________________ उईरणा 687 अभिधानराजेन्द्रः भाग 2 उईरणा अनुदयप्राप्तस्य (दलिकस्य) करणेनकृष्योदये प्रक्षेपणे, स्था०४ ठा० / उई (दी)रणा-स्त्री.(उदीरणा) अनुदयप्राप्तं कर्म दलिकमुदीर्यत उदयावलिकायां प्रवेश्यते यथा सा उदीरणा / उदयावलिकातो बहिर्वर्तनीनां स्थितीनां दलिकं कषायैः सहितेन वा योगसंज्ञितेन वीर्यविशेषेण समाकृष्योदये प्रवेशनरूपे करणभेदे, पं.सं.। तेषामेव कर्म पुगलानामकालप्राप्तानां जीवसामर्थ्य विशेषादुद्वलिकायां प्रदेशनमुदीरणा तेषामेव कर्मपुद्गलानां बन्धसंक्रमाभ्यां लब्ध्वाऽत्मलाभानां निर्जरणसंक्रमणक्लृप्तस्वरूपप्रच्युत्यभावे सद्भावः सत्ता। कर्मा आन्तरशक्तिविशेषे,। द्वा। "जीवाणं दोहिं ठाणेहिं पायकम्म उदीरेई तंजहा। अज्झोवगमिया चेव वेयणाए उवक्कमियाए चेव वेदणाए एवं वेदेति एवं णिज्जरेंति अज्झो. वे. उव, वेय." (व्याख्या स्वस्व शब्दे) स्था०२ ठा। सूत्रों अस्या निश्शेषा वक्तव्यता यथा तत्र चैते अर्थाधिकारास्तद्यथा लक्षणं, भेदः, साधनादि प्ररूपणा, स्वामित्वम्, उदीरणा, प्रकृतिस्थानानि तत्स्वामित्वं चेति / / तत्र पुरतो लक्षणभेदयोः प्ररूपणार्थमाह। जं करणे णो कट्टिय, उदए दिज्जए उदीरणा एसा। पगइद्विइ अणुभाग-प्पएसमूलुत्तरविभागा / / 225 / / अत्र पूर्वार्द्धन लक्षणं ततस्तत्प्ररूपणार्थमाह / यत्र यत्परमाण्वात्मकं दलिकं करणेन योगसंज्ञिकेन वीर्यविशेषेण कषाय सहितेन असहितेन वा उदयावलिका बहिर्वर्तिनीभ्यः स्थिति भ्योऽप्याकृत्य उदये दीयते उदयावलिकायां प्रक्षिप्यते एषा उदीरणा च वक्तव्या 'उदयावलिया बाहिरल्लटिईहितो कसायसहिएण वा जोगसन्नेणं करणेणं दलियमाकट्ठिय उदयावलियाए पवेसयाणं" उदीरणत्ति सा च किंभूतेत्यत आह / प्रकृतिस्थित्यनुभाग-प्रदेशमूलोत्ता विभागा। प्रकृतिस्थित्यनुभागप्रदेशैर्मूल-प्रकृतिभिरुत्तरप्रकृतिभिश्च कृत्वा विभागो भेदो यस्याः सा तथा। इदमुक्तं भवति। सा उदीरणा चतुर्विधा तद्यथा प्रकृत्युदीरणा स्थित्युदीरणा अनुभागोदीरणा प्रदेशोदीरणा च / एकैकापि द्विधा मूलप्रकृतिविषया उत्तरप्रकृतिविषया च। तत्र मूलप्रकृतिविषया अष्टधा उत्तरप्रकृतिविषया चाष्टपञ्चाशदधिकशतभेदा तदेवमुक्तौ लक्षणभेदौ / सम्प्रति साद्यनादिप्ररूपणा कर्तव्याः / सा च द्विधा मूलप्रकृतिविषया उत्तरप्रकृतिविषया च॥ तत्र प्रथमतो मूलप्रकृतिविषयामाह / / मूलप्पगईसु पंचण्हं, तिहा दोण्हं चउव्विहा होई॥ आउस्स साइअधुना, दसुत्तरसयउत्तरासिं पि।।२२६।। मूलप्रकृतिषु मध्ये पञ्चानां, मूलप्रकृतीनां ज्ञानावरणदर्शनावरणान्तरायाणां यावन्मोहगुणस्थानं यस्य समया-वलिकाशेषो न भवति तावत्सर्वजीवानामुदीरणाऽवश्यं भाविनी नामगोत्रयोस्तु यावत्सयोगिचरमसमयस्तावत् / ततः एषामनादिरुदीरणा ध्रुवा अभव्यानां अधुवा, भव्यानांतुधर्विदनीयमोहनीययोरुदीरणा चतुविर्धा तद्यथा सादिरनादिधुंवाऽध्रुवाच। तत्र वेदनीयस्य प्रमत्तगुणस्थानकंयावत् उदीरणा न परतः / मोहनीयस्य सूक्ष्मसंपरायगुणस्थानकं यावत् न परतः / ततो-ऽप्रमत्तादिगुणस्थानकेभ्यः प्रतिपतितो वेदनीयस्य उपशान्त-मोहगुणस्थानकभ्येःश्व प्रतिपतितमोहनीयस्योदीरणा सादिः तत्स्थानमप्राप्तस्य पुनरनादिः / ध्रुवाध्रुवे पूर्ववत्। आयुषः पुनरुदीरणो सादिरध्रुवा च / तथा ह्यायुषः पर्यन्तावलिकायां नियमादुदीरणान भवन्ति / ततो ऽध्रुवा पुनरपि परभवोत्प-त्तिप्रथमसमये प्रवर्तते ततः सादिरिति तदेवं मूलप्रकृतिषु साद्यनादिप्ररूपणा / सप्रत्युत्तरप्रकृतिषु तांचिकीर्षुराह (दसुत्तरेत्यादि) सादिरध्रुवा चेत्यनुवर्त्यते। उत्तरासामपि उत्तरप्रकृतीनामपि / दशोत्तरशतसंख्यानां पञ्चविधज्ञानावरण दर्शनावरणचतुष्टयमिथ्यात्वतैजससप्तक वर्णादिविंशतिस्थिरास्थिरशुभाशुभगुरुधुनिर्माणान्तराय। पञ्चकरूपाष्टाचत्वारिंशद्व-जानां सर्वशेषप्रकृतीनां मित्यर्थः / उदीरणा द्विधा तद्यथा। सादिरध्रुवा चासाच साद्यध्रुवता अध्रुवोदयत्वादेव सिद्धा। मिच्छत्तस्स चउद्धा, तिहाय आवरण विग्ध चउद्दसगे। थिरसुभ शेयर उवग्धा, यवज्झधुव बंधिनामेय ||227|| मिथात्वस्योदीरणा चतुर्धा / तद्यथा सादिरनादिः ध्रुवा अध्रुवा च तत्र सम्यक्त्वं गतस्य पुनरनादिर्भवति। ततोऽसौ सादिः तत्स्थानमप्राप्तस्य त्वनादिः / अभव्यानां ध्रुवा, भव्यानामध्रुवा / तथा ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकरूपाणां चतुदर्शप्रकृतीनामुदीरणा त्रिःप्रकारा / तद्यथा अनादि ध्रुवा अध्रुवा च / तथा ोतासां प्रकृतीनां ध्रुवोदयत्वेनानादिरुदीरणा / अभव्यानां धुवा / भव्यानां तु क्षीणमोहगुणस्थानके आवलिकाशेषे व्यव-च्छेदे भवा ध्रुवा / तथा स्थिरशुभे सेतरे / अस्थिराशुभसहितयो-स्तयोरुपघातं वर्जयित्वा शेषाणामध्रुवबन्धिनीनां च तैजससप्तकागुरुलघुवर्णादिविंशतिनिर्माणलक्षणानां सर्वसंख्यया त्रयस्त्रिंशत्संख्यानामुदीरणा त्रिधा / तद्यथा अनादिध्रुवा अध्रुवा च / तत्रानादित्वं ध्रुवोदयत्वात् ध्रुवा अभव्यानाम् / अध्रुवा भव्यानां सयोगिकेवलचरमसमये व्यवच्छेदाभावात्। शेषाणां चाध्रुवोदयानां दशोत्तरशतसख्यानामध्रुवोदयत्वात् उदीरणा सादिरध्रुवा च प्रागेवोक्ता। तदेवं कृता साद्यनादिप्ररूपणा। सम्प्रति मूलप्रकृत्युदीरणास्वामिनमाह। घाईणं छउमत्था, उदीरगा रागिणो य मोहस्स। तइया उणप्पमत्ता, जोगंता उत्ति दोण्हं च / / 22 / / घातिप्रकृतीनां ज्ञानावरणीयान्तरायदर्शनावरणीयान्तराय-रूपाणां सर्वेपि छद्मस्था क्षीणमोहपर्यवसाना उदीरकाः मोहनीयस्य तु रागिणः सरागास्सूक्ष्मसंपरायपर्यवसाना उदीरकाः तृतीयवेदनीयस्य आयुषश्व प्रमत्ताः प्रमत्तगुणस्थानकपर्यन्ताः सर्वेप्युदीर-काः / केवलमायुषः पर्यन्तावलिकायां नोदीरका भवन्ति। तथा द्वयोरप्यनामगोत्रयोर्योग्यता सयोगिकेवलपर्यवसानाः सर्वे-प्युदीरकाः / इतिशब्दो भिन्नक्रमो गाथापर्यन्ते योजनीयः / स च मूलप्रकृत्युदीरणापरिसमाप्तिद्योतको वेदितव्यस्तदेवं मूल-प्रकृत्युदीरणास्वाम्युक्तः। साम्प्रतमुत्तरप्रकृत्युदीरणास्वामिनमाह / विग्धा वरण धुवाणं, छउमत्थो जोगिणो उधुवा। उवधायस्स तणुत्था, तणुकिट्टीणं तणुयरागा / / 229 / / विध्न इति अन्तरायं ततोऽन्तरायपञ्चकं ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयरूपाणां चतुर्दशानां ध्रुवोदयप्रकृतीनां सार्थच्छद्मस्था उदीरकाः / तथा (धुवाणंति) नाम ध्रुवोदयानां