________________ इत्थी 640 अमिधानराजेन्द्रः भाग 2 इत्थी पतिलघुभ्रातरं प्रति अगडदत्तस्त्रमिदनिमञ्जरवित। यद्वा स्वकुशीलत्वं केनापि ज्ञाते सति (अन्नं रयतिति) अन्याद्विष भक्षणकाष्ठभक्षणादिकं रचयन्ति कपटेन निष्पादयन्ति / यद्वा जारस्य स्वान्तःकरणाज्ञापनाय (अन्नरयंतित्ति) अन्यदात्म-व्यतिरिक्तं तृणतन्तुदण्डादिकं रदन्ति उत्पादकं कुर्वन्तीत्यर्थः / रद विलेखने इति विलेखनमुत्पाटनमिति / यदा अन्य रयन्तीति अन्यं स्वकान्तव्यतिरिक्तं पुत्रभ्रातृकान्तमित्रादिक प्रति रामा अधमकामाः रथ गतौ रबु गतौ वा रयन्ते रबंति वा गच्छन्ति / तथा [ अन्नरमंतित्ति] अन्यं स्वकान्तव्यतिरिक्तं नरं रमन्ते मैथुनतत्पराः क्रीडयन्तीत्यर्थः पातालसुन्दरीवत् / द्यूतादि प्रकारेण क्रीडयन्ति वा [अन्नस्सदिति उलावंति] अन्यस्योक्तव्यतिरिक्तस्य ददति प्रयच्छन्ति उल्लापं वचनं बोलरूपम्। यद्वा अनेक नरपरिवृता अपि अन्यस्य नरस्य मार्गादिगच्छतः स्थितस्य वा उत्प्राबल्येन लापं मन्मथोद्दीपनशब्द ददतीति / उल्लापयन्ति पाठे तु कामिनरद्वित्र्यादि संभवे सति उन्मत्ताकुरामाः अन्यस्मै ददति उल्लातं प्रबल-पादप्रहारमित्यर्थः। तथा अन्यः कश्चिद्वलीवर्द्दरूपः कटान्तरितः कटान्तर्वर्ती प्रछन्नरहितो भवतीति / तथा अन्यस्त-त्कटाक्षबाणसमूहेन ग्लानीकृतः। पटकान्तरे वस्त्रविशेषान्तरे स्थापितो भवेत् ग्लानवत् इति // 3|| गंगाए वालूयाए, सागरजलं हिमवओय परिमाणं। उग्गस्स तवस्स गइ, गम्भुप्पत्तिं च विलयाए॥ll सिंहे कुंडबुयारस्स, पुलकुकुहाइयं अस्से / जाणंति बुद्धिमंता, महिलाहिययं नयाणंति / / 6 / / गङ्गायां वालुकां वालुकणान्सागरे समुद्रे जलं जल-परिमाणमित्यर्थः / हिमवतो महाहिमवन्नगस्य परिमाणमुधिस्तिर्यकपरिधिप्रतरघनमानम् / उग्रस्य तीव्रस्य तपसो गतिं फल प्राप्तिरूपां गर्भोत्पत्तिं च (वियाएत्ति) वनिताया नार्याः सिंहे कुडंबुयारमिति रूढिगम्यं (पुट्टलंति) जठरोद्भवं (कुकुहाइयंति) गतिकाले शब्दाविशेषमश्वघोटके जानन्ति अवगच्छन्ति बुद्धिमन्तः प्रज्ञावन्तः महिलायाः कटकपटद्रोह परवञ्चन परायाः प्रबलमन्मथाग्निधगधगायमानायाः अतर्कितातुच्छो च्छलितकलकण्ठोदृगच्छद्गीयमानमधुरगेयध्वनिमृगीकृतमुनि वरायाः ललाटे पट्टतटघटितघनश्रीखण्ड तिलक चन्द्रचकोरीकृतचतुरायाः पीनपयोधरपीठलु ठन्निर्मलामलकस्थूलमुक्ताफलहारश्वेतदृग विषभुजगमगतविवेकचैतन्यकृतानेकपाण्डितायाः हृदयं गूढान्तः करणं न जानन्ति न सम्यगवगच्छन्तीति / उक्तंच-"स्त्रीजातौ दाम्भिकता, भीरुकता भूयसी वणिरजातौ / रोषः क्षत्रियजातो, द्विजातिजाती पुनर्लोभः॥शानस्नेहेनन विद्ययानच धिया रूपेण शोर्येण वा, नेप्वाद भयार्थदानविनयक्रोधक्षमामार्दवैः / लज्जायौवनभोगसत्य करुणासत्वादिभिर्वा गुणैर्गृह्यन्तेन विभूतिभिश्चललना दुःशील चित्ता यतः'' ||2|| एरिसगुणजुत्ताणं, ताणं कइयव्व संठियमणाणं। नहु मे वीससियट्वं, महिलाणं जीवलोगम्मि / / ईदृशगुणयुक्तानामुक्त वक्ष्यमाणलक्षणान्वितानां तासां नारीणां कपिवद्वानरवत्संस्थितमनसां नैव भवद्भिः विश्वसितव्य महिलानां जीवलोके इति ||6|| निद्धन्नयं च खलयं, पुप्फेहिं विवजियं च आराम। निदुद्धियं च घेणुं, लोए वि अतिल्लिय पिंडं | 7|| यादृशमिति गम्यते निर्धान्यकं धान्यकणविवर्जितं चारामंता दृशं तरुणी मण्डलं शुभभावनाकुसुमरहितत्वात् / यादृशा निर्दुग्धिका दुग्धरहिता धेनुर्गीस्तादृशाभ्रष्टव्रतिनीधर्मध्यानदुग्धाभावात्तथा लोके अपि शब्दः पूरणार्थे यादृशं (अतिल्लियंति) सर्वथा तैलांशरहितं पिण्ड खलखण्ड तादृशं महिलाव्याघ्रीमण्डलं परमार्थेन स्नेहतैलविवजितत्वात् / / 7 / / जेणंतेरणलोय-णाणि निमिसंति तेण य वियसंति। तेणंतरे वि हिययं, चित्तसहस्साउलं होइदा स्त्रीणां येन परमवल्लभेन सर्वार्थसंप्राप्तिकारकेणान्तरेण विना लोचनानि प्रफुल्लनेत्राणि तत्क्षणे निमिषन्ति संकुचितभावं गच्छन्तीत्यर्थः च पुनस्तेनैव परमवल्लभेन स्वार्थप्राप्त्यकारकेणान्तरेण विना विकसन्ति प्रफुल्लनेत्राणि भवन्तीत्यर्थः / तेणं तरे इति प्राकृतत्वात्तृतीयार्थे सप्तमी अपि शब्द एवार्थे तथा कुलस्त्रीणां हृदयं कदाचित्स्ववल्लभे प्रवर्तते स्ववल्लने सत्यपि कदाचित्तासां चित्तं स्वमानसं सहस्राकुलं स्वकान्तव्यतिरिक्त-पुरुषान्तरसहस्रेषु आकुलं मन्मथभावेन परिभ्रममाणं भवतीत्यर्थः / शाकिनीवत्। अतो मुनिवरैरत्नत्रयरक्षणपरैर्मुक्तगृहारम्भभरैरासां कुरण्ड-मुण्डीदासीयोगिन्यादीनां यथा कथंचित्परिचयो न कार्य इति / अस्या अन्यदपि व्याख्यान्तरं सद्गुरुप्रसादात्कार्यमिति ।तन्दुः।। (12) स्त्रीणामशुचित्वं यथा"मंसं इमं मुत्तपुरीसमीसं, सिंहाणखेलाण य निज्जरंतं / एवं अणिचं किमिआण वासं, पास नराणं भइबाहिराणं" इत्यादि-धर्म / सर्वस्वापकर्षवत्वं यथानो रक्खसीसु गिज्झि-जा गंडवत्थासुणेगचित्तासु। जाओ पुरिसंपलोभित्ता, खेलंति जहावदासेहिं / / 18| नो नै वराक्षस्य इव राक्षस्यः स्त्रियस्तास्तु यथा हि राक्षस्यो रक्तसर्वस्वमपकर्षन्ति जीवितं च प्राणिनामपहरन्त्येवमेता अपि तत्त्वतो हि ज्ञानादीन्येवं जीवितं स्वार्थं च तानि चताभिरपव्हियन्त एव तथा च हारिल: "वातोद्भूतो दहति हुतभुग्देहमेकं नराणां, मत्तो नागः कुपितभुजगश्चैकदेहं तथैव / ज्ञानं शीलं विनय विभवौदार्यविज्ञानदेहान्सर्वानर्यान् दहति वनिता मुष्मिकानैहिकांश्च'' (गिभिज्झति) गृद्धयेदभिकाङ्क्षावान् भवेत् कीदृशीषु (गंडवत्थासुत्ति) गण्ड गण्ड इह चोपचितपिशितपिण्डरूपतथा गलत्पूतिरुधिरार्द्रतासंभवाच तदुपमत्वाद्गण्डे कुचावुक्तौ / तेवक्षसियासांतास्तथाभूतास्तासु वैराग्योत्पादनार्थ चैवमुक्तम्।तथा अनेकान्यनेकसयानि चञ्चलतथा चित्तानि मनांसि यासां तास्तासु अनेकचित्तासु आहच "अन्यस्याङ्के ललति विशदं चान्यमालिङ्गय शेते, अन्यं वाचा वपति हसयत्यन्यमन्यं चरौति।अन्यं द्वेष्टि स्पृशतिकशति प्रोणुते चान्यमिष्ट, नार्यो नृत्यत्तडित इव धिक् चञ्चलावालिकाश्च" तथा (जाउत्ति) याः पुरुष मनुष्यं कुलीनमपीति गम्यते प्रलोभ्यत्वमेव शरणत्वमेव च प्रीतिकृदित्यादिकाभिर्वाग्भिर्विप्रतार्य क्रीडन्ति (जहावत्ति) वा शब्दस्यैवकारार्थत्वाद्यथैव दासैः एह्यागच्छ मा वद त्वं मायासीरित्यादिविवक्षितप्रभृतिक्रीडाभिर्विलसन्ती.ते सूत्रार्थः ||18|| पुनस्तासामेवातिहेयतां दर्शयन्नाह। नारीसु नो पगिज्झिज्जा, इथिविप्पयहे अणगारं /