________________ इस्सर 669 अमिधानराजेन्द्रः भाग२ अन्यादृशीं चन्यग्भावयन्ति देवादिभवे नारकादिशरीरोपभोगस्मृतिवत्। न चातिव्यवहितयोःस्मृतिसंस्कारयोर्जन्यजनकभावानुपपत्तिर्दूरानुभूतस्याप्यविचलितचित्ते वासनात्मना स्थितस्योद्बोधविशेषसहकारेण स्मृतिविशेष-परिणामे व्यवधानाभावात्तदुक्तम् / जातिदेशकालव्यवहितानामप्यानन्तर्थस्मृतिसंस्कारयोरेकरूपत्वात्ताश्व सुखसाधना वियोगाध्यवसायसङ्कल्पस्य मोहलक्षणस्य बीजस्यानादित्वादादिरहितास्तदुक्तं तासामनादित्वमाशिषो नित्यत्वात् द्वितीयाया अपि चित्तभूमावेवानादिकालं संचिता यथा यथा पाकमुपयान्ति तथा तथा गुणप्रधानभावेन स्थिता जात्यायुर्भोगिलक्षणं कार्यमारभन्त इति / तदेतत्कर्माशयफलं जात्यादिविपाक इति / यद्यपि सर्वेषामात्मनां क्लेशादिस्पर्शो नास्ति तथापि ते चित्तगतास्तेषां व्यपदिश्यन्ते यथा योधगतौ जयपराजयौ स्वामिनः, अस्य तु त्रिष्वपि कालेषु तथाविधोपि क्लेशादिपरामर्शो नास्तीति विलक्षणोयमन्येभ्यः // 1 // ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्य चैव धर्मश्च, सहसद्धिं चतुष्टयम् / / 2 / / सात्विकः परिणामोत्र, काष्ठा प्राप्ततयेष्यते। नाक्षप्रणालिकाप्राप्त, इति सर्वज्ञतास्थितिः / / 3 / / ऋषीणां कापिलादीना-मप्ययं परमो गुरुः / तदिच्छया जगत्सर्व, यथाकर्म विवर्त्तते || ज्ञानादयोह्यत्राप्रतिपक्षाः सहजाश्च शुद्धसत्वस्यानादि संबन्धात् यथा हीतरेषां सुखदुःखमोहतया विपरिणतं चित्तं निर्मले सात्विके धर्मात्मपक्षे प्रतिसंक्रान्तंचिच्छायासंक्रान्तं संवेद्यं भवति नैवमीश्वरस्य किन्तुतस्य केवल एव सत्विकः परिणामो भोग्यतया व्यवस्थित इति / किंच प्रकृतिपुरुषसंयोगवियोगयोरीश्वरेच्छाव्यतिरेकेणानुपपत्तेरनादिज्ञानादिमत्त्वमस्य सिद्धम्॥शा अत्रेश्वरे सात्विकपरिणामः काष्ठाप्राप्ततयाऽत्यन्तोत्कृष्टत्वेनेप्यतेतारतम्यक्तांसातिशयानांधर्माणां परमाणावल्पत्वस्येवाकाशे परममहत्त्वस्येव काष्ठा प्राप्तिदर्शनात् / ज्ञानादीनामपि चित्तधर्माणं तारतम्येन परिदृश्यमानानां क्वचिनिरतिशयत्वे सिद्धेन पुन रक्षप्रमाणालिकयेन्द्रियद्वाराप्राप्तमुपनीतमिति हेतोः सर्वविषयत्वादेतचित्तस्य सर्वज्ञतया स्थितिः प्रसिद्धिस्तदुक्तम् तत्र निरतिशयं सर्वज्ञबीजम् // 3|| अयमीश्वरः कपिलादीनामपि ऋषीणां परम उत्कृष्टो गुरुस्तदुक्तं 'स पूर्वेषामपि गुरुः का-लेनानवच्छेदादिति तस्येश्वरस्येच्छया सर्व जगत् यथाकर्म कर्मानतिक्रम्य विवर्त्तते उच्चावचफलभाग्भवति न च कर्म-गैवान्यथासिद्धिरेककारकेण कारकान्तरानुपक्षयादिति भावः // एतद्दूषयतिनैतधुक्तमनुग्राह्य-तत्स्वभावत्वमन्तरा। नाणुः कदाचिदात्मा स्या-देवतानुग्रहादपि ||5|| उभयोस्तत्स्वभावत्व-भेदे च परिणामिनि। अत्युत्कर्षच धर्माणा-मन्यत्राति प्रसञ्जकः।।६।। एतदीश्वरानुग्रहजन्यत्वं योगस्य न युक्तमनुग्राह्ये तत्स्वभावत्वमनुग्राह्यस्वभावत्वमन्तरा विना यतः देवतायाअनुग्रहादपि अणुतरात्माभवत्वितीच्छालक्षणो कदाचिदपि अणुरात्मा न स्यात् स्वभावापरावृत्ते: 14 / / उभयोरीश्वरात्मनोस्तत्स्वभावभेदे च व्यक्तिकालफलादिभेदेन विचित्रानुग्राह्यानुग्राह्यकस्वभावभाजनत्त्वे च परिणामिता स्यात् स्वभावभेदस्यैव परिणामभेदार्थत्वात्तथाचायं / सिद्धान्तः। ज्ञानादिधर्माणामप्युत्कर्षेणेश्वर सिद्धिरित्यपि च नास्ति यतो धर्माणामप्युत्कर्षः साध्यमानो ज्ञानादाविवान्यत्राज्ञानादावतिप्रसञ्जकोऽनिष्टसिद्धिकृत् अत्युत्कृष्टज्ञानादिमत्तये श्वरस्वेव तादृशाज्ञानादिमत्तया तत्प्रतिपक्षस्यापि सिद्ध्यापत्ते रित्थं च ज्ञानत्वमुत्कर्षापकर्षाऽऽश्रयवृत्ति उत्कर्षापकर्षा श्रपवृत्तित्वान्महत्त्ववदित्यत्र ज्ञानत्वं न तथा चित्तधर्ममात्रवृत्तित्वाद-ज्ञानत्ववदिति प्रतिरोधो द्रष्टव्यः / प्रकृतिपुरुषसंयोगावियोगौ च यदि तात्विको तदात्मनोऽपरिणामित्वं न स्यात् तयोढेिष्ठत्वेन तस्य जन्यधर्मानाश्रयत्वक्षतेः / नो चेत्कयोः कारणमीश्वरेच्छा। किंच प्रयोजनाभावादपि नेश्वरो जगत् कुरुते / न च परमकारुणिकत्वाद्-भूतानुग्रह एवास्यप्रयोजनमिति भोजस्य वचनं साम्प्रतम्। इत्थं हि सर्वस्यायमिष्टमेव संपादयेदित्यधिकं शास्त्रवार्तासमुच्चयविव-रणः। आर्थ व्यापारमाश्रित्य, तदाज्ञापालनात्मकम्। युज्यते परमीशस्या-नुग्रहस्तत्र नीतितः 117 / / एवं च प्रणवेनैत-अपात्प्रत्यूहसंक्षयः। प्रत्यक् चैतन्यलाभश्च-त्युक्तं युक्तं पतञ्जले / / 8 / / प्रत्यूहा व्याधयः स्थानं, प्रमादालस्यविभ्रमाः। संदेहा विरती भूम्य-लाभश्चाप्यनवस्थितिः / / 9 / / धातुवैषम्यजो व्याधि-स्थानं चाकर्मनिष्ठता। प्रमादो यत्न आलस्य मौदासीन्यं च हेतुषु / / 10 / / आर्थं ततः सामर्थ्यप्राप्तं न तु प्रसह्य तेनै व कृतं तदाज्ञापालना-त्मकं व्यापारमाश्रित्य परं के वलं तत्र नीतितोऽस्मत्सिद्धान्तनीत्या ईशस्यानुग्रहो युज्यते तदुक्तम्। आर्थं व्यापारमाश्रित्य तत्र दोषोपि विद्यत इति // 7 // एवं चार्थव्यापारेणोशानुग्रहादरेचप्रण-वेनोंकारेणैतस्येश्वरस्य जपात्प्रत्यूहानां विध्नानां संक्षयः विषयप्रातिकूल्ये नान्तः करणाभिमुखमञ्चति यत्तत्प्रत्यक् चैतन्यं ज्ञानं तस्य लाभश्चेति पतञ्जलेरुक्तं युक्तं तस्य वाचकः प्रण-वस्तजपस्तदर्थभावनं ततः प्रत्यक्चैतन्याधिगमोन्तरायाभावा-श्चेति सूत्रप्रसिद्धेर्गुणविशेषवतः पुरुषस्य प्रणिधानस्य महाफलत्वात्॥व्याधिस्थानसंशयप्रमादालस्याविरतिभ्रान्ति-दर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेन्तराया इति / / 9 / / धातुवैषम्यजो धातूद्रेकादिजनितो व्य धिवरातीसारादिः स्थानं चाकर्मनिष्ठतादित एव कर्मप्रारम्भः प्रमादो यत्नः आरब्धेऽप्यनुत्थानशीलता आलस्यं च हेतुषु समाधिसाधनेष्यौदासीन्य माध्यस्थ्यं न तु पक्षपातः // 10 // विभ्रमो व्यत्ययज्ञानं, संदेहः स्यान्नवेत्ययम्। अखेदो विषयावेशा-द्भवेदविरतिः किल।।११ भुम्यलाभः समाधीनां, भुवःप्राप्तिः कथंचन / लामेपि तत्र चित्तस्या-प्रतिष्ठात्वनवस्थितिः॥१२|| रजस्तमोमयाद्दोषा-द्विक्षेपाचेतसो ह्यमी। सोपक्रमाजपपान्नाशं,यन्ति शक्तिं हर्ति परे||१३|| प्रत्यक चैतन्यमप्यस्मादन्तज्योतिःप्रथामयम्। बहिर्व्यापाररोधेन, जायमानं मतं हि नः॥१४॥ योगातिशयतचायं, स्तोत्रकोटिगुणः स्मृतम्। योगदृष्ट्या बुधैर्दष्टो, ध्यानविश्रामभूमिका ||15||