________________ इस्सर 670 अभिधानराजेन्द्रः भाग 2 इस्सर विभ्रमो व्यत्ययज्ञानं रजते रङ्ग बुद्धिवदिष्टसाधनेपि योगः इष्टसाधनत्वं निश्चयः संदेहोयं योगः स्याद्वा नचेत्याकारविषयावेशाबाह्येन्द्रियार्थव्याक्षेपलक्षणादखेदोनुपरमलक्षणः किलाविरतिर्भवेत् 11 (भूम्यलाभइति) कुतोपि हेतोः समाधीनां भुवः स्थानस्याप्राप्तिर्भूम्यलाभः लाभेपि समाधिभूप्राप्तावपि तत्र समाधिभुवि चित्तस्याप्रातिष्ठानिवेशस्त्वनवस्थितिः // 12 / / अमी हि रजस्तमोमयाद्दोषाचेतसोविक्षेपे एकाग्रताविरोधिनः परिणामाः सोपक्रमा अपवर्तनीयकर्मजनिताः सन्तो जपाद्भगवत्प्रणिधानान्नाशं यान्ति परिनिरुपक्रमा शक्तिं हतिंदोषानुबन्धशक्तिभङ्ग मुभयथापि योगप्रतिबन्धसामर्थ्य मेवापगच्छन्तीति भावः / / 13 // अस्माद्भगवज्जपादहियापाररोधेन शब्दादिबहिरर्थग्रहत्यागेनान्तर्योतिः प्रथाज्ञाना दिविशुद्धिविस्तारस्तन्मयं प्रत्यक् चैतन्यमपि हि जायमानं मतं नोस्माकं तथैव भक्तिश्रद्धाद्यतिशयोपपत्तेः // 14 // योगातिशयतश्चाभ्यन्तरपरिणामोत्कर्षाचायं जपः स्तोत्रकोटिगुणः स्मृतश्चिरंतनाचार्यैः वाग्योगापेक्षया मनोयोगस्याधिकत्वादत एव मौनविशेषेणैव जपः प्रशस्यते तथा बुधैर्विशारदैयोगदृष्ट्या योगजप्रातिभज्ञानेन ध्यानस्य विश्रामभूमिका पुनरोरोहस्थानं दृष्टः / / 15 / / ननु यदि यादृश ईश्वरोभ्युपगतस्तादृशस्य भवद्भिरनभ्युपगमात्कथमार्थव्यापारेणापि तदनुग्रहसिद्धिरित्याशङ्कायां विषयविशेषपक्षपातेनैव समाधानाभिप्रायवानाह / / माध्यस्थ्यमवलम्ब्यैव, देवता तिशयस्य च / सेवा सर्व धरिष्टा, कालातीतोऽपि यजगौ // 16 / / माध्यस्थ्यमनिर्णीतविशेषकलहाभिनिवेशाभावलक्षणमवलम्ब्य देवतातिशयस्य च विशिष्टदेवताख्यस्य च सेवा स्तवनध्यानपूजनादिरूपा सर्बुधैरिष्टा तन्निमित्तकफलार्थत्वेनाभिमता स्तवनादिक्रियायाः स्वकर्तृकायाः फलदानसमर्थत्वेपि स्तवनीयाद्यालम्बनत्वे ततस्तस्यास्तोत्रादेः फललाभस्य स्तो तव्यादिनिमित्तकत्वव्यवहाराद्यद्यस्मात्कालातीतोपि शास्त्र-कृद्विशेषो जगौ // 16 // अन्येषामप्ययं मार्गो, मुक्ताविद्यादिवादिनाम् / अभिधानादिभेदेन, तत्त्वनीत्या व्यवस्थितः||१७|| मुक्तो बुद्धोऽर्हन् वापि य-दैश्वर्येण समन्वितः। तदीश्वरः स एव स्या-त्संज्ञाभेदोऽत्र केवलम् // 18 // अन्येषामपि तीर्थान्तरीयाणां किं पुनरस्माकमयमस्मदुक्तो मार्गा देवतादिगोचरो मुक्तादिवादिनामविद्यादिवादिनां च मतेनाभिधानादीनां नामविशेषणादीनां भेदेपि तत्त्वनीत्या-परमार्थत एकविषयतया व्यवस्थितः प्रतिष्ठितः।।१७।। मुक्तः परमब्रह्मवादिनां बुद्धा बौद्धानाम् अर्हन् जैनानां वापीति समुच्चते यद्यस्मादैश्वर्येण ज्ञानाधतिशयलक्षणेन समन्वितो युक्ता वर्तते तत्तस्मादीश्वरोऽस्मदुक्तः स एव मुक्तादिः स्यात् संज्ञाभेदो नामनानात्वमत्र मुक्तादिप्रज्ञापनायां केवलम् / / 18 / / अनादिशुद्ध इत्यादियों भेदो यस्य कल्प्यते / तत्र तन्त्रानुसारेण मन्ये सोऽपि निरर्थकः ||19|| विशेषस्यापरिज्ञाना-द्युक्तानां जातिवादतः। प्रायो विराधतवैव, फलाभेदाच भावतः ||20|| अविद्या क्लेशकर्मादि, यतश्च भवकारणम्। ततः प्रधानमेवैतत्, संज्ञाभेदमुपागतम् / / 2 / / अनादि शुद्ध इत्येवंरूप आदिर्यस्य स तथा / तत्रानादि शुद्धः सर्व गतश्वशैवानांसोर्हन्न सर्वगतश्च जिनानां स एवप्रतिक्षणभड्गुरः सौगताना यः पुनभेदो विशेषो यस्येश्वरस्य कल्प्यते तस्य तस्य तन्त्रस्य दर्शनस्यानुसारेणानुवृत्यामन्ये प्रतिपद्ये सोपि विशेषः किंपुनः प्रागभिहितः संज्ञाभेद इत्यपि शब्दार्थः निरर्थको निष्प्रयोजनः ||19|| विशेषस्य मुक्तादेवताविशेषगत-स्यापरिज्ञानादग्दर्शितप्रत्यक्षेण तथा युक्तानामनुमानरूपाणां जाति वादतोऽसिद्ध्यादि हेतुदोषोपपातेनानुमानाभासत्वात्प्रायो बाहुल्येन विरोधतश्चैव वेदान्तिबौद्धादियुक्तीनामेकेषां हि नित्य एवात्मा प्रपञ्चाधिष्ठातृत्वादपरेषां चार्थक्रियाकारित्वस्य स्वभावभेदनियतत्वेना नित्य एवेति फलस्य क्लेशक्षयलक्षणस्य गुण प्रकर्षविशेषवत्पुरुषाराधनासाध्यस्य वचिन्नित्यानित्यत्वादौ विशेषे आराध्यगते सत्यभेदादविशेषाच भावतः परमार्थतःगुणप्रकर्षविषयस्य बहुमानस्यैव फलदायकत्वात्तस्य सर्वज्ञमुक्तादावविशेषादिति // 20 / / अविद्या वेदान्तिनां, क्लेशः सांख्याना, कर्म जैनानाम्, आदिशब्दाद्वासनासौगतानां पाशः शैवानां यतो यस्माच्चकारो वक्तव्यान्तर सूचनार्थः भवकारणं संसार हेतु-स्ततस्तस्मादविद्यादीनां भवकारणत्वाद्धेतोः प्रधान मेवैतदस्म-दभ्युपगतं भवकारणं सत्संज्ञाभेदं नामनानात्वमुपागतम् // 21 // अत्रापि परपरिकल्पितविशेषनिराकरणायाह। अस्यापि योऽपरो भेद-श्चित्रोपाधिस्तथा तथा। गीयतेऽतीतहेतुभ्यो, धीमतां सोप्यपार्थकः ||22|| अस्यापि प्रधानस्यापि योऽपरो भवकारणत्वात्सर्वाभ्युपग-तादन्यो भेदोविशेषश्चित्रोपाधिनानारूपमूर्तत्वामूर्तत्त्वा- दिलक्षणस्तथा तथा तत्तद्दर्शनभेदेन गीयते वर्ण्यत अतीतहेतुभ्योनन्तरमेव विशेषस्यापरिज्ञानादित्यादिश्लोकोक्तेभ्यो घीमता बुद्धिमता सोपि किंपुनर्देवतागत इत्यपि शब्दार्थः / अपार्थकोऽपगतपरमार्थप्रयोजनः सर्वैरपि भवकारणत्वेन योगापनेयस्यास्यापगमादन्यस्य विशेषस्य सतोऽप्यकिचित्करत्वात् // 22 // ततोऽस्थानप्रयासोयं, यत्तद्भेदनिरूपणम्। सामान्यमनुमानस्य, यतश्च विषयो मतः ||23|| यत एवं ततः सतो विशेषस्यापार्थकत्वाद्धेतोरस्थानप्रयासोय तत्त्वचिन्तकानां यत्तद्भेदस्य देवादिविशेषस्य निरूपणं गेवषणं यतश्चानुमानस्य देवताविशेषादिग्राह कत्वेनाभिमतस्य सामान्य विषयो मतोऽतोपि सर्वविशेषानुगतस्य तस्याप्रतीते-रस्थानप्रायासोऽयम् इत्थं च भवकारणमात्रज्ञानात्तदपनयनार्थं गुणवत्पुरुषविशेषाराधनं कर्तव्यं विशेषविमर्शस्तु निष्प्रयोजन इति कालातीतमतं व्यवस्थितम् / एतस्माचास्माकमपि / विशेषविमर्शाक्षमस्य स्वाग्रहच्छे दाय सामान्ययोग-प्रवृत्यर्थमनुमतम् अन्यस्य तु निरभिनिवेषस्य शास्त्रानुसारेण विशेषविमर्शा पि भगवद्विशिष्टोपासनारूपतया श्रद्धामलक्षालनेन तत्त्वज्ञानगर्भवैराग्यजीवानुभूतत्वाद्विशिष्ट - निर्जराहेतुरिति न सवथा तद्वैफल्यमित्यभिप्रायः // 23 // आस्थितं चैतदाचार्य-स्त्याजये कुचितिकाग्रहे। शास्त्रानुसारिणस्तर्का-नामभेदानुपग्रहात्॥२४|| एतच्च कालातीतमतमाचार्य : श्रीहरिभद्रसूरिभिरास्थितमङ्गी कृतं कुचितिकाग्रहे कौटिल्यावेशे त्याज्ये परिहार्ये कुचितिकात्या गार्थमित्यर्थः / शास्त्रानुसारिणस्तकदिर्थसिद्धा सत्यामिति