________________ उईरणा 693 अभिधानराजेन्द्रः भाग 2 उईरणा प्रक्षिप्तयोः त्रिपञ्चाशद्भवति / अत्रापि प्रागिव स्वमतेन चत्वारो भङ्गा मतान्तरेणाष्टौ देवानां प्रशस्तविहायोगतेरुदया भावात् तदाश्रिता भङ्गा न प्राप्यन्ते / ततः प्राणापानपर्याप्तापयापतस्य उच्छ्वासे क्षिप्ते चतुःपञ्चाशद्भवति / अत्रापि स्वमतेन चत्वारो भङ्गाः मतान्तरेणाष्टौ / अथवा शरीरपर्याप्तापर्याप्तस्य उच्छ्रवासे अनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशद्भवति अत्रापि प्रागिव स्वमतेन भङ्गाश्चत्वारो, मतान्तरेणाष्टौ / अथवा शरीरपर्याप्तापर्याप्तस्य उच्छ्वासे अनुदितेउद्योतनाम्नि तूदितेच सर्वसंख्यया चतुःपञ्चाशत् स्वमतेनाष्टौ भङ्गा मतान्तरेण षोडश ततो भाषापर्याप्तापर्याप्तस्य उच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरे क्षिप्ते पञ्चापञ्चा-शद्भवति अत्रापिस्वमतेन भङ्गाश्चत्वारो मतान्तरेणाष्टौ सर्व संख्यया पञ्चपञ्चाशत् / स्वमतेनाष्टौ भङ्गा मतान्तरेणापि तु षोडश भाषापर्याप्तापर्याप्तस्य सुस्वरसहितायां पञ्चपञ्चाशति उद्योते क्षिप्ते षट्पञ्चाशद्भवति / अत्रापि स्वमतेनैव चत्वारो भङ्गा मतान्तरेणाष्टौ सर्वसंख्यया देवानां स्वमतेन द्वात्रिंश भङ्गाः मतान्तरेण चतुःषष्टिः। नैरयिकाणामुदीरणास्थानानि पञ्च। तद्यथा-द्विचत्वारिंशदेकपञ्चाशत् त्रिपञ्चाशचतुःपञ्चा-शत्पञ्चपञ्चाशचेति। तत्र नरकगतिनरकानुपूर्योः पञ्चेन्द्रिय-जातित्रसबादरपर्याप्तदुर्भगानादेयायशः कीर्तिशय इत्येता नव प्रकृतयो ध्रुवोदीरणाभिस्त्रयस्त्रिंशत्सख्यकाभिः सह सम्मिश्रा | द्विचत्वारिंशद्भवति। अत्र च सर्वाण्यपि पदानि अप्रशस्तान्येवेति कृत्वा एक एव भङ्गः / ततश्शरीरस्थस्य वैक्रियसप्तक हुंडक-संस्थानमुपघातप्रत्येकमिति दश प्रकृतयः प्रक्षिप्यन्ते / नरकानुपूर्वो चापनीयते / तत एकपञ्चाशद् भवति / अत्राप्येक एव भङ्गः / ततः शरीरपर्याप्तापर्याप्तस्य पराघातप्रशस्तचिहायोगत्योः प्रक्षिप्तयोः तिपञ्चाशद्भवति।। अत्राप्येक एव भङ्गः। ततः प्राणापान-पर्याप्तापर्याप्तस्य उच्छ्वासे क्षिप्ते चतुःपञ्चाद्भवति / अत्राप्येक एव भङ्गः / ततो भाषापर्याप्तापर्याप्तस्य दुःस्वरे क्षिप्ते पञ्च-पञ्चाशद्भ-वति। अत्राप्येक एव भङ्गः। सर्वसंख्यया नैरयिकाणां पञ्च भङ्गाः। तदेवमुक्तानि नामकर्मणोरुदीरणास्थानानि। संप्रत्येतान्येव गुणस्थानकेषु दर्शयति। गुणिस्सु नामस्स तव, सत्त तिणि अटुं च छप्पं च / अप्पमत्ते दो एक,पंचसु एकम्मि अट्ठ / / 249 / / नाम्नो मकर्मणोर्गुणिषु गुणस्थानेषु मिथ्यादृष्टिप्रभृतिषु सयोगिकेवलिपर्यन्तेषु यथासंख्ययानवादिषु सख्यान्युदीरणा स्थानानि भवन्ति। तत्र मिथ्यादृष्टिषु नवोदीरणास्थानानि / तद्यथा द्विचत्वारिंशत् पञ्चाशद् द्विपञ्चाशत् त्रिपञ्चाशदेकपञ्चाशद् द्विपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् षट्पञ्चाशचेति / अमूनि च सर्वाण्यपि मिथ्यादृष्टीन्ये केन्द्रियादीन्यधिकृत्यं स्वयं परिभावनीयानि / सास्वादनसम्यग्दृष्टरुदीरणास्थानानि सप्त / तद्यथा द्विचत्वारिंशत् पञ्चाशत् एकपञ्चाशत् द्विपञ्चाशत् पञ्चपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत्सप्तपञ्चाशचेति। तत्र द्विचत्वारिंशत् बादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिय तिर्यक् - पञ्चेन्द्रियमनुष्यदेवानां सास्वादनसम्यदृष्टीनामपान्तरालगतौ वर्तमानानामवसेयाः। तथा एकेन्द्रियाणां शरीरस्थानां पञ्चाशत् देवानां / शरीरस्थानामेकपञ्चाशद्विकलेन्द्रियतिर्यक्पञ्चेन्द्रिय-मनुष्याणां शरीरस्थानां द्विपञ्चाशत् एवं नैरयिकाणां पर्याप्तानां सासादनसम्यक्त्वे वर्तमानानां पञ्चपञ्चाशत् / तिर्यक्पञ्चेन्द्रियमनुष्यदेवानां पर्याप्तानां षट्पञ्चाशत् / तिर्यक्पञ्चेन्द्रियाणामुद्योतवेदकानां पर्याप्तानां सप्तपञ्चाशत् / सम्यग्मिथ्या-दृष्टे स्त्रीण्युदीरणास्थानानि / तद्यथा पञ्पञ्पाशत्सप्तपञ्चाशचेति / तत्र देवनैरयिकाणामेव पञ्चपञ्चाशदविरतसम्यग्दृष्टरष्टाबुदीरणास्थानानि तद्यथा द्विचत्वारिंशदेकपञ्चाशचेति / तत्र नैरयिकदेवत्रिर्यक्पञ्चेन्द्रियमनुष्याणां द्विचत्वारिंशद् देवनैरयिकाणामेकपञ्चाशत् तिर्यक्पञ्चेन्द्रियमनुष्याणां द्विपञ्चाशत् देवनैरयिकतिर्यड्मनुष्याणां त्रिपञ्चाशत् देवन-रयिकाणामेकपञ्चाशत् सप्तपञ्चाशचेति / तिर्यक्पञ्चेन्द्रियवैक्रियतिर्यड्मनुष्याणां त्रिपञ्चाशचतुःपञ्चाशदेतेषामेव पञ्चपञ्चाशदपि तदेव तिर्यक्पञ्चेन्द्रियमनुष्याणां षट् पञ्चाशत् तिर्यक्पञ्चेन्द्रियाणामुद्योतवेदिकायां सप्तपञ्चाशत्, देशविरतस्योदीरणास्थानानि षट्। तद्यथा एकपञ्चाशत् त्रिपञ्चाशचतुःपञ्चाशत् पञ्चपञ्चाशत्षट्पञ्चाशत् सप्तपञ्चाशचेति। तत्र एकपञ्चाशत् त्रिपञ्चाशचतुःपञ्चाशत् पञ्चपञ्चाशचेति / तिर्यग्मनुष्याणां वैक्रियशरीरे वर्तमानानामवगन्तव्या। तिर्यग्मनुष्याणामेव स्वभावस्थानां वर्तमानामवगन्तव्या। तिर्यग्मनुष्याणामेव स्वभावस्थानां वैक्रियशरीरिणां षट्पञ्चाशत् तेषामेव तिर्यक् पञ्चेन्द्रियाणामुद्योतसहितानां सप्तपञ्चाशत् प्रमत्तसंयतानामुदीरणास्थानानि पञ्च तद्यथा एकपञ्चाशद् द्विपञ्चाशत् त्रिपञ्चाशत् चतुः-पञ्चाशत् पञ्चपञ्चाशत् षट् पञ्चाशचेति / तत्र पञ्चाप्येतानि वैक्रियशरीरिणामाहारकशरीरिणां वा द्रष्टव्यानि षट् पञ्चाशत् पुनरौदारिकस्थानमवगन्तव्यम्। अप्रमत्तसंयतानांद्वे उदीरणा-स्थानेतद्यथा पञ्चपञ्चाशत् षट्पञ्चाशचेति / तत्र षट् पञ्चा-शदौदारिके स्थाने इह केषांचित् वैक्रि यशरीरस्थानामाहारक-शरीरस्थानां वा संयतानां वा सर्वपर्याप्तापर्याप्तानां कियत्का-लप्रमत्तभावो पि लभ्यते इति ये तेषां द्वे अप्युक्तरूपे उदीरणास्थाने / एकः पञ्च मुहर्ताः पञ्चसु गणुस्थानिकेषु अपूर्वकरणानि वृत्तबादरसूक्ष्म संपरायोपशान्तमोहक्षीणमोहरूपेषु एकमुदीरणास्थानं भवति / षट् पञ्चाशत् सा च औदारिकशरीरस्थानमिति (एक्कम्मिअट्ठत्ति) एकस्मिन् सयोगिकेवलगुणस्थानिके अष्टाकुदीरणास्थानानि तद्यथा एकचत्वारिंशत् द्विचत्वारिंशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशचेति। एतानि च प्रागेव सप्रपञ्च भावितानि इति नेह भूयो भाव्यन्ते / तदेवं चिन्तितानि गुणस्थानकेषु उदीरणा स्था-नानि। संप्रति कस्मिन्नुदीरणास्थाने कति भङ्गाः प्राप्यन्ते इति चिन्तायां तन्निरूपणार्थमाह। ठाणकमेण भंगा, वि एकतीसेकारस। इगवीस वा वारस-सएय इगबीसछचसया ||250 / / छह अहिया नव सया य, एगहिया य अऊणुत्तारि। णाओ चउदस सयाणि, गुण नउइसया पंच // 251 / / स्थानक्रमेण एकचत्वारिंशत्येको भङ्गाः / स च तीर्थंकरके वलिनः द्विचत्वारिंशति त्रिंशद्भङ्गाः। तत्र नैरयिकानधिकृत्य एकः एकेन्द्रियानधिकृत्य पञ्चद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्यप्रत्येकंत्रिकंत्रिकंप्राप्यतेइतिनव। तिर्यक्पञ्चेन्द्रियानधिकृत्य पञ्च, मनुष्यानप्यधिकृत्य पञ्च, तीर्थकरमधि