________________ उईरणा 688 अभिधानराजेन्द्रः भाग 2 उईरणा यरिंशत्संख्यानां तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभगुरुलघुनिर्माणरूपाणां योगिनः सयोगिकेवलिपर्यन्ता उदीरकाः / उपघातिनाम्नस्तु तनुस्थाः शरीरस्थाः शरीरपर्याप्त्यपर्याप्त्युदीरकाः तनुकिट्टीकृतां सूक्ष्मकिट्टीकृताम् अर्थात् लोभसत्कानां तनुकरागाः सूक्ष्मसंपराया यावचरमसमयावलिका न भवति तावदुदीरकाः। तसबायरपज्जत्ते, सेयरगइजाइ दिट्टिवेयाणं। आऊणं तन्नामा पत्तेयसरीरस्स उ तणुत्था / / 230 / / सवादरपर्याप्तानां सेतराणां संप्रति ज्ञापना स्थावरसूक्ष्मपर्याप्तसहितानामित्यर्थः। तथा चतसृणांगतीनां, पञ्चानांच जातीनां, तिसृणां दृष्टीनां दर्शनानां मिथ्यादर्शनादीनां, त्रयाणां वेदानां नपुंसकवेदादीनां, चतुर्णा चायुषां सर्वसंख्यया पञ्च-विंशतिप्रकृतीनां यथास्वं तन्नामास्तन्नामप्रकृतिनामान उदी-रणास्तद्यथा त्रसनाम्नस्त्रसास्ते च शरीरे अपान्तराले गतौ च वर्तमाना उदीरकाः। एवं सर्वेषामपि भावनीयम् तथा प्रत्येकनामानः शरीरस्य तनुस्था देहस्थाः तुरेवार्थे देह स्था एव भवन्तीति गाथार्थः / / 230 // आहरयओ णिचा, सरीर दुगवेयप्पामोत्तूणं / ओरालाए एवं, तदुवंगाए तसज्जियाओ व्ब 1231|| ये नरा मनुष्यास्तिर्यञ्च आहारका ओजोलोमप्रक्षेपाहारकारणामन्यतममाहारं गृह्णन्ति तत औदारिक उपलक्षणमेतत् औदारिकबन्धनचतुष्टयस्यौदारिकसंघातस्या औदारिकाः किं सर्वेपि नित्याः शरीरद्विकवेदकान् प्रमुच्य शरीरद्रिकं आहार-कवैक्रियलक्षणानां तत्स्थानात्परित्यज्यन्ते हीनौदारिकसनातस्य औदरिकाः किं सर्वेपि नेत्याह / शरीरद्विकवेदकान् प्रमुच्य शरीरद्विकमाहारकवैक्रियलक्षणं तत्स्थावरा एवमुक्तेन प्रकारेण (तदुवगाएत्ति) तदङ्गोपाङ्गनाम्नः औदारिकाङ्गोपाङ्गनाम्न उदीरका वेदितव्याः / केवलं ते त्रसकायिका एव न स्थावरास्तेषां तदुदयाभावात्। वेउव्विगाय सुरने-रइया आहारगानरो तिरिओ। सन्नी बायरपवणो, लद्धिपज्जत्तगो होज्जा / / 23 / / वैक्रियशरीरनाम्नः उपलक्षणमेतत् वैक्रियसंघातस्य सुरा नैरयिका वा गृह्णन्तो यश्च नरस्तिर्यङ् वा सज्ञी वैक्रियलब्धिवान् यश्च वादरपवनो दुर्भगनामोदयी लब्धिपर्याप्तको वैक्रियशरीर-लक्षणलब्ध्या पर्याप्तस्ते सर्वेप्युदीरकाः। वेउव्वियंग उवंगतणु-तुल्ला पवणबायरं हिचा। आहरगाय विरओ, विउव्वंतो पमत्तेय / / 233|| वैक्रियाङ्गोपाङ्गनाम्न उदीरकास्तनुतुल्या वैक्रियशरीरनाम्न उदीरकाः प्रागुपदिष्टास्त एव वैक्रियाङ्गोपाङ्गनाम्नोऽपि वेदितव्या इत्यर्थः / किं सर्वेऽपि नेत्याह। बादरापवनं बादरवायुकायिकं हित्वा परित्यज्य शेषा द्रष्टव्याः। आहारक शरीरनाम्नोपि विरतसंयतस्तत् आहारकशरीरं कुर्वन् प्रमत्तः प्रमादमुपगतस्सन् उदीरको भवति। छण्णं ठाणं संघय-णाणं सगला तिरिय नरा। देहत्था पज्जत्ता, उत्तमसंघयणाणो सेढी / / 234|| सकलाः पञ्चेन्द्रियास्तिर्यचो मनुष्याश्च देहस्थाः शरीरनामोदये वर्तमाना | लब्ध्या पर्याप्ताः षण्णां संहननानामुदीरका भवन्ति / इहोदयप्राप्तानामेवोदीरणा प्रवर्तते नान्येषां ततो यत्स्थानं यत्संस्थानं संहननं वा उदयप्राप्तं वा भवति तत्तदा उदीयते। नान्यदा चेति द्रष्टव्यम्। तथा उत्तमसंहननो वजर्षभनाराचसंहननः श्रेणीः क्षपकश्रेणीर्भवति न शेषसंहननः / तेन क्षपक श्रेणिं प्रतिपन्ना वज्रर्षभनाराचसंहननमेवोदीरयन्ति न शेषसंहननानि उदया-भावादित्यवसेयम्। चतुरंसस्स तणुत्था, उत्तरतणु सगलभोगभूमिगया। देवा इयरे हुंडा, तस तिरिय नरा य सेवट्टा / / 235 / / चतुरस्रस्य समचतुरस्रसंस्थानस्य तनुस्थाः शरीरस्था: उत्तरतनव आहारकोत्तरवैक्रियशरीरिणौ मनुष्यास्तिर्यश्चः सकलाः सकलेन्द्रियाः पजेन्द्रिया इत्यर्थः / तथा भोगभूमिगता देवाश्च उदीरका भवन्ति (इयरेहुंडत्ति) इतरे उक्तशेषाः एकेन्द्रिय-विकलेन्द्रियनैरयिका अपर्याप्तकाश्च पञ्चेन्द्रियतिर्यङ्मनुष्या एते सर्वेऽपि शरीरस्थाः हुंडसंस्थानस्योदीरका भवन्ति (तस तिरियनरा यसेवट्टित्ति) अत्र इतरे इत्यनुवर्तते उक्तशेषास्त्रसा द्वीन्द्रियादयः ! पञ्चेन्द्रियतिर्यड्मनुष्याश्च सेवार्ताः सेवार्तसंहननोपेताः सेवार्तसंहननस्योदीरकाः। संघयणाणि न उत्तरे, तणुसु तन्नामगा भवंतरगे। अणुपुवीणं परघा-इस्स उदेहीण पज्जत्ता / / 236 / / उत्तरतनुषु वैक्रियाहारकशरीरेषु संहनना न भवन्तीति षण्णां संहननानामेकतरमपि संहननंन भवतितेनएकस्यापि संहनन स्योदीरका न भवन्ति / तथा आनुपूर्वीणां नारकानुपूर्यादीनां चतसृणां तन्नामिका तत्तदानुपूर्व्यापि नारकादिनामानो भवापान्तरालगतौ वर्तमाना उदीरका वेदितव्याः। तद्यथा-नारकानुपूर्व्या नारको भवापान्तररालगतौ वर्तमान उदीरकस्तिर्यगानुपूास्तिर्यक् इत्यादि / तथा पराघातनामः शरीरपर्याप्ता-पर्याप्ताः सर्वेप्युदीरकाः। बायर पुढवी आयव, णामवज्जियत्तु सुहुमतसा। उज्जोयणामतिरिए, उत्तरदेहे य देवजई / / 237 / / आतपनामा बादरप्रथ्वीकायिक उदीरकः चशब्दस्यानुक्तार्थ समुचायकत्वात् बादरपृथ्वीकायिको पर्याप्तो द्रष्टव्यः / तथा सूक्ष्मान् सूक्ष्मैकेन्द्रियान् सूक्ष्मत्रसांश्च तेजोवायुकायिकान् वर्जयित्वा शेषास्तिर्यञ्चः पृथिव्यम्बुवनस्पतयो विकलेन्द्रियाः पञ्चेन्द्रियाः लब्धिपर्याप्ता उद्योतनामानो यथासंभवमुदीरकाः भवन्तिा तथा उत्तरदेहे उत्तरशरीरे यथासंभवं वैक्रिये आहारकेच वर्तमानो देवोयतिश्च उद्योतनामा उदीरको भवति / / 237 // सगलो पइट्टगई, उत्तरतणुदेवभोगभूमिगया। इट्ठसराय तसो विय, इतरासिं सनेरइया ||238|| सकलः पञ्चेन्द्रियतिर्यङ् मनुष्यो वा शरीरपर्याप्तापर्याप्तः प्रशस्तविहायोगतिः उदये वर्तमानस्तथा उत्तरस्यां तनौ वैक्रिय शरीररूपायां वर्तमानाः सर्वे तिर्यञ्चो मनुष्याश्च तथा सर्वे देव भोगभूमिकागता द्रष्टव्याः। इष्टगते प्रशस्तविहायोपगतेरुदीरकः / तथा इष्टस्वराः सुस्वरनामानस्त्रसा द्वीन्द्रियादयोऽपि शब्दा-त्प्रागुक्ताश्च पञ्चेन्द्रियतिर्यगादयो भाषापर्याप्त्यापर्याप्ता यथा-संभवमुदीरकाः। तथा इतरस्यामप्रशस्तविहायोगतिदुःस्व-रनामनस्वसा विकलेन्द्रियाः सनैरयिका नैरयिकसहितास्तथा पञ्चेन्द्रियतिर्यग्मनुष्याः केचन यथासभवमुदीरका वेदितव्याः। उस्सासस्स सराण य, पञ्जत्ता आणपाणमासासु। सव्वण्णूणुस्सासो,भासा विय जानुरुज्जति / / 239||