________________ इत्थी 651 अभिधानराजेन्द्रः भाग 2 इत्थी अंगपञ्चगसंठाणं, चारुल्लवियपेहियं।। बभचररओ त्थीणं, चक्खू गिज्झं विवजए|ll ब्रह्मचर्यरतः साधुः स्त्रीणामङ्गप्रत्यङ्गसंस्थानचक्षुह्यं विवर्जयेत्। अङ्गं मुखं प्रत्यङ्ग स्तनजघननाभिकक्षादिकं संस्थानकं कटिविषये हस्तं दत्वा ऊर्ध्वस्थायित्वं पुनः स्त्रीणां चारुल्लपित प्रेक्षितं चक्षुग्राह्यं विशेषेण वर्जयेत् / चारु मनोहरं यदुल्लपितं मन्मानांदि जल्पनं प्रकृष्टमीक्षितं वक्रावलोकमेतत्सर्वं परित्यजेत् कोऽर्थः ब्रह्मचारी हि स्त्रीणामङ्गप्रत्यङ्गं संस्थानंचारुभणितं कटाक्षैरवलोकनमेतत्सर्वं दृष्टिविषयमागतमपिततः स्वकीय-ञ्चक्षुरिन्द्रिय, बलान्निवारयेदित्यर्थः // 4 // कूइयं रुइयं गीयं, हसियं थणियकंदियं / वंभचेररओत्थीणं, सोयगिज्झं विवज्जए |1|| ब्रह्मचर्येरतः स्त्रीणां कूजितंरुदितं गीतहसितंस्तनितंक्रन्दितं श्रोत्रग्राह्य कर्णाभ्यां गृहीतुं योग्यं विशेषेण वर्जयेत् न शृणुयादि-त्यर्थः / / 1 / / हासं कीडं रयं दप्पं, सह भुत्तासणणिय। बंभचेर रओ थीणं, नाणुचिंते कयाइ वि / / 7 / / ब्रह्मचर्यरतो ब्रह्मचारी स्त्रीणां हास्यं पुनः क्रीडां तथा रतं मैथुनप्रीतिं दर्प स्त्रीणां मानमर्दनादुत्पन्नं गर्वं पुनः सहसा अपत्रासितानि सहसा कारेण आगत्थ पश्चात्पराङ्मुखस्थितानां स्त्रीणां नेत्रे हस्ताभ्यां निरुध्य भयोत्पादनहास्योत्पादनानि सहसा वित्रासितानि उच्यन्ते एतानि पूर्वानुभुतानि कदापि न अनुचिन्तयेत् न स्मरेत् (अत्र सहसाद वित्तासणाणिय'' इति वचित्पाठस्तदनुसारेण व्याख्यातम्) / अथ च सह भुक्तासनानि न अनुचिन्तयेत् सह इति स्त्रिया सार्द्ध भुक्तमेकासने उपविशन् पूर्व भोजनानि कृतान्यतिनस्मरेत् सहासनभुक्तानि इति वक्तव्ये सह भुक्तासनानि इतिप्राकृतत्वात्।।७।। उत्त०१६ अ (स्त्रीप्रसङ्गे दोषस्तत्र दोषा दोषविचारश्च मेहुण शब्दे)। __ सांप्रतं मतान्तरं दूषणाय पूर्वपक्षयितुमाह। एवमेगे उपासत्था, पन्नवंति अणारिया। इत्थी वसंगया बाला, जिणसासण परम्मुहा।।९।। जहा गंडं पिलागं वा, परि पीलेज मुहुत्तगं / एवं विन्नवणित्थीसु, दोसो तत्थ को सिया||१०|| तु शब्दः पूर्वस्माद्विशेषणार्थः / एवमिति वक्ष्यमाणया नीत्या यदि वा | प्राक्तन एव श्लोकोत्रापि संबन्धनीयः (एवमिति) प्राणातिपातादिषु वर्तमाना एक इत्या दि बौद्धविशेषानीलपटादयो नाथवादिकमण्डलप्रविष्टा वा शैवविशेषाः सदनुष्ठानात् पायें तिष्ठन्तीति पार्श्वस्थाः स्वपूथ्यावापार्श्वस्थावसन्नकुशीलादयः स्त्रीपरीषहपराजितास्त एव प्रज्ञापयन्ति प्ररूपयन्ति अनार्याः अनार्यकर्मकारित्वात् / तथाहि / ते वदन्ति। "प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः / प्राप्यते येन निर्वाणं सरागेणापि चेतसा' / किमित्येवं तेऽभिदधतीत्याह। स्त्रीवशंगताः यतो युवतीनामाज्ञायां वर्तन्ते बाला अज्ञारागद्वेषोपहतचेतस इति रागद्वेषजितो जिनास्तेषां शासनमाज्ञाकषायमोहोपशमहेतुभूता तत्पराङ्मुखाः संसारा-भिष्वङ्गिणो जैनमार्गाविद्वेषिण एतद्वक्ष्यमाणमूचुरिति // 9 // यदूचुस्तदाह (जहा गंडमित्यादि) यथेत्युदाहरणोपन्यासार्थः। यथा येन प्रकारेण कश्चित् गण्डी पुरुषो गण्डं समुत्थितं पिटकं वा तज्जातीयकमेव तदाकृतोपशमनार्थ परिपीड्य पूयरुधिरादिकं निर्माल्य मुहुर्तमात्रंसुखितो भवति न च दोषेणानुषज्यते / एवम-त्रापि स्वीविज्ञापनायां युवतिप्रार्थनायां रमणीसंबन्धेगण्डपरिपीडनकल्पेदोषस्तत्र कुतः स्यात् / न होतावता क्लेदापगममात्रेण दोषो भवेदिति / स्यात्तत्र दोषो यदि काचित्पीडा भवेत्॥१०॥ दृष्टान्तेन दर्शयति॥ जहामंधादए नाम, थिमि मुंजतीदगं। एवं विन्नवोणत्थीसु, दोसो तत्थ कओ सिआ ||11|| जहा विहंगमा पिंगा, थिमिअं मुंजतीदगं। एवं विनवणित्थीसु, दोसो तत्थ कओ सिआ।।१२।। एवमेगे उपासत्था, मिच्छदिट्ठी, अणारिआ। अज्झोववन्ना कामेहि, पूयणे व्वतरुण्णए ||13|| यथेत्थमुदाहरणोपन्यासार्थः / मन्धादन इति मेष नामशब्दः संभावनायाम्यथा मेषस्तिमितमनालोडयन्नुदकं पिबत्यात्मानं प्रीणयति न च तथान्येषां किंचनोपघातं विधत्ते / एवमत्रापि स्त्रीसंबन्धे न काचिदन्यस्य पीडा आत्मनश्च प्रीणनमतः कुतस्तत्र दोषः स्यादिति॥११|| अस्मिन्नेवानुपघातार्थे दृष्टान्तबहुत्व-ख्यापनार्थं दृष्टान्तान्तरमाह। (जहाविहं गमा इत्यादि) यथा येन प्रकारेण विहासया गच्छतीति विहं गमा पक्षिणी (पिंगेति) कपिञ्जला साकाश एव वर्तमाना स्तिमितं निभृतमुदकमा-पिबत्येवमत्रापि गर्भप्रधानपूर्विकया क्रियता अरक्ता द्विष्टस्य पुत्राद्यर्थ स्त्रीसंबन्धं कुर्वतोपि कपिञ्जलाया इव न तस्य दोष इति / सांप्रतभेतेषां गण्ड पीडनतुल्यं स्त्रीपरिभोगं मन्यमानायां तथैडकोदकपानसदृशं परपीडाऽनुत्पादकत्वेन परात्मनोश्च सुखोत्पादकत्वेन किल मैथुनं जायत इत्यध्यवसायिनां तथा कपिञ्जलोदकपानं यथा तडागोदकासंस्पर्शन किल भवत्येवमरक्तद्विष्टतथा दर्भाधुत्तारणात् स्त्रीगात्रस्पर्शेन पुत्रार्थं न कामार्थ ऋतुकालाभिगामितया शास्त्रोक्तविधानेन मैथुनेपि न दोषानुषङ्गस्तथोचुस्ते "धर्मार्थ पुत्रकामस्यस्वदारेष्वधिकारिणः। ऋतुकाले विधानेन दोषस्तत्र न विद्यते" इति एव मुदासीनत्वेन व्यवस्थितानां दृष्टान्तेनैव नियुक्तिकारो गाथात्रयेणोत्तरदानायाह / [जह णाममडलग्गे ण, सीसंछित्तूण कस्सइ मणसो।। चिट्टेञ्ज पराहुत्तो, किं नाम ततो ण घेप्पेजा ||13|| जह णाविसगंडूसं, कोतीघेत्तूण नाम तुण्हिक्को। अण्णेण अदीसंतो, किं नाम ततो नबमरेज्जा ||14|| जह नाम सिरिघराउ, कोइरयणेण णामघेत्तूणं / अत्थेज पराहुत्तो, किं णाम ततो नघेप्पेला ||15||) यथा नाम कश्चिन्मण्डलाग्रेण कस्याविच्छिरश्छित्वा पराङ्मुखस्तिष्ठेत्। किमेतावतोदासीनभावावलम्बनेनन गृह्येत नापराधी भवेत्। तथा यथा. कश्चिद्विषग्ण्डूषं गृहीत्वा पीत्वा नाम तूष्णीं भावं भजे दन्येन वाप्यदृश्यमानोसौ किं नाम ततो सावन्यादर्शनात् न म्रियेत। तथा यथा कश्चिच्छ्रागृहागाण्डा गाराद्रत्नानि महााणि गृहीत्वा पराङ्मुखस्तिष्ठेत् किमेतावता सौ न गृह्येतेति। अत्र च यथा कश्चित् शठतया अज्ञतया वा