________________ इस्सर 668 अभिधानराजेन्द्रः भाग 2 इस्सर पार्थिवशरीरस्याहारपरमाणुसहकृतस्य प्रत्यहमपूर्वापूर्वोत्पादेन स्वभावभेदादनित्यत्वम् / इष्टश्च भावानां सृष्टिसंहारयोः शम्भौ स्वभावभेदः / रजोगुणात्मकतया सृष्टौ, तमोगुणात्मकतया संहरणे, सात्विकतया च स्थिती, तस्य व्यापारस्वीकारात् एवं चावस्थाभेदस्तद्भेदे चावस्थावतोऽपि भेदान्नित्यत्वक्षतिः / अथास्तु नित्यस्तथापि स कथं सततमेव सृष्टौ न चेष्टते / इच्छावशाच्चेन्ननु ता अपीच्छाः स्वसत्तामात्रनिबन्धनात्मलाभाः सदैव किं न प्रवर्तयतीति स एवोपालम्भः / तथा शम्भोरष्टगुणाधिकरणत्वे कार्यभेदाऽनुमेयानां तदिच्छानामपि विषमरूपत्वान्नित्यत्वहानिः केन निवार्यते इति / किंच प्रेक्षावतां प्रवृत्तिः स्वार्थकारुण्याभ्यां व्याप्ता ततश्चायां जगत्सर्गेव्याप्रियते स्वात्किारुण्याद्वा न तावत्स्वार्थात्तस्य कृतकृत्यत्वात् / न च कारुण्यात्पर दुःखप्रहाणेच्छा हि कारुण्यं ततः प्राक् सज्जिीवानामिन्द्रियशरीरविषयानुत्पत्तौ दुःखाभावेन कस्य प्रहाणेच्छाकारुण्यम् / सर्गोत्तरकाले तु दुःखिनोऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरेतराश्रयम् / कारुण्येन सृष्टिः सृष्ट्या च कारुण्यमिति / नास्य जगत्कर्तृत्वं कथमपि सिध्यति तदेवमेवंविधदोषकलुषिते पुरुषविशेषे यस्तेषां सेवाहेवाकः स खलु केवलं बलवन्मोह विडम्बनापरिपाक इति। अत्र च यद्यपि मध्यवर्तिनो नकारस्य घण्टालोलान्यायेन योजनादर्थान्तरमपि स्फुरति यथा 'इमाः कुहेवाकविडम्बनास्तेषां न स्युर्येषां त्वमनुशासक इति' तथापि सोऽर्थः सहृदयैर्न हृदये धारणीयोऽन्ययोगव्यवच्छेदस्याधि-कृतत्वादिति काव्यार्थः। स्था०६श्लोका ईश्वरस्य जगदकर्तृव्यं यथा। उवगरणाभावाउ मिचेट्ठामुत्तयाइ उवावि। ईसरदेहारंभे वितुल्लया वा णवत्था वा / / नायमीश्वरःजीवादिरकशिरीरादिकार्याण्यारभते उपकरणाभावाद्दण्डाद्युपकरणरहितकुलालवत् / न च कर्म विना शरीराद्यारम्भिजीवादी नामन्यदुपकरणं घटते / गर्भाद्यवस्थास्वन्योपकरणासंभवाच्छु क्र शोणितादिग्रहणस्याप्यकर्मणोऽनुपपत्तेः / अथवा ऽन्यथा प्रयोगः क्रियते निश्चेष्टेत्यादिना कर्मशरीरा-द्यारभते निश्चेष्टत्वादाकाशवत्तथा ऽमूर्तत्वादादिशब्दादशरीर-त्वान्निष्क्रियत्वात्सर्वगतत्वादाकाशवदेव तथा एकत्वादेकपरमाणु व दित्यादि। अत्रोच्यते शरीरवानीश्वरः सर्वाण्यपि देहादिकार्याण्यारभते। नन्वीश्वरदेहारम्भोपि तर्हि तुल्यता पर्यनुयोगस्य तथाह्यकर्मा नारभते निजशरीरमीश्वरो निरुप-करणत्वाद्दण्डादिरहितकुलालवदिति / अथान्यः कोपीश्वरस्तच्छरीराम्भाय प्रवर्तते ततः सोपि शरीरवानशरीरो वा यद्यशरीरस्तर्हि नारभते निरुपकरणत्वादित्यादि सैव वक्तव्यता अथशरीरवान् तर्हि तच्छरीराम्भेपि तुल्यता सोप्यका निजशरीरं नारभते निरुपकरणत्वादित्यादि। अथ तच्छरीरमन्यः शरीर-वांस्तर्हि तच्छरीराम्भेपि तुल्यता नारभते ऽतस्तस्याप्यन्त इत्येवमनवस्था / अनिष्टं च सर्वमेतत्तस्मान्नेश्वरो देहादीनां कर्ता किंतु कर्म सद्वितीयो जीव एव निष्प्रयोजनश्चेश्वरो देहादीन् कुर्वन्नुन्मत्तकल्प एव स्यात् / सप्रयोजनकर्तृत्वे पुनरनीश्वरप्रसङ्गः / न चानादिशुद्धस्य देहादिकारणेच्छा युज्यते तस्याराग-विकल्परूपत्वात्। विशे। तथाच 'इणमन्नं तु अन्नणं, इहमेगेसि-आहियं / ईसरेण कडेलोए' इत्युपक्रग्य 'असोत्तत्तमकासीयं अयाणंतामुसंवहे' इत्युपसंजहार। सूत्र०१ श्रु.१ अ "ईश्वरकर्तृके सुखदुःखे अपि न भवतः यथासावीश्वरो मूर्तोऽ-मूर्तो वा / यदि मूर्तस्ततः प्राकृतपुरूषस्येव सर्वकर्तृत्वाभावः / अथाऽमूर्तस्तथा सत्याकाशस्येव सुतरां निष्कियत्वम् / अपिच यद्यसौ रागादिमात्रस्ततोऽस्मदाद्यव्यतिरेकाद्विश्वस्याकर्तव। यथासौ विगतरागस्तत स्तत्कृतं सुभगदुर्भगेश्वरदरिद्रादि जगद्वैचित्र्यम् न घटां प्राञ्चति ततो नेश्वरः कर्तेति। सूत्रों यथा कथंचिदीश्वरस्य कर्तृत्वं सूत्रकृताले प्रतिपादितम्। तथेश्वरोपि कर्ता आत्मैवहि तत्र तत्रोत्पत्तिद्वारेण सकलजगद्व्यापनादीश्वरः / तस्य सुखदुःखोत्पत्तिकर्तृत्वं सर्ववादिनामविगानेन सिद्धमेव। यचात्र मूर्तादिदूषणमुपन्यस्तं तदेवंभूतेश्वरसमाश्रयेण दूरोच्छेदितमेवेति।सूत्र.१ श्रु० अ०२ ऊा ऐश्वर्येण ज्ञानाद्यतिशयलक्षणेन युक्त ईश्वरः परमब्रह्मवादीनां मुक्ते-बौद्धानाम्बुद्धे अर्हतां जिने च। द्रा०१६ द्वा. यो. वि। तेषामीश्वरत्वं यथामहेशानुग्रहात्केचि-द्योगसिद्धिं प्रचक्षते। क्लेशाद्यैरपरामृष्टः पुंविशेषः स चेष्यते / / के चित्पातञ्जला महेशानुग्रहात् योगस्योक्तलक्षणस्य सिद्धिमयोगक्षेमलक्षणां प्रचक्षते प्रकथयन्ति सच महेशः पुंविशेषः पुरुषविशेषः इष्यते। कीदृश इत्याह क्लेशाद्यैः क्लेशकर्मविपाकाशयैरपरामृष्टोऽस्पृष्टस्त्रिष्वपि कालेषु तथाच सूत्रं "क्लेश-कर्मविपाकाशयैरपरामृष्टः पुरुषविशेष इष्यते। कीदृश इत्याहई-श्वर इति अत्र क्लेशा अविद्यास्मिता रागद्वेषाभिनिवेशा वक्ष्य-माणलक्षणाः क्लेशमूलाः कर्माशयो दृष्टादृष्टजन्मवेदनीयः अस्मिन्नेव जन्मन्यनुभवनीयो दृष्टजन्मवेदनीयो जन्मान्तरानु-भवनीयोऽदृष्टजन्मवेदनीयस्तीव्रसंवेगेन हि कृतानि पुण्यानि देवताराधनादीनि कर्माणि इहैव जन्मनि फलं जात्यायुर्भोगलक्षणं प्रयच्छन्ति / यथा नन्दीश्वरस्य भगवन्महेश्वराराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूता न चैतदनुपपत्तिः स दनुष्ठानेन प्रतिबन्धकापनयने केदारान्तरेजलापूरणवत्पाश्चा-त्यप्रकृत्या-पूरणेनैव सिद्धिविशेषोपपत्तेस्तदुक्तम्। "जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः सिद्धिश्चोत्कर्षविशेषः कायकारणस्य जात्यन्तरपरिणामः प्रकृत्या पूरान्निमित्तप्रयोजकं प्रकृतीनां चरणभेदस्तु ततः क्षेत्रिकवदिति / सति मूले तद्विपाको जा-त्यायुर्भोगः सति मूले क्लेशरूपबीजे तेषां कुशलाकुशलं कर्मणां विपाकः फलं जात्यायुर्भोगा भवन्ति जातिमनुष्यादिरायुश्विरकाले शरीरसंबन्धो भोगा विषयाः इन्द्रियाणि सुखदुःखसंविच कर्मकरणभावसाधनव्युत्पत्त्या भोगशब्दस्य, इदमत्र तात्पर्यम्। चित्तंहि द्विविधं साशयमनाशयं च। तत्र योगिनामनाशयं तदाह / ध्यानजननाशयम् अत एव तेषाम-शुक्लाकृष्णं कर्म तदाह कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषां शुभफलदं कर्मयागादिशुक्लम् अशुभफलदं ब्राहत्यादिकृष्णम् उभयसंकीर्ण शुक्लकृष्णम्। तत्र शुक्ल दानतपःस्वाध्यायादिमतां पुरुषाणां कृष्णं नारकिणां, शुक्लकृष्ण मनुष्याणां योगिनां तु विलक्षणमिति साशयंचित्तमयोगिनाम् तत्र फलत्यागानुसंधानाभावात्फलजनकं कर्माशयस्ततस्तद्विपाकानुगुणाना-मेवाभिव्यक्तिर्वासनानां द्विविधा हि कर्मवासनाः स्मृतिमात्रफलाजा त्यायुर्भोगफलाश्च तत्राद्या येन कर्मणा यादृक् शरीरमारब्धं देवमानुषतिर्यगादिभेदेनजात्यन्तरशतव्यवधानेनपुनस्तथाविधस्यैव शरीरस्यारम्भे तदनुरूपामेव स्मृतिं जनयन्ति,