________________ इरियावहिया 658 अभिधानराजेन्द्रः भाग 2 इरियावहिया चेव तेरसकिरियाहाणाई भासिंसु वा भासें ति वा भासिस्संति वा पन्नविंसु वा पन्नविंति वा पन्नविंस्संति वा एवं चेव तेरसमं किरियाहाणं सेविंसु वा सेविंति वा सेविस्संति वा ||23|| इह जगति प्रवचने संयमे वा वर्तमानस्य। खलु शब्दोऽवधारणेऽलंकारे वा। आत्मनो भावः आत्मत्वं तदर्थमात्मत्वार्थं संवृतस्य मनोवाक्कायैः परमार्थत एवंभूतस्यैवात्म भावोऽपरस्य त्वसंवृतस्यात्मतत्वमेव नास्ति सद्भूतात्मकार्यकारणात् / तदेवमात्मार्थ संवृतस्यानगारस्ये-- पथिकादिभिः पञ्चमिः समितिभिर्मनोवाकायैः समितस्य तथा तिसृभिगुप्तस्य पुनर्गुप्तिग्रहणमेताभिरेव गुप्तिभिर्गुप्तो भवतीत्यस्यार्थस्याविर्भावनायात्यादरख्यापनार्थ वेति तथा गुप्तेन्द्रियस्य नवब्रह्मचर्यगुप्त्यु पेतब्रह्मचारिणश्च सतस्तथोपयुक्तं गच्छतस्तिष्ठतो निषीदतो मुनेस्त्वग्वर्तनां कुर्वाणस्य तथोपयुक्तमेव वस्त्र पतद् गृहं कम्बलं वा पादपुञ्छनकं वा गृह्णतो निक्षिपतो वा यावच्चक्षुः पक्ष्मनिपातमप्युपयुक्तं कुर्वतः सतोऽत्यन्तमुपयुक्तस्याप्यस्तिविद्यते। विविधामात्रविमात्रा तदेवं विधा सूक्ष्माक्षिपक्ष्भसंच-लनरूपादिके पिथिका नाम क्रिया केवलिनापि क्रियते। तथाहि सयोगिजीवोनशक्रोतिक्षणमप्येकं निश्चलः स्थातुमग्निना ताप्यमानोदकवत्कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते। यथाचोक्तं "केवलीणं भंते ! अस्सि समयंसि जेसु आगासपएसेसु' इत्यादि तदेवं केवलिनोपि सूक्ष्मगात्रसंचारा भवन्तीह च कारणे कार्योपचारात्तया क्रियया यवध्यते कर्म तस्य कर्मणो या अवस्थास्ताः क्रियाः ता एव दर्शयितुमाह। (सापढमसमये इत्यादि) या सावकाषायिणः क्रिया तथा यद्वध्यते कर्म तत्प्रथमसयम एव बद्धं स्पृष्टं चेति कृत्वा तक्रियैव बद्धस्पृष्टत्युक्ता तथा द्वितीयसमये वेदितेत्यनुभूता तृतीयसमयेऽतिजीर्णा 1 एतदुक्तं भवति / कर्मयोगनिमित्तं बध्यते तस्थितिश्च कषायायत्ता तदभावाच न तस्य सांपरायिकस्येव स्थितिः किंतु योगसद्भावाद्वध्यमानमेव स्पृष्टतां संश्लेषं याति / द्वितीयसमये त्वनुभूयते तच्च प्रकृतितः सातावनीय स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावनुत्तरोपपातिकदेवसुखातिशायि देशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययं च। तदेवं सेर्यापथिका क्रिया। प्रथमसमये बद्धस्पृष्टा द्वितीयसमये उदिता वेदिताऽतिजीर्णा भवति (सेयंकालेत्ति) आगामिनि तृतीयसमये तत्कर्मापेक्षया कर्मतापि च भवति / एवं तावद्वीतरागस्येप्रत्ययिकं कर्माधीयते संबध्यते / तदेतत्रयोदशं क्रियास्थानं व्याख्यातम्। ये पुनस्तेभ्योऽन्ये प्राणिनस्तेषां सांपरायिको बन्धस्ते तु यानि प्रागुक्तानीर्याफ्थवानि द्वादश क्रियास्थानानि तेषु वर्त्तन्तेतेषांतद्वर्तिनामसुमतां मिथ्यात्वाविरतिप्रमादकषाययोगनिमित्तः सांपरायिको बन्धो भवति / तत्र च प्रमादस्तत्र कषायायोगाश्च नियमाद्भवन्ति। कषायिणश्च योगा योगिनस्त्येते भाज्याः। तत्र प्रमादकषायप्रत्ययिको बन्धोऽनेक प्रकारा स्थितिः / तद्रहितस्तु केवलयोगप्रत्ययिको द्विसमयस्थितिरेवेर्याप्रत्ययिक इति स्थि-तम् / / सूत्र०२ श्रु०२ अ. भ.। आवा आ.चू। (चतुर्विशतिदण्ड-केऽस्या वक्तव्यता किरिय शब्दे) ऐापथिक्याः प्रति-क्रमणावश्यकता यथा ईर्यापथ प्रथमप्रतिक्रमणं कृत्वा न किंचिदन्यत् कुर्यात्तदशुद्धतापत्तेरिति / दश चूलि। तथा च महानिशीथेगोयमा णं अप्पडिताए इरियावहियाए न कप्पइ चेव काउं | किंचि चिइवंदणा झायाइयं फलासायममिकंखुगाणं एएणं अटेणं गोयमा ! एवं वुचइ जहाणं गोयमा ! समुत्तत्थोभ-यपंचमंगला थिरपरिचयं काऊणं तओइरियावहियं अब्भीए से भयवं कय एए विहिए तमिरियावहीए महीए गोयमा ! जहा णं पंचमंगलमहसुयं खंधे से भयवमिरियावहियमहिज्झित्ताणं / महा.१ अ. एतस्याः प्रतिक्रमणं स्वरूपञ्च यथाइच्छामि पडिक्कमिउंइरियावहियाए। विराहणाएगमणागमणे / पाणकमणे बीयकमणे हरियकमणे / ओसा-उत्तिंगपणगदगमट्टीमकडासंताणासंकमणे जेमे जीवा विराहिया एगिंदिया बेइंदिया तेइंदिया चउरिंदिया पंचेंदिया अभिहया वत्तिया लेसिया / संघाइया संघट्टिया परियाविया किलामिया उद्दविया ठाणओठाणं संकामिया जीवियाओ ववरोविया तस्स मिच्छामि दुक्कम। इच्छाम्यभिलषामि प्रतिक्रमितुं निवर्तयितुमीर्यापथिकायां विराधनायां योऽतिचार इति गम्यते। तस्येति योगः अनेन क्रियाकालमाह 'मिच्छामि दुक्कडंति' अनेन तुनिष्ठाकालमिति तोरणमी-गमनमित्यर्थः तत्प्रधानः पन्था ईर्यापथः तत्र भवा ईर्यापथिका तथा किंविशिष्टायामित्यत इति आह। विराध्यन्तेदुखंस्थाप्यन्तेप्राणिनोऽनयेति विराधना क्रिया तस्यां विराधनायां तस्या योऽतिचार इति वाक्यशेषस्तस्येति योगः विषयमुपदर्शयन्नाह गमनं चागमनं चेत्येकवद्भावस्तस्मिस्तत्र गमनं स्वाध्यायादिनिमित्तं वसतिरिति आगमन प्रयोजनपरिसमाप्ती पुनर्वसतिमेवेति तत्रापि यः कथं जातोतिचार इत्यत आह। 'पाणक्कमणे, प्राणिनो द्वीन्द्रियादयस्त्रयो गृह्यन्ते तेषामाक्रमणं पादेन क्रीडनं प्राण्याक्रमणं तस्मिन्निति तथा वीजाक्रमणे अनेन बीजानां जीवत्वमाहहरिताक्रमणे अनेन तु सकलवनस्पतिरेव तथा अवश्यायोतिङ्गपनक दगमृत्तिकामर्कट संतानसंक्रमणे सति तत्रावश्यायोजलविशेषः इह चावश्यायग्रहणमिति स यतः शेषजल संभोगपरिहरणार्थ मित्येवमन्यत्रापि भावनीयम् उत्तिंगा गई-भाकृतयो ये जीवाः कीटिका नगराणि वा पनक इल्लिदगमृत्तिका विखल्लः अथवा दगग्रहणादप्कायः मृत्तिकाग्रहणात्पृथिवीकायः मर्कट संतान कोलिकाजालमुच्यते ततश्चावश्या-यश्वोत्तिङ्गा श्चेत्यादिद्वन्द्वः अवश्यायोत्तिङ्गपनक दगमृत्तिकामर्कट-संतानास्तेषां संक्रमणमाक्र मणं तस्मिन्किंबहुना कियन्तो भेदेनाख्यास्यन्ते सर्वे ये मया जीवा विराधिता दुःखेन स्थापिताः एकेन्द्रियाः पृथिव्यादयःद्वीन्द्रियाः कृम्यादयः त्रीन्द्रियाः पिपीलिकादयश्चतुरिन्द्रिया भ्रमरादयः पञ्चेन्द्रिया मूषिकादयः अभिहता अभिमुख्येन हताश्चरणेन घट्टिताः उत्क्षिप्य विक्षिप्ता वा वर्तिताः पुजीकृताः धूल्या वा स्थिता इति श्लेषिताः श्लिष्टा भूरित्यादिषु वा लगिताः संघातिताः अन्योन्यंगात्रैरेकत्र लगिताः संघट्टिताःमनाक्स्पृष्टाः परितापिताः समन्ततः पीडिताः क्रामिताः समुद्धातं नीताः ग्लानिमापादिता इत्यर्थः / अपद्राविताः उत्रासिताः स्थानात्स्थानं संक्रामिताः स्वस्थानात्परस्थानं नीताः जीविताव्यपरोपिता मारिता इत्यर्थः एवं यो जातोतिचारः तस्येत्येतावता क्रियाकालमाह / तस्स मिच्छामि दुक्कडमनेन निष्ठाकालमाह मिथ्यादुष्कृतं पूर्ववदेवं तस्येत्युभयत्र