________________ आउट्टि 44 अभिधानराजेन्द्रः भाग 2 आउट्टि वत्या द्वाषष्टिभागसत्कानां च सप्तषष्टिभागानां द्वाभ्यां शताभ्यामष्टषष्ट्यधिकाभ्यां चत्वारो४ नक्षत्रपर्यायाः शुद्धाः, स्थितानि पश्चान्मुहूर्ताना सप्तशतानि पञ्चत्रिंशदधिकानि मुहूर्ताना, मुहूर्तगतानां च द्वाषष्टिभागानां द्विपञ्चाशदधिकं शतम् एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशत्सप्तष्टिभागा:- 735 152 46 / तत एतेभ्यो भूयः षभिः शतैः मुहूर्तानामेकोनसप्तत्यधि- कैरेकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्यषट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि विशाखा- पर्यन्तानि नक्षत्राणि शुद्धानि, स्थिता: पश्चात् षट्षष्टिर्मुहूर्ता मुहूर्तगतानां च द्वाषष्टिभागानां सप्तविंशत्यधिकं शतम् एकस्य व द्वाषष्टिभागस्य सप्तचत्वारिंशत्सप्तषष्टिभागाः, चतुर्विशत्यधिकेन च द्वाषष्टिभागशतेन द्वौ मुहूर्तों लब्धौ, तौ 2 मुहूर्तराशौ प्रक्षिप्येते जाता: अष्टषष्टिर्मुहूर्ताः, शेषास्तिष्ठन्ति द्वाषष्टिभागास्त्रय: 68 3 47 / तत: पञ्चचत्वारिंशता मुहूर्तेरनुराधाज्येष्टे शुद्धे, शेषा: स्थितास्त्रयोविंशतिमुहूर्त्ता: 23 3 47 / तत आगतं मूलस्य षट्सु मुहूर्तेष्वेकस्य च मुहूर्तस्याष्टापञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य विंशतौ सप्तषष्टिभागेषु शेषेषु चतुर्थी 4 माघमासभाविन्यावृत्ति: प्रवर्त्तते / सूर्यनक्षत्रयोगविषयं प्रश्रसूत्रं निर्वचनसूत्रं च सुगमम्। इह तावद् माघमासभाविपञ्चम्यावृत्तिविषयं प्रश्नसूत्रमाहता एएसि णं पंचण्हं संवच्छराणं पंचमं हेमंतिं आनुमि चंदे केणं णक्खत्तेणं जोगं जोएति? ता कत्तियाहिं कत्तियाण अट्ठारस मुहुत्ता, छत्तीसं च वावट्ठिभागा, मुहुत्तस्स वावट्ठिभागं च सत्तट्ठिहा छेत्ता छ चुणिया भागा सेसा, तं समयं च णं सुरे केणं णक्खत्तेणं जोगंजोएति? ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं चरिमसमए५।। (सूत्र-७७) 'ता एएसि णमि' त्यादि, सुगम, भगवानाह-'ता कत्तियाहिं' इत्यादि। / 'ता' इति पूर्ववत्, कृत्तिकाभिर्युक्तश्चन्द्र: पञ्चमी 5 हैमन्तीमावृत्ति प्रवर्त्तयति, तदानीं च कृत्तिकानक्षत्रस्याष्टादश 18 मुहूर्ता एकस्य 1 च मुहूर्तस्य षट्त्रिंशद्वाषष्टिभागा एकंच द्वाषष्टिभागसप्तषष्टिधा छित्त्वा तस्य सत्का: षट् 6 चूर्णिकाभागाः शेषाः, तथाहि-पश्चमी 5 माघमासभाविन्यावृत्ति - प्रागुपदर्शितक्रमापेक्षया- दशमी 10, ततस्तस्या: स्थाने दशको 10 ध्रियते, स रूपोन: कार्य इति जातो नवक 9. तेन 9 प्राक्तनो धुवराशि:- 573 36 6 / गुण्यते जातान्येकपञ्चाशच्छतानि सप्तपञ्चाशदधिकानि मुहूर्ताना, मुहूर्तगतानां च द्वाषष्टिभागानं त्रीणि शतानि चतुर्विशत्यधिकानि एकस्य च द्वाषष्टिभागस्य चतुःपञ्चाशत् सप्तषष्टिभागा:- 5157 324 54 / तत एतेभ्य एकोन- पञ्चाशच्छतैमुहूर्त: चतुर्दशाधिकै मुहूर्तगतानां च द्वाषष्टिभागानां चतुश्चत्वारिंशदधिकेन शतेन द्वाषष्टिभागगताना च सप्तषष्टि-भागानां त्रिभिः शतैः षण्णवत्यधिक षल्छ नक्षत्रपर्याया: शुद्धाः, स्थिते पश्चान्मुहूर्तानां द्वे शते त्रिचत्वारिंशदधिके मुहूर्त्तगतानां च द्वाषष्टिभागानां चतु:सप्तत्यधिकं शतमेकस्य च द्वाषष्टिभागस्य षष्टि सप्तषष्टिभागा:- 243 17460 / ततएकोनषष्ट्यधिकेन मुहूर्त्तशतेनएकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीन्युत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुद्धानि, स्थितानि पश्चान्मुहूर्तानां चतुरशीतिः; मुहूर्तगतानां च द्वाषष्टिभागानां शतमेकोनपञ्चाश-दधिकम् एकस्य च द्वाषष्टि- भागस्य एकषष्टिः सप्तषष्टिभागा:-८४ 149 61 / ततो द्वाषष्टिभागानां चतुर्विशत्यधिकेन शतेन द्वौ मुहूतौ लब्धौ पश्चात् स्थिता: पञ्चविंशति: 25 द्वाषष्टिभागाः, लब्धौ च मुहूर्ती मुहूर्तराशौ प्रक्षिप्येते जाता षडशीतिर्मुहूर्तानां ततः पञ्चसप्तत्या मुहूर्तानां रेवत्य-श्विनीभरण्य:शुद्धाः, स्थिता: पश्चादेकादश मुहूर्ताः, शेष तथैव 11 25 ६१तत आगतम्- कृत्तिकानक्षत्रस्याष्टादशसु मुहूर्तेष्वेकस्यच मुहूर्तस्यषत्रिंशति द्वाषष्टिभागेष्वेकस्य चद्वाषष्टिभागस्य षट्सु सप्तषष्टि भागेषु शेषषु पञ्चमी 5 हैमन्ती आवृत्तिः प्रवर्तते, सूर्यनक्षत्रयोगविषये च प्रश्रनिर्वचनसूत्रे सुगमे, तदेवमुक्ता: 10 दशापि नक्षत्रयोंग- मधिकृत्य सूर्यस्याऽऽवृत्तयः / / सम्प्रति चन्द्रस्य वक्तव्याः। तत्र यस्मिन्नेव नक्षत्रे प्रवर्त्तमान: सूर्यो दक्षिणा:, उत्तरा वा आवृत्ती करोति तस्मिन्नेव नक्षत्रे प्रवर्त्तमानश्चन्द्रोऽपि दक्षिणाउत्तरा वा आवृत्तीः कुरुते, ततो या उत्तराभिमुख्य आवृत्तयो युगे चन्द्रस्य दृष्टास्ताः सर्वा अपि नियतमभिजिता नक्षत्रेण सह योगे द्रष्टव्या:, यास्तु दक्षिणाभिमुखा: ता: पुष्येण चन्द्रयोगे, उक्तंच (ज्योतिष्करण्डकेद्वादशे 12 प्राभृते)- "चंदस्स विनायव्वा, आउट्टीओ जुगम्मि जा दिट्ठा / अभिईए पुस्सेण य, निययं नक्खत्तसेसेण'' // 252 / / अत्र- "नक्खत्तसेसेणं' ति-नक्षत्रा-र्द्धमासेन शेष सुगमम् / तत्राभिजित्युत्तराभिमुखा आवृत्तयो भाव्यन्ते, यदि चतुस्त्रिंशदधिकेनायनशतेन चन्द्रस्य सप्तषष्टिनक्षत्रपर्याया लभ्यन्ते ततः प्रथमे अयने किं लभ्यते? राशित्रयस्थापना 134 ६७१।अत्रान्त्येन राशिना- एकक? लक्षणेन मध्यमस्य राशेः सप्तषष्टि६७रूपस्य गुणनं जाता सप्तषष्टिरेव ६७."ऐकेन गुणितंतदेव भवतीति वचनात्, तस्याश्च सप्तषष्टेः 67 चतुस्त्रिंशदधिकेन शतेन 134 भागे हृते लब्धमेकमर्द्ध पर्यायस्य; तस्मिंश्चार्द्ध नव शतानि पञ्चदशोत्तराणि सप्तषष्टिभागानां भवन्ति, तत्र त्रयोविंशतौ सप्तषष्टिभागेषु पुष्यनक्षत्रस्य भुक्तेषु दक्षिणाऽऽयनं चन्द्रः कृतवान्, तत: शेषाश्चतुश्चत्वारिंशत् सप्तषष्टिभागा अनन्तरोदितराशेः शोध्यन्ते, स्थितानि शेषाणि अष्टौ शतान्येकसप्तत्यधिकानि- (871) तेषां सप्तषष्ट्या 67 भागो ह्रियते, इह कानिचित् नक्षत्राण्यर्द्ध क्षेत्राणि तानि च सार्द्धत्रयस्त्रिंशत्सप्तषष्टि-- भागप्रमाणानि, कानिचित् समक्षेत्राणि तानि परिपूर्णसप्तषष्टिभागप्रमाणनि कानिचिच द्वयर्द्धक्षेत्राणि तान्यर्द्धभागाऽधिकशतसंख्यसप्तषष्टिभागप्रमाणानि गात्रं त्वधिकृत्य सप्तषष्ट्या शुद्धयन्ति इति तत: सप्तषष्ट्या भागहरणं लब्धास्त्रयोदश 13 राशिश्ोपरितनो निर्लेपत: शुद्धस्तैश्च त्रयोदशभिः१३ अश्लेषादीनि उत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि तत आगतमभिजितो नक्षत्रस्य प्रथमसमये चन्द्र उत्तरायणं करोति, एवं सर्वाण्यतिचन्द्रस्योत्तरायणानि वेदितव्यानि,उक्तंच-"प