________________ इरियावहियबंध 657 अभिधानराजेन्द्रः भाग 2 इरियावहिया अधुनापि कश्चिन्न बध्नाति कालान्तरे तु भन्त्स्यतीति 7 अष्टमस्त्वभव्यस्य सतुप्रतीत एव। (गहणागरिसमित्यादि) एकस्मिन्नेव भवे ऐर्यापथिककर्मपुद्गलानां ग्रहणरूपो य आकर्षोऽसौ ग्रहणाकर्षस्तं प्रतीत्यास्त्येकः कश्चिज्जीवः प्रथमवैकल्पिकः / तथाहि-उपशान्तमोहादिर्यापथिकं कर्म बध्नाति तदातीतसमयोपेक्षया बद्धवान् वर्तमानसमयापेक्षया च बधाति अनागतसमयापेक्षया तु भन्त्स्यतीति 1) द्वितीयस्तु केवली स ह्यतीतकाले बद्धवान् वर्तमाने च बधाति शैलेश्यवस्थायां पुनर्न भन्त्स्यतीति / / तृतीयस्तु उपशान्तमोहत्वे बद्धवांस्तत्प्रतिपतितस्तुन बधाति पुनस्तत्रैव भवे उपशमश्रेणिप्रतिपन्नो भन्त्स्य तीति एकभवे चोपशमश्रेणी द्विः प्राप्यत एवेति।३। चतुर्थः पुनः सयोगित्वे बद्धवान् शैलेश्यवस्थायां न बधाति न च भन्त्स्यतीति / / पञ्चमः पुनरायुषः पूर्वभागे उपशान्तमोहत्वादिन लब्धमिति न बद्धवान् अधुना तु लब्धमिति बधाति / तदद्धाया एव चैष्यत्समये तु पूर्व पुनर्भन्स्यतीति।। षष्ठस्तुनास्त्येवतत्र न बद्धवान् बनातीत्यनयोरुपपद्यमानत्वेऽपिन भन्त्स्तीत्यस्यानुपपद्यमानत्वात्, तथाह्यायुषः पूर्वभागे उपशानतमोहत्वादि न लब्धमिति न बद्धवांस्तल्लाभसमये च बनाति ततोऽनन्तर समयेषु च भन्त्स्यत्येव न तु न भन्त्स्यति समयमात्रस्य बन्धस्येहाभावात्, यस्तु मोहोपशमनिर्ग्रन्थस्य समयानन्तरमरणेनैर्यापथिककर्मबन्धः समयमात्रो भवति नासौ षष्ठविकल्पहेतुस्तदनन्तरमैर्यापथिककर्मबन्धाभावस्य भवान्तरवर्तित्वात् ग्रहणाकर्षणस्य चेह प्रक्रान्तत्वात् / यदि पुनः सयोगिचरमसमये बधाति ततोऽनन्तरं न भन्स्यतीति विवक्ष्येत तदा यत्सयोगिचरमसयमे बधातीति तद्वन्धपूर्वकमेव स्यान्नाबन्धपूर्वकं तत्पूर्वसमयेषु तस्य बन्धकत्वात्। एवं च द्वितीय एव भङ्गः स्यान्न पुनः षष्ठ इति।६। सप्तमः पुनर्भव्यविशेषस्य, अष्टमस्त्वभव्यस्येति। इह च भवाकर्षापेक्षेषु अष्टासु भङ्गकेषु "बंधी बंधइ बंधिस्सइ'' इत्यत्र प्रथमे भने उपशान्तमोहः। 'बंधी बंधन न बंधिस्सइ' इत्यत्र द्वितीये क्षीणमोहः / 'बंधी न बंधइ बंधिस्सइ' इत्यत्र तृतीये उपशान्तमोहः। बंधी न बंधइन बंधिस्सइइत्यत्र चतुर्थे शैलेशीगतः।'न बंधी बंधइ बंधिस्सइ, इत्यत्र पञ्चमे उपशान्तमोहः / 'न बंधी बंधइन बंधिस्सई' इत्यत्र षष्ठे क्षीण-मोहः / 'न बंधी नबंधइ बंधिस्सइ' इत्यत्र सप्तमे भव्यः / 'न बंधी न बंधइ न बंधिस्सइ' इत्यत्राष्टमे ऽभव्यः / ग्रहणापेक्षेषु पुनरेतेषु एव प्रथमे उपशान्तमोहः क्षीणामोहो वा, द्वितीये तु केवली,तृतीये उपशान्तमोहः, चतुर्थे शैलेशी गतः पञ्चमे उपशान्तमेवः क्षीणमोहो वा, पष्ठे शून्यः, सप्तमे भव्या भाविमोहोपशमो भविमोहक्षयो वा, अष्टमे त्वभव्य इति अथैर्यापथिकबन्धमेव निरूपयन्नाह "तमित्यादि'' तदैर्यापथिकं कर्म साइयं सपज्जवसियमित्यादिचतुर्भङ्गी, तत्र चैर्यापथिककर्मणः प्रथम एव भङ्गे बन्धोन्येषु तदसम्भवादिति, भ०८ श० ऊ इरियावहिया-स्त्री०(ई-पथिका) ईरणमी-गमनमित्यर्थः पथिजाता पथिका ई- चासौ पथिका च ईर्यापथिकेति / गमनप्रधानमार्गोत्पन्ने, आ.चू०४ अ *ऐपिथिकी-स्त्री. ईरणमी- गमनं तद्विशिष्टस्तत्प्रधानो वा पन्था ईपिथस्तत्र भवा ऐयापथिकी। स्था०२ ठा। आव०४ अ / व्युत्पत्तिमात्रमिदं प्रवृत्तिनिमित्तं तुयः केवलयोगप्रत्यय उपशान्तमोहादित्रयस्य सातवेदनीयकर्मबन्धः सा ईर्यापथिकी। प्रव०१२१ द्वा०ा क्रियाभेदे, अजीवकिरिया दुविहा पण्णत्ता तंजहा इरिआवहिआ चेव संपराइया चेव। यत्केवलयोगप्रत्ययमुपशान्तमोहादित्रयस्य सातवेदनी-यकर्मतया जीवस्य पुद्गलराशेर्भवनं सा ऐपिथिकी। क्रिया। इह जीवव्यापारेप्यजीवप्रधानत्वविवक्षया जीवक्रियेमुक्ता कर्मविशेषावेापथिकी क्रियोच्यते यतोभिहितम् “इरियावहिया किरिया दुविहा वज्झमाणा वेइज्जमाणायजा पढमसमये बद्धा, वीयसमये वेइया सा बद्धा पुट्ठा वेइया णिज्जिता से य काले अकम्मं वा वि भवइत्ति / स्था०२ ठा०। तत्स्वरूपं यथाएसाउ लोभवत्ती, इरिआवहिअं अओ पचक्खामि। इह खलु अणगारस्स, समिई गुत्तीसु गुत्तस्स ||6oll सययं तु अप्पमत्तस्स, मावओ जाव चक्खुपम्हंपि। निवयइ ता सुहुमा हु, इरिआवहिआ किरिअएसा ||6|| इह खल्वनगारस्य साधोः समितिषु ईर्यासमित्यादिषु मनो-गुप्त्यादिषु गुप्तस्य संवृतस्य सततमेवाप्रमत्तस्य उपशान्तमाह क्षीणमोहसयोगिकेवलिलक्षणस्थानकत्रयवर्तिनः / अन्येषां तु अप्रमत्तानामपि कषायप्रत्ययकर्मबन्धसद्भावेन केवलयोगनिमित्तकर्मबन्धोदयसंभवान्नाप्रमत्तशब्देनात्रग्रहणं भगवतः पूज्यस्य यावचक्षुः पक्ष्मापि निपतति स्यन्दतेइदं च योग-स्योपलक्षणंततोऽयमों यावच्चक्षुर्निमेषोन्मेषमात्रोपि योगः संभवति तावत्सूक्ष्मा एकसामयिकबन्धत्वेनात्यल्पा सातबन्धलक्षणा क्रिया भवति। एषा हु स्फुटमैर्यापथिकी क्रिया त्रयोदशीति। प्रव०१२१ द्वा०। आवा विस्तरेण तस्याः स्वरूपं सा कस्य भवति किंभूता वा क्लिष्टकर्मफला वा इत्येतद्दर्शतितुमाहअहावरे तेरसमे किरियाहाणे इरियावहिएति आहिजइ इह खलु अतत्ताएसंवुडस्स अणगारस्स इरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तणिक्खेवणासमियस्स उचारपासवणखेलसिं घाणजल्लपारिट्ठावणियासमियस्स मणसमियस्स वयसमियस्स कायसमियस्स मणगुत्तस्स वयगुत्तस्स कायगुत्तस्स गुतिंदियस्स गुत्तबंभयारिस्स आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं णि-सियमाणस्स आउत्तं तुयदृमाणस्स आउत्तं भुजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणि वा यमवि अस्थिविमाया सुहुमा किरिया इरियावहिया नाम कन्जइसा पढमसमए बद्धापुट्ठा वितीयसमए वेइया तइय समए णिजित्ता सा बद्धा पुट्ठा उदीरिया वेइया णिजित्ता सेयं काले अकम्मयावि भवंति एवं खलु तस्स तप्पतियं सा वजंति आहिज्जइ तेरसमे किरियाष्ट्ठाणे इरियावहिएति आहिजइ / से वेमि जे य अतीता जे य पड़पन्ना जे य अगिमिस्सा अरिहंता भगवंता सटवे ते एयाइ