________________ इत्थी 650 अभिधानराजेन्द्रः भाग 2 इत्थी सहितो निलयो गृहं स्त्रीनिलयस्तस्य स्त्रीनिलयस्य मध्ये ब्रह्मचारिणो निवासः क्षमो युक्तो नास्ति / तत्र वसमानस्य ब्रह्मचारिणो ब्रह्मचर्यस्य नाश एव स्थादिति भावः // 13 // स्त्र्यादिरहिते स्थाने वसमानेनापि स्त्रीसम्पाते किं कर्तव्यं तदाह। न रूपलावण्णविलासहावं, न जंपियं इंगियपेहियं वा। इत्थीणचित्तं सिनिवेसइत्ता, दट्टुं ववस्से समणे तवस्सी॥१४॥ तपस्वी श्रमणः स्त्रीणामेतत्सर्वमेतचेष्टितं चित्ते स्वकीये मनसि सन्निवेश्य सम्यगवधार्य द्रष्टुं न व्यवस्येत दर्शनायसोद्यमो न भवेत्। कोर्थः साधुः स्त्रीणामेतचेष्टितं स्वहृदिधृत्वा एतचेष्टितं द्रष्टुं व्यवसायं न कुर्यात् / यतो हि। पूर्व मनसः इच्छायाः प्रवृत्तिस्ततश्चक्षुरादीनामिन्द्रियाणां प्रवृत्तिरिति। तत्स्त्रीणां किंकिञ्चेष्टितं तदाह रूपं स्त्रीणां गौरा दिवर्णो लावण्यं नयनालादकः कश्चिद्गुणविशेषः विलासो विशिष्टनयनचेष्टाविशेषः, अथवा मन्थरगतिकरणादिको, हास्यं स्मितमीषद्दन्तानां जल्पितं मन्मनोल्लापादिकम् इङ्गितमङ्गोपाङ्गादिमोटनं स्वचित्तविकारसूचकं, वीक्षितं वक्रावलोकनम्रूपञ्चलावण्यं च विलासश्च हास्य चरूपलावण्यविलासहास्यानितेषांसमाहारो रूपलावण्यविलासहास्यमेतत्सर्वं स्त्रीणां साधुना रागेन न द्रष्टव्यमिति भावः। अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च। इत्थीजणस्सारियझाणजुग्गं, हियं सयावम्भवए रयाणं ||15|| ब्रह्मव्रते ब्रह्मचर्ये रतानां सावधानानां साधूनामेतदार्यध्यानं योग्यं हितं वर्तते। आर्य च तद्ध्यानं च आर्यध्यानं सम्यग्ध्यानं धर्मशुक्लादिकं तस्य योग्यंहितं पथ्यं धर्मध्यानस्य स्थैर्यकारको भवति कोर्थः यदा हि ब्रह्मचर्यधारिणः एतत् कर्वन्ति तदा तेषां धर्मध्यानं स्थिरं स्यादित्यर्थः। तत्कि किमार्यध्यानयोग्यं तदाह / स्त्रीणामदर्शनं रागेण अनवलोकनं च पादपूरणे एव निश्चये / पुनः किं स्त्रीणामप्रार्थनमभिलाषस्याकरणं पुनः स्त्रीणामचिन्तनं यत् कदाचित् रूपादिकं दृष्टं तस्य चेतसि न स्मरणमपरिभावनमित्यर्थः / पुनः स्त्रीणामकीर्तनं यत्कदाचिद्रूषेण नाम्ना गुणेन वा न कीर्तनमकीर्तनं नाम गुणोचारणस्य अकरणम् यदि ब्रह्मचारी स्त्रीणां दर्शनं प्रार्थनं चिन्तनं कीर्तनं करोति तदा तस्य आर्यध्यानस्य उत्तमध्यानस्य स्थैर्य नस्यात् एतद्धर्मध्यानस्य योग्य हितं नास्ति। ननु कश्चिद्वक्ष्यति "विकारहेतौ सति विक्रियन्ते येषांन चेतांसि तएव धीराः" तत् किं विविक्तशयनासनसेवनेन इति चेत्तत्राह। कामं देवेहिं विभूसियाहिं, नचाइया खोभइउं तिउत्ता। तहा वि एगंतहियंति नचा, विवित्तवासो मुणिणं पसत्थो ||16|| हे शिष्य! तथापि मुनीनां विविक्तभाव एकान्तस्थाननिवासः प्रशस्तः। किं कृत्वा विविक्तभावमेकान्तहितं मत्वा तथा इति कथं यद्यपि त्रिगुप्तास्तिसृभिर्गुप्ताः मुनयः काममत्यर्थ देवीभिः क्षोभयितुं ध्यानाचालयितुं न 'चाइया' इति न शङ्किताः कीदृशीभिर्देवीभिः आभूषणयुक्ताभिः / यदि देवाङ्गनाभिराभरणालङ्कृताभिरपि साधवो ध्यानान्न चालितास्तदा मानुषीभिस्तु क्षोभं प्राप-यितुमशक्या एव तथापि स्त्रीप्रसङ्गत्यागं मुनीनामेकान्तहितं ज्ञात्वा स्त्र्यादिरहितोपाश्रये स्थितिः श्रेयसीति भावः / / 16 / / स्त्रीप्रसङ्गत्यागं पुनरपि दृढयति। मोक्खाभिकंखिस्स विमाणवस्स, संसारभीरुस्स ठियस्स धम्मे। नतारिसंदुत्तरमत्थि लोए, जहित्थिओ बालमणोहराओ / / 7 / / मोक्षाभिकाङ्क्षस्य मोक्षाभिलाषुकस्य मानवस्य संभारभीरोरपि तथा धर्मे स्थितस्य श्रुतधर्मे स्थितस्य अत्र संसारेतादृशंदुस्तरमन्यत् किमपि नास्ति यथा लोके संसारे स्त्री दुस्तरास्ति / कीदृशी स्त्री बालमनोहरा बालानामविवेकिनां मनांसि हरतीति बालमनोहरा / तुशब्दः पादपूरणे विशेषार्थे च। स्त्रीसङ्गातिक्रमे गुणमाह। एएयसंगे समइक्कमित्ता, सुहुत्तरा चेव भवंति सेसा। जहा महासागरमुत्तरिता, नई भवे अविगंगा समाणा ||18|| मनुष्याणामेतान् स्त्रीसंबन्धिसङ्गान् समतिक्रम्य शेषाः धनधान्यादिसंबन्धाः सुखोत्तराश्चैव भवन्ति। सुखेनोत्तीर्यन्ते इति सुखोत्तराः यथा महासागरं स्वयंभूरमणसदृशं समुद्रमुल्लङ्घय गङ्गा नदी अपि सुखोत्तरा सुखोल्लच्या एव तथा येन स्त्रीस-ङ्गस्त्यक्तस्तस्य अन्यसङ्गो धनधान्यादिसंयोगः सुत्यज एव (अत्र गाथायां चतुर्थपादे छन्दोनुरोधात् "गंगा भवेजा विणई समाणा'' इति पाठो युक्तः) 18 // उत्त० 32 / अ०। स्त्रीस्थानदर्शनादि-परिहारस्य ब्रह्मचर्यसमाधिस्थानत्वे श्लोकाः प्रतिपादिताः। जं वि वित्तमणाइन्न, रहियं इत्थिजणेणय / बंभचेरस्स रक्खट्टा, आलयं तुनिसेवए ||1|| साधुर्ब्रह्मचारी तमालयं तमुपाश्रयं निषेवते। तुः पादपूरणे तं कंय आलयो विविक्त एकान्तभूतः तत्रत्यवास्तव्यस्त्रीजनेन चशब्दात् पशुपण्डकैरपि रहितः पण्डकशब्देन नपुंसक उच्यते कालाकालविभागागतसाध्वीजनं श्राद्धीजनं चश्रित्य विविक्तत्वं ज्ञेयं यदुक्तम्- "अट्ठमी पक्खिये मोत्तुं वयणा कालमेव या सेसकालम्मिइंतीओ, नेया उ अकालचारीओ''||१|| तस्मात्य आलयस्त्र्यादिभिरसेवितस्तमालयं ब्रह्मचारी साधुश्च निषेवते इत्यर्थः / पुनर्यश्चालयः अनाकीर्णो गृहस्थानां गृहाद्दूरवर्ती किमर्थं ब्रह्मचर्यस्य रक्षार्थ यो हि स्वब्रह्मचर्यं रक्षितुमित्छति स एतादृशमुपाश्रयं निषेवते अत्र लिङ्गव्यत्ययः प्राकृतत्वात्।।१।। मणपण्हाय जणवी, कामरागविवड्डवी। बंभचेररओ भिक्खू, थीकहं तु विवजए ||12|| अथ द्वितीयं ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां विवर्जयेत् स्त्रीणां कथा स्त्रीकथा तां त्यजेत् कीदृशीं कथां मनःप्रह्लादजननीमन्तःकरणस्य हर्षोत्पादिकां पुनः कीदृशीं कामरागविवर्द्धनीं विषयरागस्य अतिशयेन वृद्धिकर्तीम् / / 12 / / समं च संथबंथीहिं, संकहं च अभिक्खणं / बम्मचेररओ भिक्खू, निचसो परिवज्जए।।३।। ब्रह्मचर्यरतो भिक्षुर्नित्यशो निरन्तरं सर्वदा स्त्रीभिः समं सं स्तवं अर्थात् एकाशने स्थित्वा परिचयं च पुनः अभीक्षणं वारं वारं संकथां स्वीजातिभिः सह स्थित्वा बह्रीं वार्ता परिवर्जयेत् सर्वथा त्यजेत् // 3 //