________________ इत्थी 632 अमिधानराजेन्द्रः भाग 2 इत्थी पोषितुं शीलं येषां ते पुत्रपोषिण उपलक्षणार्थत्वादस्य सवदिश-कारिण एके केचन मोहोदये वर्तमानाः स्त्रीणां निदेशवर्तिनो-ऽपहस्तितैहिका- | मूष्मिकापाया उष्ट्रा इव परवशा भारवाहा भवन्तीति / / 16 / / किंचान्यात् // राओ वि उठ्ठिया संता, दारगं च संठवंति धाई वा। सुहिरामणा वि ते संता, वत्थधोवा हवंति हंसा वा ||17|| रात्रावप्युत्थिताः सन्तो, रुदन्तं दारकं धात्रीवत् संस्थापयन्त्यनेकप्रकारैरुल्लापैः / तद्यथा॥ "सामिउसणीगरस्स यणक्कउरस्स य हत्थकप्पगिरिपट्टणसीहपुरस्स चउणयस्स भिन्नस्स य कुच्छिपुरस्सय कणकुज्जआयामुहसोरियपुरस्स य' इत्येवमादिभिरसंबद्धः क्रीडनकलापैः स्त्रीचित्तानुवर्तिनः पुरुषास्तत्कृर्वन्ति येनोपहास्यतां सर्वस्य व्रजन्ति सुष्टुन्हीर्लज्जा तस्यां मनोन्तःकरणं येषां ते सु-हीमनसो लज्जालवोऽपितेसन्तो विहाय लज्जास्त्रीवचनात्सर्वजधन्यान्यपि कर्माणि कुर्वते तान्येव सूत्रावयवेन दर्शयति। वस्त्रधावका वस्त्रप्रक्षालका हंसा इव रजका इव भवन्ति अस्य चोपलक्षणार्थत्वादन्यदपि उदकवाहनादिकं कुर्वन्ति // 17 // किमेतत् केचन कुर्वन्तीति येनैवमभिधीयते। वाढं कुर्वन्तीत्याह॥ एवं बहुहिकए पुवं, भोगत्थाए जो भियावन्ना। दासेमिव पेसे वा, पसुभूतेव सेण वा केई / / 18 / / एवमिति पूर्वोक्तं स्त्रीणामादेशकारणं पुत्रपोषणवस्वधावनादिकंतद्वहुभिः संसाराभिष्वङ्गिभिः पूर्वं तथापरे कुर्वन्ति करिष्यन्ति च ये भोगकृते कामभोगार्थमै हिकामुष्मिकापायमपालोच्याभिमु-ख्येन भोगानुकूल्येनापन्ना व्यवस्थिताः सावद्यानुष्ठानेषु प्रतिपन्ना इति यावत्। तथा यो रागान्धः स्त्रीवशीकृतः स दासवदशङ्किता-भिस्ताभिः प्रत्यपरेऽपि कर्मणि नियोज्यते। तथा वागुरापतित-परवशो मृग इव धार्यते नात्मवशो भोजनादिक्रियाऽपि कर्तुं लभते / तथा प्रेष्य इव कर्मकर इव क्रीत इव वर्चःशोधनादावपि नियोज्यते / तथा कर्तव्याकर्तव्यविवेकरहिततया हिताहितप्राप्तिपरिहार-शून्यत्वात् पशुभूत इव यथाहि पशुराहारभयमैथुनपरिग्रहाभिज्ञ एवं केवलमसावपि सदनुष्ठानरहितत्वात्पशुकल्पः / यदि वा स स्त्रीवशगो दासमृगप्रेष्यपशुभ्यो प्यधमत्वान्न कश्चित्, एतदुक्तं भवति सर्वाधमत्वात्तस्य तत्तुल्यं नास्त्येव येनासावुपमीयेत / अथवा न स कश्चिदित्युभथभ्रष्टत्वात् / तथाहि न तावत्प्रव्रजितोऽसौ सदनुष्ठानरहितत्वान्नापि गृहस्थस्ताम्बूलादिपरिभोगरहितत्वा-ल्लोचिकामात्रधारित्वाच। यदिवा ऐहिकामुष्मिकानुठायिनां मध्ये न कश्चिदिति // 18 // सांप्रतमुपसंहारद्वारेण स्त्रीसङ्गपरिहारमाह। एवं खु तासु विनप्पं, संथवं संवासं च वजेजा। तजातिआइमे कामा, वञ्जकरा य एवमक्खाए|१९|| एतत्पूर्वोक्तं खु शब्दो वाक्यालंकारे तासु यत्स्थितं तासां वा स्त्रीणां संबन्धि यद्विज्ञप्तमुक्तं / तद्यथा / यदि सकेशया सह न रमसे ततोहं केशानप्यपनयामिइत्येवमादिकम्।तथा स्त्रीमिः सार्धं संस्तवं परिचयं तत्संवासं च स्त्रीमिः सहकैत्र निवासं चात्महितमनुवर्तमानः सर्वापायभीरुस्त्यजेज्जह्यात् / यतस्ताभ्यो जातिरुत्पत्तिर्येषां ते कामास्तजातिकामा रमणीसंपर्कोत्थास्तथाऽवद्यं पापं वजंवा गुरुत्वादधः | पातकत्वेन पापमेव तत्करणशीला अवधकरा वज्रकरा वेत्येवमाख्यातास्तीर्थकरगणधरादिभिः प्रतिपादिता इति // 19 / / सर्वोपसंहारार्थमाह।। एवं भयं ण से याय इइ, से अप्पणं निलंमित्ता। णो इत्थिणो पसुभिक्खुणो सयं पाणिणा णलजेज्जा / / 20 / / एवमनन्तरनीत्या भयहेतुत्वात्स्त्रीभिर्विज्ञप्तं तथा संस्त-वस्तत्संवासश्च भयमित्यतः स्त्रीभिःसाधू संपर्को न श्रेयसे असदनुष्ठानहेतुत्वात्तस्येत्येवं परिज्ञाय स भिक्षुरवगत-कामभोगविपाक आत्मानं स्त्रीसंपर्काभिन्नरुध्य सन्मार्गेप्यव-स्थाप्य यत्कुर्यात्तदर्शयति।न स्त्रियं नरकवीथिप्रायां नापि पशुं लीयेताश्रयेत स्वीपशुभ्यां सह संवासं परित्यजेत् / "स्वीपशुपण्डकवर्जिता शथ्येति" वचनात्तथा स्वकीयेन पाणिना हस्तेना - वाच्यस्य (णलिजेजति) न संबाधनं कुर्यात् / यतस्तदपि हस्तसंवाधनं चारित्रं शवली करोति। यदि वा स्त्रीपश्वादिकं स्वेन पणिनानस्पृशेदिति ||20|| अपिच। सुविसुद्ध लेसे मेहावी, परकिरिअंच वजए नाणी॥ मणसा वयसा काएण, सव्वफाससहे अणगारे ||2|| सुछ विशेषेण शुद्धा स्त्रीसंपर्कपरिसंहाररूपतया निष्कलङ्कालेश्यान्तः करणवृत्तिर्यस्य स तथा स एवं भूतो मेधावी मर्यादायी परस्मैस्त्र्यादिपदार्था क्रिया परक्रिया तां च ज्ञानी विदितवेद्यो वर्जयेत्परिहरेत्। एतदुक्तं भवति। विषयोपभोगोपाधिना नान्यस्य किमपि कुर्यात् नाप्यात्मनः स्त्रिया पादधावनादिकमपि कारयेत् / एतय परक्रियावर्जनं मनसा वचसा कायेन वर्जयेत्तथा ह्यौदारिक-कामभोगार्थ मनसा न गच्छति नान्यं गमयति गच्छन्तमपरं नानु-जानीते एवं वाचा कायेन च सर्वेप्यौदारिके नव भेद एवं दिव्वे ऽपि नव भेदास्ततश्चाष्टादशभेदभिन्नमपि ब्रह्म विभूयात्। यथाच स्त्री-स्पर्शपरिषहः सोढव्य एवं सर्वानपि शीतोष्णदंशमशकतृणादिस्पर्शानपि सहेत / एवे च सर्वस्पर्श सहोऽनगारः साधुर्भवतीति।२१।। क एवमाहेति दर्शयति। इचेव माहु से वीरे, धुअरए धुअमोहे से मिक्खू / तम्हा अब्मत्थ विसुद्धे, सुविमुक्के आमोक्खाएपरिव्वएनासि // (पाठान्तरं विहरे आमुक्खाए त्तिवेमि) इच्चेवमाहुरित्यादि (इत्येवं यत्पूर्वमुक्तं तत्सर्वं स वीरो भगवानुत्पन्नदिव्यज्ञानः परहितैकरत आह उक्तवान् / यत एवमतो धूतमपनीतं रजः स्त्रीसंपर्कादिकृतं कर्म येन स धूतराजाः / तथा धूतो मोहो रागद्वेषरूपो येन स तथा / पाठान्तरं वा धूतोऽपनीतो रागमार्गो रागपन्था यस्मिन् स्त्रीसंस्त-वादिपरिहारात्तत्तथा तत्सर्वभगवान् वीर एवाह / यत एवं तस्मात्सभिक्षुरध्यात्मविशुद्धः सुविशुद्धान्तःकरणः सुष्टु रागद्वेषा-त्मके न स्त्रीसंपर्के ण मुक्तः सन्नामोक्षायाशेषकर्मक्षयं यावत् परि समन्तात्संयमे ऽनुष्ठाने व्रजेद्गच्छेत्संयमोद्योगवान् भवेदिति।। सूत्र०॥२ श्रु०४ अ०1 (10) स्त्रीस्वरूपस्य स्त्रीचरित्रस्य चातिनिन्दनीयत्वम्। तत्रस्वरूपनिन्दा यथाहा असुइसमुप्पनिया, निग्गया जेण चेव दारेणं / सत्ता मोहपसत्था, रमंति तत्थेव असुइदारम्मि||३|| हा इति खेदे अशुद्धिसमुत्पन्ना अपवित्रोत्पन्ना ये नैव द्वारेण निर्गताः चशब्दाद्योगत्वमापन्नाः सत्वा जीवाः मोहप्रसक्ता विषमरक्ताः रमन्ते क्रीडयन्ति / तत्रैवाशु चिद्वारे छे दोक्तं -