________________ उईरणा 697 - अभिधानराजेन्द्रः - भाग 2 उईरणा स्यान्तर्मुहूर्त द्विकोना सप्ततिसागरोपमकोटाकोटिप्रमाणा उत्कृष्टा स्थितिरुदीरणायोग्या भवति / तथा आहारकसप्तमप्रमत्तेन सता तद्योग्योत्कृष्टसंक्लेशेनोत्कृष्टस्थितिकं बद्धतत्कालोत्कृष्टस्थितिकं मूलप्रकृत्यभिन्नप्रकृत्यन्तरदलिकं च तत्र संक्रमितमतस्तत्सर्वोत्कृष्टा तत्तत्सागरोपमकोटाकोटीस्थितिकं जातं बन्धानन्तर चान्तर्मुहूर्तमतिक्रम्य आहारकशरीरमारभते / तचारभमाणा लब्द्ध्युपजीवनेनौत्सुक्यभावतः प्रमादभाग्भवति ततस्तस्य प्रमत्तस्य सत आहारकशरीरमुत्पादयतः आहारकसप्तस्यान्तर्मुहूर्तांना उत्कष्टास्थितिरुदीरणायोग्या / अत्र प्रमत्तस्य सत आहारकशरीरारम्भत्वात् उत्कृष्टस्थित्युदीरणा स्वामित्वप्रमत्तसंयत एव वेदितव्या। शेषप्रकृतीनां सूत्रकृदेव विशेषमाचष्टे (निरयगएवावित्ति) नरकगतेरपिशब्दात् नरकानुपूर्दोश्च तियक्पञ्चेन्द्रियो मनुष्यो वा उत्कृष्टां स्थिति बध्वा उत्कृष्टस्थितिबन्धानन्तरं चान्तर्मुहूर्ते व्यतिक्रान्ते सति तिसृषु अधस्तनपृथवीषु मध्ये अन्यतरस्यां समुत्पन्नस्तस्य प्रथमसमये नरकगतेरन्तर्मुहूर्त्तहीने सर्वापि स्थितिर्विशतिसागरोपमकोटाकोटीप्रमाणा उदीरणा योग्या भवति नरकानुपूर्वी चापान्तरालगतौ समयत्रयं यावदुत्कृष्टास्थितिरुदीरणायोग्या भवति / अधस्तनपृथिवीत्रयग्रहणे किं प्रयोजनमिति चेदुच्यते। इह नरकगत्यादीनामुत्कृष्टां स्थितिं बध्नन् अवश्यं कृष्णलेश्यापरिणामोपेतो भवति कृष्णलेश्यापरिणामः पञ्चमपृथिव्यामुत्पद्यते / मध्यम-- कृष्णलेश्यापरिणामः षष्ठपृथिव्यामुत्कृष्टकृष्णलेश्या परिणामः सप्तमपृथिव्यामित्यधस्तनपृथिवीत्रयग्रहणं कृतम्॥ देवगतिदेवमणुआ-णुपुटिव आयावविगलसुहमतिगे। अंतोमुहत्तभागा, ताव ए गूणंतदुक्कस्स // 257 / / देवगतिर्देवानुपूर्वीमनुष्यानुपूर्वीणामातपस्य विकल्पत्रिकस्य द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रयजातिरूपस्य सूक्ष्मत्रिकस्य सूक्ष्मसाधारणापर्याप्तकलक्षणस्य स्वस्वोदये वर्तमाना अन्तर्मुहूर्तभागा उत्कृष्टा स्थितिबन्धाध्यवसायानन्तमुहूर्त कालं यावत्परिभ्रष्टाः सन्तस्तावदूनामन्तर्मुहूर्तोनांतत्तदुत्कृष्टां देवगत्यादिना उत्कृष्टां स्थितिमुदीरयन्ति। इयमत्र भावना / इह कश्चित् तथाविधपरिणामविशेषभावतो नरकगतेरुत्कृष्टां स्थिति दशसागरोपमकोटाकोटीप्रमाणां बद्धमारभते ततस्तस्यां देवगतिस्थितौ बध्यमानायामावलिका उपरि वन्धावलिकाहीना आवलिकामात्रहीना जाता देवगतिं च बध्नन् जघन्यैषाप्यन्तमुहूर्त कालं यावत् बध्नाति बन्धानन्तर च कालं कृत्वा अनन्तरसमये देवो जातस्ततस्तस्य देवत्वमनुभवतो देवगतिरन्तर्मुहूर्तोना विंशतिसागरोपमकोटाकोटीप्रमाणा उत्कृष्टा स्थित्युदीरणायोग्या भवति / ननूक्तयुक्त्यनुसारेणावलिकाधिकान्तर्मुहूर्तोना प्राप्नोति कथमुच्यते अन्तर्मुहूर्तोनेति नैष दोषः यत आवलिका प्रक्षेप्येति तदन्तर्मुहूर्तमेव केवनं गृहान्तरमवगन्तव्यमित्येवं देवानुपूर्व्या अपि वाच्यम् / तथा कश्चिन्नरकानुपूर्व्या उत्कृष्टां स्थिति विंशतिसागरोपमकोटाकोटीप्रमाणं बध्वा ततः शुभपरिणामविशेषतोमनुष्यानुपूर्व्या उत्कृष्टां स्थितिं पञ्चदशसागरोपमकोटाकोटीप्रमाणं बर्द्धमारभते ततस्तस्यां मनुष्यानुपूर्त्या स्थितो बध्यमानायामावलिकायामुपरि बन्धावलिकाहीनामावलिकामुपरितनीं सकलामपि नारकानुपूर्वी स्थितिं संशमयति ततो मनुष्यानुपूर्व्या अपि विंशतिसागरोपमकोटाकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता मनुष्यानुपूर्वी च बध्नन्जघन्येनाप्यन्तर्मुहूर्त कालं | यावद्भवति तच्चान्तर्मुहूर्तमावलिकोनविंशतिसागरोपमकोटाकोटीप्रमाणा उदीरणा योग्या / ननु मनुष्यगतेरपि पञ्चदश सागरोपमकोटाकोट्योर्बन्धेनोत्कृष्टा स्थितिः प्राप्यते तथा मनुष्यानुपूर्व्या अपि नत्वेकस्या अपि विंशतिस्तत उभयोरपि संक्रमोत्कुष्ट संक्रमोत्कृष्टत्वात् विशेषे च कथं मनुष्यगतेरिव मनुष्यानुपूर्व्या अपि आवलिकात्रिकहीनोत्कृष्टा स्थितिरुदिरणायोग्या न भवति तन्न युक्तं मनुष्यानुपूर्व्या अनुदयसक्रमोत्कृष्टत्वात् तदुक्तं "मणुयाणुपुस्विमीसग, आहारग देवजुअलविगलाणि / सुहमा तिगं तिव्व अणूदय संकमणं उक्कोसा, अनुदयः संक्रमोत्कृष्टानां च जघन्यतोऽप्यन्तर्मुहूर्तोनाया एवोत्कृष्टस्थितेरुदीरणायोग्यत्वात् मनुष्यगतिस्तूदयसंक्रमोत्कृष्टा तदुक्तं "मणुयगई साईयं सम्मं विरहा सइय छवेय सुभ। खगई रिसभ चउरंगइ पणुच उदसंकमुक्कोसा" ततस्तस्या आवलिकात्रिकहीने चोत्कृष्टा स्थितिरुदीरणायोग्या भवति एवमातपादीनामप्यन्तर्मु-हूर्तोना उत्कृष्टा स्थितिरुदीरणा योग्या भवतु आतपानामनुबन्धो-त्कृष्ट ततस्तस्य स्थितीनां प्रकृतीनामन्तर्मुहूर्तांना उत्कृष्टा स्थि-तिरुदीरणायोग्या भवतु आतपानामनुबन्धोत्कृष्टा ततस्तस्य बन्धोदयावलिकाद्विकरहिते चोत्कृष्टस्थितिरुदीरणा प्रायोग्या भावनीया। ननु अनुदयस क्रमोत्कृष्टा स्थितीनां प्रकृतानामन्तर्मु-हूर्तों ना उत्कृष्टास्थितिरुदीरणा योग्या भवतु कथमुच्यते अन्त-मुहूतोनेति उच्यते इह देवएवोत्कृष्ट संक्लेशे वर्तमान एकेन्द्रियाणामेकोन्द्रियप्रायोग्याणामातपस्थावरैकेन्द्रियजातीनामुत्कृष्टां स्थिति बध्नाति नाऽन्यः च तां बध्वा तत्रैव देवभवे अन्तर्मुहूर्त कालं यावत् अवतिष्ठते ततः कालं कृत्वा बादरपृथ्वीकायिकेषु मध्ये समुत्पद्यते समुत्पन्नस्सन् शरीरपर्याप्त्या पर्याप्तः आतपनामोदये वर्तमानस्तदुदीरयति तत एवं सति तस्यान्तर्मुहूर्ते / नैवोत्कृष्टा स्थितिरुदीरणा योग्या न भवति आतपग्रहणं चोपलक्षणं तेनान्यासामपि स्थावरैकेन्द्रियजातिनरकाद्विकतिर्यगद्विकौदारिक सप्तकान्त्यसंहनननिद्रापशक रूपाणामकोनविंशतिसंख्याकानामनुदयबन्धोत्कृष्टानामन्तर्मुहूर्तोना उत्कृष्टा स्थितिरुदीरणायोग्यावेदितव्या। तत्र स्थावरैकेन्द्रियजातिनरकद्विकानां भावना कृता शेषाणां क्रियते। तत्र नारकस्तिर्यग्द्विकौदारिकसप्तकान्त्यसंहन-नानामुत्कृष्टां स्थिति बध्वा ततो मध्यमपरिणामस्तत्र तत्र चान्तर्मुहूर्ते गते सति निद्रोदये उत्कृष्टोदीरणां करोति। तित्थयरस्स पल्लासं, खिज्जइमे जहन्नगे इत्तो। थावर जहन्नसंते,ण समं अहिगं व बंधंतो // 258|| गंतूणावलिमित्तं, कसाय बारसगभय दुगंठाणं। निहाय पंचगस्सय, आया उज्जो य नामस्स // 25 // इह पूर्व तीर्थकरनाम्नः स्थितिशुभैरध्यवसायैरपवापवर्त्यपल्योपमासंख्येयभागमात्रा शेषीकृता ततोऽनन्तरसमये उत्पन्नकेवलज्ञानः स तामुदीरयति उदीरयतश्च प्रथमसमये उत्कृष्टा उदीरणा सर्वदैव च इयन्मात्रैव स्थितिरुत्कृष्टा तीर्थकरनामतः उदीरणायोग्या प्राप्यते नाधिकेति / तदेवमुत्कृष्टस्थित्युदीरणास्वामित्वमुक्तम् / संप्रति जधन्यस्थित्युदीरणास्वामित्वमाह / (जहन्नगेइत्तोत्ति) इत ऊर्व जघन्ये जघन्यस्थित्युदीरणायाः स्वामित्वमभिधीयते प्रतिज्ञातमेव निहियति / (जावसजहन्नेत्यादि) स्थावरस्य सतोऽसजधन्यस्थित्युदीरणा सर्वस्तोकं स्थितिसत्कर्मा तेन समधिकं वा मनाग मात्रे