________________ आउट्टि 42 अभिधानराजेन्द्रः भाग 2 आउट्टि 62 एकं च द्वाषष्टि६२ भागं सप्तषष्टिधा 67 छित्त्वा तस्य सत्कास्त्रयोदेश 13 , चूर्णिकाभागा: शेषाः / तथा हि-पञ्चमी श्रावणमासभाविन्यावृत्ति: प्राकप्रदर्शितक्रमापेक्षया नवमी 9 तत: तत्स्थाने नवको 9 ध्रियते। स रूपोन कार्य इति. जाता अष्टौ 8, तैः प्रागुक्तो ध्रुवराशि: 173 / 36-62, 6-67 गुण्यते जातानि पञ्चचत्वारिंशच्छतानि चतुरशीत्यधिकानि मुहूर्तानां, मुहुर्तगतानां च द्वाषष्टि 62 भागानां द्वे शते अष्टाशीत्यधिके एकस्यचद्वाषष्टिभागस्याष्टाचत्वारिंशत् सप्तषष्टिभागा: 4584 288 48 / तत एतेभ्यश्चत्वारिंशता मुहूर्तशतैः पञ्चनवत्यधिकैर्मुहूर्तगतानां च द्वाषष्टिभागानां विंशत्यधिकेन शतेन एकस्य च द्वाषष्टिभागस्य सत्कानां सप्तषष्टिभागानां त्रिंशदधिकैस्त्रिभिः शतैः पञ्च 5 नक्षत्रपर्याया: शुद्धा:, स्थितानि पश्चान्मुहूर्तानां चत्वरि शतानि एकोननवत्यधिकानि मुहूर्तगतानां च द्वाषष्टिभागानां शतं त्रिषष्ट्यधिकम् एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तषष्टिभागा:- 489 163 53 / तत एतेभ्यो भूय: त्रिभिः शतैर्नवत्याधिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य चद्वाषष्टिभागस्यं षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि पुनर्वसुपर्यन्तानि नक्षत्रणि शुद्धानि स्थिता: पञ्चान्मुहूर्तानां नवतिः मुहुर्तगतानां द्वाषष्टिभागानामष्टा त्रिंशदधिकं शतम् एकस्य च द्वाषष्टिभागस्य चतुःपञ्चाशत् सप्तषष्टिभागा: 90 138 54 / तत्र चतुर्विशत्यधिकेन द्वाष- ष्टिभागशतेन द्वौ मुहूर्ती लब्धौ पश्चात् स्थिता द्वाषष्टि भागाश्चतुर्दश, लब्धौ च मुहूर्ती मुहूर्तराशौ प्रक्षिप्येते जाता मुहूर्तानां द्विनवतिः-९२ 14 54 / तत्र पञ्चसप्तत्या 75 मुहूर्त: पुष्यादीनि मघापर्यन्तानि त्रीणि नक्षत्राणि शुद्धानि, स्थिता: पश्चात् सप्तदश मुहूर्ता:१७ 14 54 / न चैतावता पूर्वफाल्गुनी शुध्यति तत आगतं पूर्वफाल्गुनीनक्षत्रस्य द्वादश सु 12 मुहूर्तेष्वे कस्य च मुहूर्तस्य सप्तचत्वारिंशद् द्वाषष्टिभागेषु एकस्य च द्वाषष्टि 62 भागस्य त्रयोदशसु सप्तषष्टिभागेषु शेषेषु पञ्चमी 5 श्रावण-मासभाविनी आवृत्ति: प्रवर्तते। सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं च प्राग्वद्भावनीयम्। चन्द्र०१२ पाहु।। सू०प्र०। ज्यो। तदेवं चन्द्रनक्षत्रयोगविषये, सूर्यनक्षत्रयोगविषये च पश्चापि वार्षिकीरावृत्ती: प्रतिपाद्य, संप्रति हेमन्ती: प्रतिपिपादयिषुः (चं.प्र. 12 पाहु.) आदौ चन्द्रनक्षत्रविषयकसंग्रही गाथामाहहत्थेण होइ पढमा, सयमिसयाहि य ततो य पुस्सेण। मूलेण कत्तियाहि य, आउट्टीओ य हेमंते // 238 / / हेमन्ते- माघमासे प्रथमाआवृत्तिर्भवति हस्तेन- हस्तनक्षत्रेण युता, द्वितीया 2 शतभिषजा, तृतीया 3 पुष्येण, चतुर्थी 4 मूलेन, पञ्चमी 5 कृतिकाभिः / ज्यो० 12 पाहु। __ प्रथमावृत्ति:ता एसिणं पंचण्हं संवच्छराणं पढमं हेमंतिं आउट्टिचंदे केणं णक्खत्तेणं जोगं जोएति? ता हत्थेणं, हत्थस्स णं पंच मुहूत्ता पण्णासंच बावट्टिभागा मुहूत्तस्य बावट्ठिभागं च सत्तद्विधा छेत्ता सहि चुण्णिया भागा सेसा, तं समयं च णं सूर केणं णक्खत्तेणं जोगं जोएति ? उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए॥ 'ता एएसि ण' मित्यादि, ता इति पूर्ववत्, एतेषाम्- अन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां मध्य प्रथमा हेमन्तीमांवृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति? केन नक्षत्रेण सह योगमुपागतः सन् प्रवर्त्तयतीति भावः, भगवानाह-'ता हत्थेणं' इत्यादि, ता इति पूर्ववत्, हस्तेन- हस्तनक्षत्रेण युक्तश्चन्द्रः प्रवर्त्तयति, तदानीं च हस्तनक्षत्रस्य पञ्च 5 मुहूर्ता एकस्य च मुहूर्तस्य पञ्चाशत् द्वाषष्टिभागा: एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्का: षष्टिश्चूर्णिकाभागाः शेषाः, ताथहि- हेमन्ती प्रथमा आवृत्ति: प्रागुक्तक्रमापेक्षयां द्वितीया ततस्तत्स्थाने द्विको ध्रियते, सरूपोन: कार्य इति जात एककः 1 तेन 1 प्रागुक्तो ध्रुवराशि:- 573 / 36-62, 6-67 / गुण्यते, 'एकेन च गुणितं तदेव भवती' ति जातस्तावानेवध्रुवराशि:, तत एतस्मात् पञ्चमि: शतैरेकोनपञ्चाशदधिकैर्मुहूर्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्यचद्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागरभिजिदादीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि स्थिताः पश्वाच्चतुर्विशतिर्मुहूर्ता एकस्य च मुहूर्तस्य एकादश द्वाषष्टिभागा: एकस्य च६२ भागस्य सप्त सप्तषष्टिभागा: 24 11 7 / तत आगतं हस्तनक्षत्रस्य पञ्चसु मुहूर्तेषु एकस्य च मुहूर्तस्य पञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षष्टौ सप्तषष्टिभागेषु शेषेषु प्रथमां हेमन्तीमावृत्तिं चन्द्र: प्रवर्तयतीति। सूर्यनक्षत्रविषयं प्रश्नसूत्रमाह- 'तं समयं च ण' मित्यादि, तस्मिंश्च समये सूर्य: केन नक्षत्रेण युक्तस्तां प्रथमां हेमन्तीमावृत्तिं युनक्तिप्रवर्त्तयति? भगवानाह-'ता उत्तराहिं' इत्यादि, उत्तराभ्यामाषाढाभ्यां तदानीं चोत्तराषाढायाश्वरमसमय:, समकालमुत्तराषाढानक्षत्रमुपभुज्याभिजिन्नक्षत्रस्य प्रथमसमये प्रथमां हेमन्तीमावृत्तिं सूर्यः प्रवर्त्तयतीति भावः, तथाहि- यदि दशभिरयनैः पञ्च सूर्यकृतान्नक्षत्रपर्यायान् लभामहे तत एकनायनेन किं लभामहे? राशित्रयस्थापना-१० 5 1 / अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य पञ्चकरूपस्य राशेर्गुणनं जाता पश्चैव तेषां दशभिर्भाग हृते लब्धमेकमढे पर्यायस्य, अर्द्ध च पर्यास्य सप्तषष्टिभागरूपं नव शतानि पञ्चदशोत्तराणि 915, तत्र ये विंशतिः, सप्त 67 भागा: पाश्चात्ये अयने पुष्यस्य गताः शेषाश्चतुश्चत्वारिंशत्सप्तषष्टिभागा: स्थिता: ते साम्प्रतमितो राशेः शोध्यन्ते स्थितानि शेषाण्यष्टौ शतान्येकसप्तत्यधिकानि 871, तेषां सप्तषष्ट्या भागे हृते लब्धास्त्रयोदश पश्चान्न किमपि तिष्ठति, त्रयोदशभिश्च-श्लेयादीन्युत्तराषाढापर्यन्तानि शुद्धानि, तत आगतम्- अभिजित: प्रथमसमये माघमासभाविनी। आवृत्तिः प्रवर्त्तते, एवं सर्वा अपि माघमासभाविन्य आवृत्तयः सूर्यनक्षत्रयोगमधिकृत्य वेदितव्याः , उक्तं च- "बाहिर ओ पविसंतो आइचो अभिइजोगमुवयगम्मि / सव्वा आउट्टीओ करेइ सो माघमासंमि // 1 // " द्वितीयहेमन्ताऽऽवृत्तिविषयं प्रश्नसूत्रमाहता एएसि णं पंचण्हं संवच्छ राणं दोचं हे मंतिं आउट्टि