________________ इत्थी 652 अभिधानराजेन्द्रः भाग 2 इत्थी शिरश्छेदे विषगण्डूषरत्नापहाराख्ये सत्यपि दोषत्रये माध्यस्थ्यमवलम्बेत नचतस्य तदवलम्बनेपि निर्दोषतेति। एवमाप्यवश्य भाविरागकार्यमैथुने सर्वदोषास्पदे संसारवर्द्धके कुतो निर्दोषतेति / तथाचोक्तम् "प्राणिनां वाधकं चैतच्छास्त्रैर्गीतं महर्षिभिः। नलिकातप्तकणक प्रवेशज्ञानतस्तथा |शा मूलं चैतदधर्मस्य भवभावप्रर्धनम् / / तस्माद्विषान्नवत्त्याज्यमिदं पापमनिच्छतेति" नियुक्तिगाथात्रयतात्पर्यार्थः // 12 // साप्रतं सूत्रकार उपहारव्याजेन गण्डपीडनादिदृष्ठान्तवादिनां दोषोद्विभावयिषयाह। (एवमेगे इत्यादि) एवमिति गण्डपीडनादिदृष्टान्तबलेन निर्दोषं मैथुनमिति मन्यमाना एके स्त्रीपरीषहपराजिताः सदनुष्ठानात्पार्श्वे तिष्ठन्तीति पार्श्वस्था-नाथवादिकमण्डलधारिणः तुशब्दात् स्वपूथ्या वा तथा विपरीता तत्त्वाग्राहिणी दृष्टिदर्शनं येषां ते। तथा आराडूरे यातागता सर्वहेयधर्मेभ्य इत्यार्थान आर्या अनार्याः / धर्म विरुद्धानुष्ठानात्त एवंविधा अध्युपपन्ना गृध्नव इच्छामदनरूपेपु कामेषु कामैर्वा करणभूतैः सावद्यानुष्ठानेष्विति। अत्रलौकिकं दृष्टान्तमाही यथा वा पूतनाडाकिनी तरुणके स्तनन्धये ऽध्युपपन्ना एवं तेप्यनार्याः कामेष्विति। यदिवा (पूयणत्ति) गडुरिका आत्मीये ऽपत्येऽध्युपपन्ना एवं ते ऽपीति कथानकं चात्र / यथा किल सर्वपशूनामपत्यानि निरुदके कूपेऽपत्यस्नेहपरीक्षार्थं क्षिप्तानि तत्र चापरा मातरः स्वकीयस्तनंधयशब्दाकर्णनेपि कूपतटस्था रुदन्त्यस्तिष्ठन्ति / उरभ्री त्वपत्यातिस्नेहेनान्धा अपायमनपेक्ष्य तत्रैवात्मानं क्षिप्त-वतीत्यतो ऽपरपशुभ्यः स्वापत्ये ऽध्युपपन्नेति। एवं ते ऽपि कामाभिष्वङ्गिणां दोषमाविष्कुर्वन्नाह / अणागयमपस्संता, पचुप्पन्नगवेसगा। ते पच्छा परितप्पंति, खीणे आउम्मिजोवणे // 14|| जेहि काले परिकतं, न पच्छा परितप्पए। ते धीरा बंधणुम्मुक्का, नावकंखंति जीविअं॥१५|| अनागतमेष्यत् कालमनिवृत्ता नरकादियातनास्थानेषु महा दुःखमपश्यन्तो ऽपर्यालोचयन्तस्तथा प्रत्युत्पन्नं वर्तमानमेव वैषयिक सुखाभासमन्वेषयन्तो मृगयमाणा नानाविधैरुपायैर्भोगान् प्रार्थयन्तस्ते पश्चात् क्षीणे स्वायुषि जातसंवेगा यौवने वा अपगते परितप्यन्ते शोचयन्ते पश्चात्तापं विदधति। उक्तचं। "हतं मुष्टिभिराकाशं तुषाणां कण्डनं कृतम् / यन्भया प्राप्य मानुष्यं सदर्थे नादरः कृतः // 11 // तथा। ''विहवा वलेवनडिएहिं जाई कीरंति जोव्वणभएण॥ क्यपरिणामे सरियाईताइहिं अपक्खुडुक्कंति॥१॥ 14 // ये तूत्तमसत्वतया अनागतमेव तपश्चरणादावुद्यम विदधति न ते पश्चाच्छोचन्तीति तदर्शयितुमाह (जेहिंकालेइत्यादि) यैरात्महितकर्तृभिः काले धर्मार्जनावसरे पराक्रान्तमिन्द्रियकषायपराजयाद्युद्यमो विहितो न ते पश्चान्मरणकाले वृद्धावस्थायां वा परितप्यन्ते न शोकाकु ला भवन्ति / एकवचनानिर्देशस्तु सौत्रच्छान्दसत्वादिति। धर्मार्जनकालस्तु विवेकिनां प्रायशः सर्व एव। तस्मात्स एव प्रधानपुरुषार्थः प्रधान एव च प्रायशः क्रियमाणो घटां प्राञ्चति / ततश्चायं बालात्प्रभृत्यकृतविषयासङ्गतया कृततपश्चरणास्ते धीराः कर्मविदारणस हिष्णवो बन्धनेन स्नेहात्मकेन कर्मणा चोत्प्राबल्येन मुक्ता नावकाक्षन्ति असंयमजीवितम् / यदि वा जीविते मरणे वा निस्पृहाः संयमोद्यममतयो भवन्तीति॥१५|| अन्यच जहा नई वेयरणी, दुत्तरा इह संमता। एवं लोगांसि नारीओ, दुत्तरा अमईमया ||16|| जेहिं नारीणं संजोगा, पूयणा पिट्ठतो कता॥ सव्वमेयं निराकिचा, ते ट्ठिया सुसमाहिए / / 17 / / य थेत्युदाहरणोपन्यासार्थः यथा वैतरणी नदीनां मध्ये - ऽत्यन्तवेगवाहित्वात् विषमतटत्वाच दुस्तरा दुर्लध्या एवमस्मिन्नपि लोके नार्योऽमतिमता निर्विवेकेन हीनसत्त्वेन दुःखेनोत्तीर्यन्ते। तथाहि। ता हावभावैः कृतविद्यानपि स्वीकुर्वन्ति। तथाचोक्तं "सन्मार्गे तावदास्ते प्रभवति पुरुषस्ताव-देवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव // भुचापाक्षेपमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते यावल्लीलावतीनां न दृदिधृतिमुषो दृष्टिबाणाः पतन्ति,। तदे वंवैतरणी नदीवत् दुस्तरा नार्यो भवन्तीति॥१६॥ अपिच (जंहीत्यादि) यैरुत्तमसत्त्वैः स्त्रीसङ्ग विपाकवेदिभिः पर्यन्तकटवो नारीसंयोगाः परित्यक्तास्तथा तत्सङ्गार्थमेव वस्त्रालंकारमाल्यादिभिरात्मनः पूजनाकामविभूषा पृष्ठतः कृता परित्यक्तेत्यर्थः / सर्वमेतत्स्त्रीप्रसङ्गादिकं क्षुत्पिपासादि प्रतिकूलोपसर्गकदम्बकं च निराकृत्य ये महापुरुषसेवितपथं प्रति प्रवृत्तास्ते सुसमाधिना स्वस्थचित्तवृत्तिरूपेण व्यवस्थिता नोप सगैरनुकूलप्रतिकूलरूपैः प्रक्षोभ्यन्ते / अन्ये तु विषयाभिष्वङ्गिणः स्त्र्यादिपरीषहपराजिता अङ्गारोपरिपतितमीनवद्रागग्निना दह्यमाना असमाधिना तिष्ठन्तीति // 27 स्त्र्यादिपरीषहपराजयस्य फलं दर्शयितुमाह। एते ओधं तरिस्संति, समुदं ववहारिणो। जत्थपाणा विसन्नासि, किचंति सयकम्मणा ||28| तं च भिक्खू परिण्णाय, सुव्वते समिते चरे॥ मुसावायं च वञ्जिजा-दिनादाणं च वोसिरे।।२९|| य एते अनन्तरोक्तानुकूलप्रतिकूलोपसर्गजेतार एते सर्वे ओघं संसार दुस्तरमपि तरिष्यन्ति ! द्रव्यौघदृष्टान्तमाह / समुद्र लवणसागरमिव व्यवहारिणः सांयात्रिका यानपात्रेण तरन्त्येवं भवौघमपि संसारसंयमयानपात्रेण यतयस्तरिष्यन्ति। तथा तीस्तरन्ति चेति / भवौधमेव विशिनष्टि। भवौघे संसारसागरे प्राणाः प्राणिनः स्त्रीविषयसङ्गाद्विषण्णाः सन्तः कृत्यन्ते पीड्यन्ते स्वकृतेनानुष्ठितेन पापेन कर्मणा असद्वेदनीयोदयरूपेणेति // 18 // सांप्रतमुपसंहारव्याजेनोपदेशान्तरविधित्सयाह / (तंचभिक्खूइत्यादि) तदे तद्यथा प्रागुक्तं यथा वैतरणीनदीवत् दुस्तरा नार्यो यैः परित्यक्तास्ते समाधिस्थाः संसार तरन्ति स्त्रीसङ्गिनश्च संसारान्तर्गताः स्वकृतकर्मणा कृत्यन्त इति तदेतत्सर्व भिक्षणशीलो भिक्षुः परिज्ञाय हेयोपादेयतया बुध्वा शोभनानि व्रतान्यस्य सुव्रतः पञ्चभिः समितिभिः समित इत्यनेनोत्तरगुणवेदनं कृतमित्ये-वम्भूतश्चरेत्संयमानुष्ठानं विदध्वात् / तथा मृषावादमसद्भूतार्थभाषणं विशेषेण वर्जयेत्तथा अदत्तादानञ्च व्युत्सृजेद्दन्तशोधनमात्रमप्यदत्तं न गृह्णीयात्। आदिग्रहणात् मैथुनादेः परिग्रह इति। तच मैथुनादिकं यावजीवमात्माहितं मन्यमानः परिहरेत् / सूत्र०१ श्रु०३ अ॥ (स्त्रियां जातमपत्यं पुरुषस्यै वे ति-अपच्च-शब्दे / स्त्रीपुरुषयोरन्तरं 'अणतर' शब्दे / स्त्रीगर्भवक्तव्यता 'गब्भ' शब्दे / स्त्रीभ्यो दृष्टिवादो न दीयत इति 'दिद्विवाय' शब्दे / स्वीणां