तत्कथं स नोक्तः। उच्यते रत्यरतिविपा-कस्य पुद्गलव्यभिचारात्। तथाहि कण्टकादिसंस्पर्शव्यतिरेकेऽपि प्रियस्मरणादिना कदाचिदुपरत्योर्विपाकादयोदृश्यन्ते ततोऽनयोरनुभागजीवविपाक एव युक्तो न पुद्गलविपाक एवं क्रोधादिविपाको भावनीयाः। उक्तं च। अरइ रईणं उदयो किन्न भवे पोग्गलानि संपप्पा। __ अप्पुढेहि विकन्नो एवं कोहाइयाणं पि।। अस्याश्चाक्षरगमिनिका। अरतिरत्योरुदयो विपाकोदयः पुगलान्प्राप्य किन्न भवति भवत्यवेति भावः। ततः कथं तयोः रसपुगलविपाको नोच्यन्ते अत्राचार्यः काचा प्रत्युत्तामाह (अप्पुढेहिं वि कन्नो) अत्र सप्तम्यर्थे तृतीया ततोऽयमर्थः / अस्पृष्टष्वपि पुद्गलेषु किं न तयोरत्यरत्योर्विपा-कोदयो भवति भवत्येवेति भावः / ततः पुगलव्यभिचारात् तयो रसपुद्गलविपाको न भवति किं तु जीवविपाक एव एवं क्रोधादीनामपि वाच्यम् / तथा क्षेत्रविपाकः / स च चतसृणामानुपूर्वी णामवगन्तव्यः / तथा भवमधिकृत्य यस्य रसस्य विपाकोदयः स रसो भवविपाकः स च चतुर्णामायुषामवसेयः / अथोच्यते ततः कथं तासां रसो भवविपाको नाभिधीयते तदयुक्तं व्यभिचारात् / तथाहि आयुषां स्वभवमन्तरेण परभवे संक्रमेणाप्युदयो भवति ततः सर्वथा स्वभवाव्यभिचारात्तानि भवविपाकान्युच्यन्ते गतीनां पुनः परभवेऽपि संक्रमणोदयो भवति ततः स्वभवव्यभिचारात् न ता भव