SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आउट्टि 41 अभिधानराजेन्द्रः भाग 2 आउट्टि वावविभागा मुहत्तस्स वावट्ठिभागं च सत्तद्विधा छेत्ता / चत्तालीसं 44 चुण्णिया भागा सेसा,तं समयं चण सूरे केणं णक्खत्तेणं जोगं जोएति? ता पूसेणं, पूसस्स णं तं चेव। 'ता एएसिणमि' त्यादि, सुगम, भगवानाह- 'ता विसाहाहिं' इत्यादि।। 'ता' इति पूर्ववत्, विशाखाभि:- विशाखानक्षत्रेण युक्तः सन् चंद्रमास्तृतीयां श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति, तदानीं च तृतीयाऽऽवृत्तिप्रवर्तनसमये विशाखाना- विशाखानक्षत्रस्य त्रयोदश 13 मुहूर्ता: एकस्य 1 च मुहूर्तस्य चतुःपञ्चाशद् वाषष्टिभागा एकं च द्वाषष्टिभाग सप्तषष्टिधा छित्त्वा तस्य सत्का-श्वत्वारिंशच्चूर्णिकाभागाः शेषाः, तथा हि-तृतीया श्रावण-मासभाविन्यावृत्ति: पूर्वप्रदर्शितक्रमापेक्षया पञ्चमी 5, ततस्त-स्स्थाने पञ्चको 5 ध्रियते स रूपोन: कार्य इति जात-श्वतुष्क: 4 तेन 4 प्राक्तनो ध्रुवराशि:- 173 / 36-62 / 6-67 गुण्यते जातानि द्वाविंशनि शतानि द्विनवत्यधिकानि मुहूर्तानां चतुश्चत्वारिंशं शतं मुहूर्तगतानां द्वाषष्टिभागानामेकस्य च द्वाषष्टि- भागस्य चतुर्विशति: सप्तषष्टिभागा:- 2292 / 144 / 24-67 / तत एतेभ्य: षोडशभिर्मुहर्तशतैरष्टात्रिंशदधिकैरष्टाचत्वारिंशता चद्वाषष्टिभागैर्मुहर्तस्य द्वाषष्टिभागगतानां च सप्तषष्टिभागानां द्वात्रिंशेन शतेन द्वौ परि पूर्णी नक्षत्रपर्यायौ शुद्धौ, स्थितानि पश्चात् षट्शतानि चतु पञ्चाशदधिकानि मुहूर्तानां; मुहूर्त्तगतानां च द्वाषष्टिभागानां चतुर्नवतिरेकस्य च द्वाषष्टिभागस्य सप्तविंशतिः सप्तषष्टिभागाः-६५४।९४।२६ / तत एतेभ्यः पञ्चभिः शतैरेकोन-पञ्चाशदधिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरे कस्य च द्वाषष्टि भागस्य षट्षष्ट्यासप्तषष्टि भागैरभिजिदादीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि। स्थितम् पश्चात् पश्चोत्तरं मुहूर्त्तशतं मुहूर्तगतानां च द्वाषष्टिभागा- नामेकोनसप्ततिरेकस्य च द्वाषष्टिभागस्य सप्तविंशतिः सप्तषष्टि -भागाः, तत्र द्वाषष्ट्या द्वाषष्टिभागैरेको 1 मुहूर्तो लब्धः, स्थिता: पश्चात् सप्तद्वाषष्टिभागाः, लब्धश्च मुहूर्तों मुहूर्तराशौ प्रक्षिप्यते, जातं षडुत्तरं मुहूर्तशतं 106 / 762 / 27-61 तत: पञ्चसप्तन्या मुहूर्त: हस्तादीनि स्वातिपर्यन्तानि त्रीणि नक्षत्राणि शुद्धानि, स्थिताः शेषा: एकत्रिंशन्मुहूर्ताः 31; आगतं विशाखानक्षत्रस्य त्रयोदशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुःपञ्चाशद् द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु शेषेषु चन्द्रस्तृतीयां श्रावणमासभीविनीमावृत्ति प्रवर्त्तयति। सम्प्रति सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं चाह-'तं समयं च णमि' त्यादि। सुगमम् / चं०प्र० 12 पाहु। सम्प्रति श्रावणमासभावि (ज्यो.) चतुर्थ्यावृत्तिविषयं प्रश्नसूत्रमाहता एएसिणं पंचण्हं संवच्छराणं चउत्थिं 4 वासिक्किं आउटिं चंदे केणं णक्खत्तेणं जोएतिता, रेवतीहि रेवतीणं पणवीसं मुहुत्ता वासहिभागा मुहुत्तस्स वावट्ठिभागं च सत्तट्टिहा छेत्ता वत्तीसं चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं णक्ख-त्तेणं जोएति ? ता पूसेणं पूसस्स णं तं चेव। (सूत्र-७६) / 'ता एएसि णमि' त्यादि, सुगम, भगवानाह- 'ता रेवईहिं' इत्यादि, रेवत्या युक्तश्चन्द्र: चतुर्थी श्रावणमासभाविनीमावृत्तिं प्रवर्तयति, तदानीं च रेवतीनक्षत्रस्य पञ्चविंशतिर्मुहूर्ता द्वात्रिंशत् द्वाषष्टिभागा मुहूर्तस्य एवं चद्वाषष्टिभाग सप्तषष्टिधा छित्त्वा तस्य सत्का: षड्विंशतिश्चूर्णिकाभागा: शेषा:, तथाहि- प्रागुपदर्शितक्रमापेक्षया श्रावणमासभाविनीचतुर्थ्यावृत्तिः, सप्तमी तत: सप्तको 7 ध्रियते, सरूपोन: कार्य इति जात: षट्क: 6, तेन 6 प्राक्तनो ध्रुवराशि: 573 36 6 / गुण्यते, जातानि चतुस्विंशच्छतानि अष्टात्रिंशदधिकानि (3438) मुहूर्तानां, मुहूर्तगतानां च द्वाषष्टिभागानां द्वे शते षोडशोत्तरे (216) एकस्य च द्वाषष्टिभागस्य षत्रिंश (36) त्सप्तषष्टिभागाः तत एतेभ्यो द्वात्रिंशता शतैः षट्सप्तत्यधिकैर्मुहूर्तानां, मुहूर्तगतानां च द्वाषष्टिभागानां षण्णवत्या द्वाषष्टिभागसत्कानां च सप्तषष्टिभागानां द्वाभ्यां शताभ्यां चतुःषष्टिसहिताभ्यां चत्वारो नक्षत्रपर्यायाः शुद्धाः, स्थितं पश्चादेकं द्वाषष्ट्यधिक मुहूर्त्तशते मुहूर्तगतानां च द्वाषष्टिभागानां षोडशोत्तरं शतम् एकस्य च द्वाषष्टिभागस्य चत्वारिंशत् सप्तषष्टिभागा: (162) (196) 40 / तत्र एकोनषष्ट्यधिकेन मुहूर्तशतेन एकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिाभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभाग: 159 24 66 / अभिजिदादीन्युत्त रभद्रपदपर्यन्तानि नक्षत्राणि भूयः शुद्धानि, स्थिताः पश्चात् त्रयो मुहूर्ताः मुहूर्तगतानां च द्वाषष्टिभागानामेकनवतिरेकस्य च द्वाषष्टिभागस्य एकचत्वारिंशत्सप्तषष्टिभागा: द्वाषष्ट्या च द्वाषष्टिभागैरेका मुहूर्तो लब्धः, स मुहूर्तराशौ प्रक्षिप्यते, जाताश्चत्वारो 4 मुहूर्ताः- एकस्य च मुहूर्तस्य एकोनत्रिंशद् द्वाषष्टिभागा: (एकस्य च द्वाषष्टिभागस्यैकचत्वारिंशत् सप्तषष्टिभागा.)४ 29 ४१तत आगतंरेवतीनक्षत्रं पशविंशतौ मुहूर्तेष्वे कस्य च मुहूर्तस्य द्वात्रिंशति द्वाष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षड्विंशतौ सप्तषष्टिभागेषु शेषेषु चतुर्थी श्रावणभाविनीमावृत्तिं प्रवर्त्तयति, 'तं समयं च णमि' त्यादि, सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं च प्राग्वद्भावनीयम्। साम्प्रतं पञ्चमं श्रावणमासभाविपञ्चमावृत्तिविषय प्रश्नसूत्रमाहता एएसिणं पंचण्हं संवच्छराणं पंचमी वासिक्किं आउटिं चंदे केणं णक्खत्तेणं जोगं जोएत्ति ? ता पुव्वाहिं फग्गुणीहिं पुष्वाणं फग्गुणीणं वारस 12 मुहूत्ता सत्तालीसं च वावट्ठिभागा मुहूत्तस्य वावट्ठिभागं च संत्तट्ठिहा छेत्तातेरस 13 चुणिया भागासेसा, तं समयं च णं सूरे के णं णक्खत्तेणं जोगं जोएति? ता पूसेणं पूसस्स णं तं चेव। (सूत्र-७६) || 'ता एएसि णमि' त्यादि, सुगम, भगवानाह- 'ता पुव्वाहिं फग्गुणीहिं' इत्यादि, 'ता' इति पूर्ववत्, पूर्वाभ्यां फाल्गुनीभ्यां युक्तश्चन्द्रः पञ्चमी 5 श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति तदानीं च तस्य पूर्वफाल्गुनीनक्षत्रस्य द्वादश 12 मुहुर्ता: एकस्य च मुहूर्तस्य सप्तचत्वारिंशद् 47 द्वाषष्टिभागा:
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy