________________ उईरणा ६९८-अभिधानराजेन्द्रः - भाग 2 उईरणा णाभिनवकर्मा स एव जघन्यस्थितिकर्मा स्थावर एकेन्द्रियो बध्नन् बन्धावलिकायामतीतायामित्यर्थः / आद्य द्वादशकषायभयजुगुप्सानिद्रापञ्चकातपोद्योतनाम्नामेकविंशतिप्रकृतीनां जघन्यां स्थित्युदीरणां करोति इहातपोद्योतवर्जानामेकोनविंशतिप्रकृतीनां धुवबन्धित्वादातपोद्योतयोस्तु प्रतिपक्षाभावात् अन्यत्र जघन्यतरा स्थितिर्न प्राप्यते ततः एकेन्द्रिय एव यथोक्तस्वरूपम् / आसां प्रकृतीनां जघन्यस्थित्युदीरणास्वामी। एगिंदिय जोग्गाणं, इयरा बंधत आलिगं गंतु। एगिदियागए तट्टिय जाईणमवि एव्वं // 260|| एकेन्द्रियाणामेव उदीरणा संप्रति या योग्याः प्रकृतयस्ता एकेन्द्रिययोग्याः / एकेन्द्रिया जातिस्थावराः सूक्ष्मसाधारणनामानस्तासामेकेन्द्रियो जघन्यास्मिन् स्थितिः सत्सत्कर्मा इतरा एकेन्द्रियजात्यादिप्रतिपक्षभूता द्वीन्द्रियजात्यादिकाः प्रकृतीबध्नाति / तद्यथा एकेन्द्रि-- यजातिद्वीन्द्रियजातित्रीन्द्रिय जातिचतुरिन्द्रियजातिस्थावरसूक्ष्मसाधारणानां बसबादरप्रत्येकनामानि ततः एकेन्द्रियजात्यादीन बध्नाति ततो बन्धावलिकां गत्वा अतिक्रम्य बन्धावलिकायाश्चरमसमये एकेन्द्रियजात्यादीनां जघन्यां स्थित्युदीरणां करोति / इयमत्र भावना एकेन्द्रियः सर्वजघन्यस्थितिसत्कर्मा द्वीन्द्रियजातीः सर्वा अपि परिपाट्या बध्नाति ततस्तावद्गन्धानन्तरमेकेन्द्रियजातिबद् धुमारभते ततो बन्धावलिकायाश्चरम समये पूर्वबद्धायास्तस्या एकेन्द्रियजाति-जघन्यां स्थित्युदीरणां करोति। इह बन्धावलिकाया अनन्तरसमये बन्धावलिका प्रथमसमयबद्धा / अपि च ता उदीरणामायान्ति ततो जघन्या स्थित्युदीरणान प्राप्यते इति कृत्वा बन्धावलिकायाश्चरम-समये इत्युक्तं यावता कालेन प्रतिपक्षभूताः प्रकृतीर्बध्नाति तावता कालेनान्यूना एके न्द्रियजातिस्थितिर्भवति ततस्तो कतरा प्राप्यते, इति प्रतिपक्षभूतप्रकृतिबन्धोपादानम् / एवं स्थावरसूक्ष्मसाधारणानामपि भावना कर्तव्या केवलमेतेषां प्रतिपक्षभूताः प्रकृतयः त्रसबादरप्रत्येकनामानो वेदितव्याः। (एगेंदियागएत्ति) जातीनामपि द्वीन्द्रियादिजातीनामपि एवं पूर्वोक्तप्रकारेण एकेन्द्रियादागतस्तत्स्थितिक एकेन्द्रिययोग्यतया जधन्यस्थितिका जघन्या स्थित्युदीरणां करोति / अत्रापीयं भावना / एकेन्द्रियो जघन्यस्थितिः सत्कर्मा एकेन्द्रियभवादुवृत्य द्वीन्द्रीयेषु मध्ये समुत्पन्नस्ततः पूर्वबद्धां द्वीन्द्रियजातिमनुभवितुमारभते। अनुभवप्रथमसमयादारभ्य च एकेन्द्रियजातिर्दीर्घ कालं बडु लग्नस्ततस्तथैव त्रीन्द्रियजार्तिबधुमारभते ततो बन्धावलिकायाश्चरमसमये तस्या। द्वीन्द्रियजातिरेकेन्द्रियजातिभवोपार्जितस्थितिसत्कमापेक्षया , अन्तर्मुहूर्ते चतुष्टयबन्धावलिकाचरमसमये ग्रहणे च कारणं प्रागेवोक्तम् / एवं त्रीन्द्रियचतुरिन्द्रियजात्योरपि भावना कार्या। वेयणियनो कसाया, सम्मत्तस्संघयणपंचनीयाण। तिरिय दुगअयसदुभगणा, पुजाणं च संतिगए।२६१॥ सातासातवेदनीयहास्यरत्यरतिशोकपर्याप्तकान्तिमपञ्चसंहनननीचर्गोत्रतिर्यग्गतितिर्यगानुपूर्व्ययशः कीर्तिदुर्भगानादेयडपाणामष्टादशप्रकृतीनां संज्ञिपञ्चन्द्रियगतेजघन्या स्थित्युदीरणा। भावना त्वियम् / एकेन्द्रिया जघन्यस्थितिसत्कर्मा एकेन्द्रियभवादुवृत्य पर्याप्तसंज्ञि पञ्चेन्द्रियेषु मध्ये समुत्पन्नः उत्पत्तिप्रथमसमयादारभ्य च सातवेदनीयमनुभवन् असातवेदनीयं वृहत्तर मन्तर्मुहूर्तं कालं यावत् बध्नाति ततः पुनरपि सातंबधुमारभतेततो बन्धावलिकायाश्चरमसमये पूर्वबद्ध-स्य सातवेदनीयस्य जघन्यां स्थित्युदीरणां करोति एवमसातवेदनी-यस्यापि द्रष्टव्यं के वलं सातवेदनीयस्थाने असातवेदनीयमुच्चारणीयम्। असातवेदनीयस्य सातवेदनीयमिति हास्यरत्यरससातवद्भावना कार्या आसमाप्तम् / अपर्याप्तकम् नाम एकेन्द्रियो जघन्यस्थितिसत्कर्मा एकेन्द्रियभवादुद् वृत्य पर्याससंज्ञिपश्शेन्द्रियमध्ये समुत्पन्न उत्पत्तिप्रथमसमयादारभ्य चपर्याप्तकनाम वृहत्तरमन्तर्मुहूर्तु कालं यावद् बध्नाति ततः पुनरपि अपर्याप्तकनाम बद्धमारभते बन्धावलिकायाश्चरमसमये पूर्वबद्धस्यापर्याप्तकनाम्नो जघन्यां स्थित्युदीरणां करोति संहननपञ्चकस्य तु मध्ये वेद्यमानं संहननं मुक्त्वा शेषसंहननं प्रत्येकं बन्धकालोऽतिदीर्घो वक्तव्यः / ततो वेद्यमानसंहननस्य बन्धे बन्धावलिकाचरमसमये स्थित्युदीरण नीचैर्गोत्रमसातवद्वेदितव्यम् / तथा तेजस्कायिको वायुकायिको बादरसर्वजघन्यस्थितिसत्कर्मा पर्याप्तसंज्ञितिर्यक्पञ्चेनिद्रयेषु मध्ये समुत्पन्नस्ततो वृहत्तरमन्तर्मुहूर्त कालं यावन्मनुजगतिं बध्नाति तद्बन्धानन्तरं च तिर्यग्गतिं बधुमारभते / तत आवलिकायाश्चरमसमये तस्यास्तिर्यग्गतिर्जधन्यां स्थित्युदीरणां करोति एवं तिर्यगानुपूर्व्या अपि वक्तव्यं नवरमपान्तरालगतौ तृतीय-समये जधन्या स्थित्युदीरणा वाच्या अयशःकीर्तिदुर्भगानादेयानां चासातस्यैव भावना कार्या केवलमिह प्रतिपक्षप्रकृतीनां यशः कीर्तिसुभगादेयाना बन्धो वाच्यः। अमणागयस्स विरइअंत, सुरनरयगइउवंगाणं / अणुपुथ्वीति समइगे, नराण एगें दिआ गयगे॥२६॥ अमनस्कादसंज्ञिपञ्चेन्द्रियादुद्वृत्त्य देवेषु वा मध्ये समागतस्य सुरगतिनरकगतिवैक्रियाङ्गापाङ्गनाम्ना स्वस्वायुर्दैर्घ्य स्थित्यन्तरे जघन्या स्थित्युदीरणा / एतदुक्तं भवति असंज्ञिपञ्चेन्द्रियः सर्वजघन्यां सुरगतिस्थितिंबध्वा बन्धानन्तरंचदीर्घकालं तत्रैव स्थित्वा देवेषु नारकेषु वा मध्ये पल्योपमासंख्येयभागमात्रायुः स्थितिकः समुत्पन्न-स्ततस्तस्य देवस्य नारकस्य वा स्वस्वायुषश्विरस्थित्यन्ते चरमसमये वर्तमानस्य यथायोगं देवगतिनरकगतिवैक्रियाङ्गोपाङ्गनाम्नां जघन्या स्थित्युदीरणा स एवासंज्ञिपञ्चेन्द्रियो देवस्य नरकस्य वा भवस्या-पान्तरालगतौ वर्तमानो यथासंख्यं देवानुपूर्वी नारकानुपूर्योश्च तृतीयसमये जघन्यां स्थित्युदीरणां करोति / (नराण एगेंदिआगयगेत्ति) एकेन्द्रियः सर्वजघन्यमनुष्यानुपूर्वीस्थितिः सत्कर्मा एकेन्द्रियभवादु-दृत्य मनुष्येषु मध्ये उत्पद्यमानो ऽपान्तरालगतौ वर्तमानो मनुष्यानुपूर्यास्तृतीयसमये जधन्यस्थित्युदीरणास्वामी भवति। समया हिग्गलगाए, पढमट्टिइओ सेसवेलाए। मिच्छत्ते वेरासु य, संजलनासु वि य सम्मत्ते // 263 / / इह अन्तरकरणे कृते अधस्तनी स्थितिः प्रथमा स्थितिरित्युच्यते। उपरितनी तु द्वितीयेति। तत्र प्रथमस्थितेः शेषवेलायां समयाधिकावलिकाप्रमाणायां मिथ्यात्ववेदत्रिकं संज्वलनचतुष्टयं सम्यक्त्वानां जघन्यस्थित्युदीरणा भवति नवरं सम्यक्त्वसंज्वलनलोभयोः क्षये उपशमे वाजघन्या स्थित्युदीरणा द्रष्टव्या।