________________ इस्सर 671 अभिधानराजेन्द्रः भाग 2 इस्सर गम्यं नाभेदस्य संज्ञाविशेषस्यानुपग्रहादनभिवेशात्तत्वार्थसिद्धौ नाममात्रक्लेशो हि योगप्रतिपन्थी न तु धर्मवादेन विशेष-विमर्शोपीति भावस्तदिदमुक्तम्। "साधुचैतद्यतो नीत्या, शास्त्रमन्त्रप्रवर्तकम् / तथाभिधानभेदानुभेदः कुचितिकाग्रहः // विपश्चिता न युक्तोयमैदंपर्यप्रियाहिते। यथोक्तास्तत्पुनश्चारु, हन्तात्रापि निरूप्यताम्। उभयोः परिणामित्वं, तथाभ्युपगमाद् ध्रुवम् / अनुग्रहात्प्रवृत्तेश्च, तथाद्धा भेदतः स्थितम्।। आत्मनां तत्स्वभावत्वे, प्रधानस्यापि संस्थिते। ईश्वरस्यापि सन्न्या-याद्विशेषोधिकृतो भवेत्॥ इति॥ अथ विशेषविमर्श शास्त्रतर्कयोर्द्वयोरुपयोगप्रस्थानमाह। अस्थानं रूपमन्धस्य,यथा सन्निश्चयं प्रति। तथैवातीन्द्रियं वस्तु, छद्मस्थस्यापि तत्वतः||२६|| अस्थानमविषयो रूपं नीलकष्णादिलक्षणमन्धस्य लोचनव्यापारविकलस्य यथा सन्निश्चयं विशदालोचनं प्रत्याश्रित्य तथैवोक्तन्यायेनैवातीन्द्रियं वस्त्वात्मादिविशेषरूपं छास्थस्या वाग्दृशः परमार्थतत्वतः परमार्थनीत्या !|25|| हस्तस्पर्शसमंशास्त्र,तत एव कथञ्चन। अत्र तन्निश्चयोपिस्या-त्तथा चन्द्रोपरागवत् ||26|| हस्तस्पर्शसमं तद्वस्तूपलब्धिहेतुहस्तस्पर्शसदृशं शास्त्रमतीन्द्रियार्थगोचरंततएव शास्त्रादेव कथञ्चन केनापि प्रकारेणात्र छास्थे प्रमातरि तन्निश्चयोऽप्यतीन्द्रियवस्तुनिर्णयोऽपि स्यात्तथा वर्द्धमानत्वादिविशेषेण चन्द्रोपरागवचन्द्रराहुस्पर्शवत् / यथा शास्त्रात्सर्वविशेषानिश्चयेऽपि चन्द्रोपरागः केनापि विशेषेण निश्चीयते एव तथान्यदपि अतीन्द्रियं वस्तु तत्तच्छद्मस्थेन निश्चीयत इति भावः // 26 / / इत्थं ह्यस्पष्टता शाब्दे, प्रोक्ता तत्र विचारणम्। माध्यस्थ्यनीतितो युक्तं, व्यासोपि यददो जगौ // 27 / / इत्थमुक्तदृष्टान्तेन हि शाब्दे ज्ञानस्पष्टता प्रोक्ता तत्र स्पष्ट शाब्द ज्ञाने माध्यस्थ्यनीतितो विचारणं युक्तं तर्कस्य प्रमाणा-नुग्राहकत्वात्तेनैवेदंपर्यशुद्धस्तस्याश्च स्पष्टताप्रायत्वात् यद्यस्मा-ददो वक्ष्यमाणं व्यासोऽपि जगौ // 27 // आर्षधर्मोपदेशं च, वेदशास्त्रविरोधिना। यस्तर्केणानुसंधत्ते, स धर्म वेद नेतरः॥२८ शास्त्रादौ चरणं सम्यक्, स्यादादन्यायसंगतम्। ईशस्यानुग्रहस्तस्मा–दृष्टेष्टार्थाविरोधिनः ||29|| यद्दातव्यं जिनः सर्व-दत्तमेव तदेकदा। दर्शनज्ञानचारित्र-मयो मोक्षपथः सताम् / / 30 / / जिनेभ्यो याचमानेभ्यो, लब्धं धर्ममनालयं / तं विडलं विना भाग्य, केन मूल्येन लप्स्यते / / 31 / / अनुष्ठानं ततः स्वामि-गुणरागपुरःसरम्। परमानन्दतः कार्य, मन्यमानैरनुग्रहम् / / 3 / / आर्षमित्यारभ्य स्पष्टम्। द्वा०१६ द्वा०ा योबिं! विशेषस्यापरिज्ञानात्, युक्तीनां जातिवादतः। प्रायो विरोधतश्चैव, फलाभेदाच भावतः।। विशेषस्य मुक्तादिदेवता विशेषगतस्याऽपरिज्ञानाद संवेदना-दगिर्शि प्रत्यक्षेण तथा युक्तीनामनुमानरूपाणांजातिवादतो-ऽसिद्धादिहेतुदोषोपघातेनानुमानाभासत्वात् / प्रायो बाहुल्येन चैवेति पूर्ववत् / तथाहि साङ्ख्यः शैवश्च सर्वक्षणिकवादिनं सौगतं प्रत्याह। तुयथा भवदाराध्यो बुद्धोऽर्थक्रियां देशनादिकां स्वक्षणे पूर्व पश्चाद्वा कुर्यादिति त्रयी गतिः / तत्रनतावदाद्यः पक्षः कक्षीकरणीयः समकालभाविनि व्यापाराभावात्। इतरथैक क्षणवर्तिनां समर्थिक्षणानामितरेतरकार्य करणभाव: प्रसज्यते। न चैतदृष्टमिष्ट वा अथ स्वक्षणात् ऊर्ध्वकायं विधत्ते इति मन्येथाएतदप्यसाधीयो विनष्टस्य कार्यकरणाक्षमत्वात् अन्यथा मृतस्य शिखिनः केकायितं स्यात्। एवं च क्षणिकादर्थाद्वयावर्तमानाऽर्थक्रियावीरादर्शशकुनिन्यायेन नित्यानेव भावनाश्रयतया प्रतिपद्यते इति नित्यरूपोऽत एवानादिशुद्ध ईश्वरनामा आप्तविशेषोऽभ्युपगन्तुंमुधोपचित इति / बौद्धः पुनः आह / ईश्वरोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावी भवद्भिरभ्युपगम्यते / नच नित्यस्यकथंचिदप्यर्थक्रिया युज्यते। नित्यो ह्यर्थक्रमेण यौगपद्येन वार्थाक्रियां कुर्वीत ! न तावक्रमेण सन्निहितसर्वशक्तेः सहकारिभिश्चानाधेयातिशयस्य युगपदेव त्रैकालिकसर्वकार्यकरणप्रसङ्गात् / नापि योगपद्येन यतस्तत्र युगपदेव सर्वकार्यकरणेन कृतस्य पुनः करणाभावेन च द्वितीय-क्षणेऽर्थक्रियाविरहलक्षणं बलादसत्वमाढौकमानं न केनापि निरोद्धं पार्यते इति प्रतिक्षणं परिवर्तमानाऽपरापररूपः सर्वार्थ-क्रियाऽक्षमोऽभ्युपगन्तुंयुक्तोऽसाविति। फलाभेदाच फलस्य भेदक्लेशक्षणस्य गुणप्रकर्षरूपपुरुषाराधनासाध्यस्य क्वचिन्नित्यानित्यत्वादौ विशेषे आराध्यगते सत्यप्यभेदादविशेषात् / भावत् परमार्थतः गुणप्रकर्षविषयस्य बहुमानस्यैव फलदायकत्वात् तस्य सर्वत्र मुक्तादावविशेषादिति। यो. बिं। परतीर्थिकाभिमतेश्वरस्य निराकरणम्। नन्वियं त्रिभुवनभवनान्तर्वर्तमानान्तरितानन्तरितपदार्थ प्रया त्वत्तीर्थनाथवृत्तिर्न भवति यतो भूभूधरप्रभृतिपदार्थ प्रबन्धविधानद्वारा प्रमथपतेरेवेयमुपपद्यते यदेतदनुमानमत्र प्ररूप्यतेन्यायताप्पर्यावबोधप्रधानमनोवृत्तिविद्वद्वन्देन विवादपदभूतं भूभूधरादिबुद्धिमद्विधेयं यतो निमित्ताधीनात्मलाभं यन्निमित्ता-धीनात्मलाभ तद्बुद्धिमद्विधेयं यथा मन्दिरं तथा पुनरेतत्तेन तथा न तावन्निमित्ताधीनात्मलाभत्वं वादिनः प्रतिवादिनो वा प्रतीतं यतो भूभूधरादेरात्मीयात्मीयनिमित्तवातनिर्वर्तनीयता भुवनभाविभवभृत्प्रतीतैव / नापि दोलायमानवेदननिमित्त मतिमन्निवर्तनीयेतराम्बरादि पदार्थतोत्यन्तव्यावृत्तत्वेन / नापि विरुद्धतावरोधदुर्धरमम्बरादितोऽत्यन्तव्यावृत्तत्वेनैव नापि तुरीयव्याप्यामता प्रतिबद्धमिन्द्रियवेदनेनानुमाननाम्रा राद्धान्ताभिधानेन वा माने नाबाधिताभि प्रेतधर्मधर्म्यनन्तरप्रतिपादितत्वेन / नापि प्रत्यनुमानापमानता निबन्धनमेतत्परिपन्थिधर्मोपपादनप्रत्यलानुमानाभावेन। ननु भवतीदं तावदनुमानं परिपन्थिधर्मोपपादनप्रत्यलम्। यथा भूताधिभूभूभूधरादिविधाता न भवति वपुर्वन्ध्यत्वेन निर्वत्थात्मवत्तदनवदातं यतोऽत्र त्रिनेत्ररूपो धर्मी धर्मधनेन प्रतिपन्नोऽप्रतिपन्नो वा प्ररूपितः। न तावद प्रतिपन्नो यदेव-माधारद्वारा प्रतीतत्वोपद्रवो वपुर्बन्ध्यताव्याप्योपनिपाती भवन-निरोढुं न पार्यते। यदि पुनः प्रतिपन्नोंय धर्मी तदा येन मानेनप्रतिपत्तिर्मन्मथप्रत्यर्थिनोऽभिधीयते तेन तत्त्वादि विधानव्युत्पन्नमतेरेवेयमिति तत्रोपादीयमाना वपुर्वन्ध्यता बाधितवमवेति न नाम प्रव