SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ इरियासमिइ 659 अभिधानराजेन्द्रः भाग 2 इरियासमिइ योजना सर्वत्र कार्या / आव०४ अ। इच्छामि पडिक्कमितु तिपुव्वभणितं एस संखेवत्थो इरियावहियाए" विस्तरस्तुगमणेत्यादि। आ.चू०४ अ०। ननु द्वयोः श्राद्धयोः प्रतिक्रमणकरणसमयेऽथवा सामायिके कृते सति एकस्य हस्तादपरेण चरवलके पातिते उभयोर्मध्ये कस्येर्यापथिकी समायाति किमुभावपि प्रतिक्रामतः एको वेति / (उत्तरम्) अत्र द्वयोः श्राद्धयोः प्रतिक्रमणकरणादौ सावधान-तयैकेन चरवलको गृहितो भवति अथ यदि द्वितीयहस्तलगनेन हेतुना पतति तदा तस्येपिथिकी समायाति यदि च गृहीतो प्यसावधानतयेव तदोभयोरपीपिथिकी समायातीति ||1|| तथा यः शुद्धक्रियां कुर्वाणः शुद्धाचारं च पालयन् ईर्यापथिकी मागतां न जानाति सकियद्भिर्मुहूर्तस्ता प्रतिक्रामतीति (उत्तरम् ) अत्र शुद्धक्रियायां क्रियमाणायां सोपयोगतया प्रमार्जनादिविधि-नोपवेशनादिषु ईर्यापथिकी नायाति यतस्तामाश्रित्य कालमानमुक्तं ज्ञातं नास्ति तथापि क्रियान्तरे क्रियमाणे ईर्यापथिकी प्रतिक्राम्यते यतो महत्थां वेलायां मनोवचः कायोपयोगानां सम्यगवबोधो न भवतीति॥२॥ ईर्ष्या गमनं तस्याः पन्था मार्ग ई-पथ स्तत्र भवा या समितिः ई-समितिलक्षणा सा ऐपिथिकी। समितिभेदे, स्था०६ ठा (तद्वक्तव्यता इरियासमिइ शब्दे / ऐपिथि-क्यापरिमन्थुः कप्प शब्दे / उच्चारादौ ईर्याप्रतिक्रान्तव्या इति पडिकमण शब्दे) इरियासमिइ-स्त्री०(ईयासमिति) सम्यगितिः प्रवृत्तिः समितिः ईर्यायां गमने, समितिश्चक्षुयापारपूर्वतयेती-समितिः समिति-भेदे / स्था०८ ठा०। आव०। पा० सम०। प्रवः। तत्स्वरूपं धर्मसंग्रहे यथात्रसस्थावरजन्तुजाताभयदानदीक्षितस्य मुनेरावश्यके प्रयोजने गच्छतो जन्तुरक्षानिमित्तं स्वशरीररक्षानिमित्तं च पादाग्रादारभ्य युगमात्रक्षेत्र यावन्निरीक्ष्य ईरणं ईर्या गतिस्तस्यां समितिरीर्यासमितिर्यदाहुः "पुरओ जुगमायाए, पेहमाणो महिं चरे। वजंतो वीअहरिआई, पाणे अदगमट्टि ||1|| उवायं विसमं खाणु, विजलं परिवज्जए / संकमेण न गच्छेजा, विजमाणे परक्कमे"२एवंविधोपयोगेनगच्छतो यतेः कथंचित्प्राणिवधोऽपि प्राणिवधपापं न भवति यदाह "उचालिअम्मि पाए, इरिआस-मिअस्स संकमट्ठाए / वा वञ्जिकुलिंगी मारेज्ज तज्जोगपासज्ज |1|| नय तस्स तत्तिमित्तो, वंसुद्दमो विदेसिओ समए / यजोउवओगे, सव्वभावेण सो जम्हा 2 तथा "जिअदुवमरदुवजीवो, अजदारस्स निच्छओ हिंसा। पयदस्सणत्थिबंधो, हिंसा मित्तेण समिदस्स" | ध०३ अधिo! प्रका जीवसंरक्खण जुगमेत्तंतरदिट्ठस्स अप्पमादिणो संजमो व करणुप्पायणाणिमित्तं जा गमणकिरिया सा इरियास-मिती। निचू.१ उा ईर्ष्यासमिति म रथशकटयानं वाहनाक्रान्तेषु सूर्यरश्मिप्रताषितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्त्तव्यमिति। आव०४ अा ईसिमितेर्विस्तरेण स्वरूपमाह। आलंबणेण काले, मग्गेण जयणाए य। चउकारणपरिसुद्धं, संजए इरियं रिए। आलम्बनेन कालेन मार्गेण यतनया च चतुः कारणै रेभिरेव आलम्बनादिभिः परिशुद्धा निर्दोषा चतुः कारणपरिशुद्धा तां संयतो यतिरीगिति (रिएत्ति) रीयेतानुष्ठानंविषयतया प्राप्नुयात् यद्वा सुब्व्यत्ययाचतुः कारणपरिशुद्ध्या ईारीयेत गच्छेत् आलम्बनादीन्येव व्याख्यातुमाहा तत्थालंबणं णाण-दसणं चरणं तहा। काले य दिवसे वुत्ते, मग्गाउप्पहविवज्जए।। वजए तत्र तेष्वालम्बनादिषु मध्ये आलम्बनं यदालम्ब्य गमनमनुज्ञायते निरालम्बनस्य हिनानुज्ञातमेव गमनं ततः किमित्याह-ज्ञानं सूत्रार्थोभयात्मकागमरूपं दर्शनं दर्शनप्रयोजनं चरणं चारित्रं तथा शब्दोऽनुक्तसमुच्चयार्थत्वेन द्वित्वादि-भङ्गसूचकस्ततोयमर्थः प्रत्येक ज्ञानादीन्याश्रित्य द्विकादिसंयोगेन वा गमनमनुज्ञातमालम्बनेति व्याचष्टे कालश्च प्रस्तावादीर्यया दिवस उक्तस्तीर्थकृदादिभिरिति गम्यते रात्री ह्यचक्षुर्विषयत्वेन पुष्टतरालम्बनं विना नानुज्ञातमेवं गमनं मार्गेणेति द्वार व्याख्यातुमाह मार्ग इह सामान्येन पन्थाः स उत्पथेनोन्मार्गेण वर्जितो रहितः उत्पथवर्जितः उक्तसबन्धः उत्पथेहि व्रजत आत्मसंयमविराधनादयो दोषाः। यतनेति द्वारंवुवूर्षुराह। दव्वओ खेत्तओ चेव, कालओ भावओ तहा। जयणा चउव्विहा वुत्ता, तं मेवि तयओ सुण। (दव्वओ इत्यादि) सुगममेव नवरं तामिति चतुर्विधयतनां मे कीर्तयतः सम्यक् प्ररूपाभिधानद्वारेण संशब्दयतः शृण्वा कर्णय शिष्येति गम्यते। यथा प्रतिज्ञातमेवाहदवओ चक्खुणा पेहे, जुगमेत्तं च खेत्तओ। कालओ जावरीएज्जा, उवउत्ते व भावओ। द्रव्यत इति जीवादिक द्रव्यमाश्रित्येयं यतना यचक्षुषा दृष्टया प्रेक्षतावलोकयेत्प्रक्रमात् जीवादिकं द्रव्यमवलोक्यं च संयमात्मविराधना परिहारेण गच्छेदितिभावो युगमात्रं च चतुर्हस्तप्रमाणं प्रस्तावात्क्षेत्रं प्रेक्षेत इयं क्षेत्रतो यतना कालतो यतना यावत् (रीएजत्ति) रीयते यावन्तं कालं पर्यटति तावत् कालमिति गम्यते उपउक्तश्च भावतो दत्तावधानो यद्रीयते इयं भावमङ्गीकृत्य यतना। उपयुक्तत्वमेव स्पष्टयितुमाह / इंदियत्थे विवज्जत्ता, सज्झायं च पंचहा। तस्सुत्ती तप्पुरकारे, उवउत्तो रियं रए। इन्द्रियार्थान् शब्दादीन् विवयं तदनाध्यवसानतः परिहृत्य स्वाध्यायं चैव चः समुचये एवकारोऽपि शब्दार्थस्ततो यमर्थान् केवलमिन्द्रियार्थान् विवयं किंतु स्वाध्यायं चापि पञ्चधेति वाचनादिभेदतः पञ्चप्रकार गत्युपयोगापधातित्वात्ततश्च तस्यामेव ईर्यायां मूर्तिः शरीरमर्थाद् व्याप्रियमाणा यस्याऽसौ तन्मूर्तिस्तथा तामेव पुरष्करोति तत्रैवोपयुक्ततया प्राधान्ये नाङ्गीकुरुते इति तत्पुरस्कारोऽनेन कायमनसोस्तत्परतोक्ता वचसो हि तत्र व्यापार एवन समस्ति एवमुपयुक्तः सन्नीर्या रीयेत यतिरिति शेषः / सर्वत्र च संयमात्मविराधनैव विपक्षे दोष इति सूत्रपञ्चकार्थः। उत्त०४ अ० ईसिमिती उदाहरणं यथा-एको साहू समणगुणभाविओ इरियासमिइए जुत्तो विहरइ। एत्थंतरे सक्कआसणं चलियं / पउत्तावही साहु दट्टुं परमभत्तीए वंदइ पसंसइ य देवसभामज्झगओ तओ मिच्छदिट्ठी एगो देवो असद्दहतो समागओ साहुस्स, वियारभूमि पइट्ठियस्स पुरओ मच्छियप्पमाणाओ मंदुक्कलियाओ विउव्वइ / पच्छओ य मत्तहत्थि तहा वि गई न भिंदइ / तओ हस्थिणा उक्खिविऊण भूमिए पाडियो न यसो भयं च न य सरीर गणेइ। किंतु सत्ता मे मारियत्ति। जीवदयापरिणओ अत्थइ। स देवोवि अचलियं तं साहुं पेहत्त इंदव्युत्तं तं निवेयत्ता देवलोगं गओत्ति" पा। "अहवाअर
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy