________________ 631 अभिधानराजेन्द्रः भाग 2 इत्थी सुफणिं च सागपागाए आमलगा इंदगाहणं च। तिलगकरणिमंजणसलागं प्रिंसु मे विहूणयं विजाणेहिं / 10 (नंदी चुण्णगाइंति) द्रव्यसंयोगनिष्पादितोष्ठमृक्षणचूर्णो-ऽभिधीयते। तेमवंभूतं चूर्ण प्रकर्षेण येन केनचित्प्रकारेणाहरान-येति। तथाऽऽतपस्य वृष्टी संरक्षणाय छत्रंतथोपानहौ च ममानुजानीहिन मे शरीरमेभिर्विना वर्ततेततोददस्वेति। तथाशस्त्रंदात्रादिकं सूपच्छेदनायपत्रशाकच्छेदनार्थ ढौकयस्व / तथा वस्त्रमम्बरं परिधानार्थं गुलिकादिना रञ्जय यथा नीलमीषन्नीलं सामस्त्येन वा नीलं भवत्युपलक्षणार्थत्त्वाद्रक्तं यथा भवतीति।।९।। तथा (सुफणिं चेत्यादि) सुष्ठु सुखेन वा फण्यते क्वाथ्यते तक्रादिकं यत्र तत्सुफणिस्थालिपिठरादिकं भाजनमभिधीयते तच्छाकपाकार्थमानय / तथा आमलकानि धात्रीफलानि स्नानार्थं पित्तोपशमनायाभ्यवहारार्थं वा / तथोदकमाव्हियते येन तदुदकाहरणं कुटवर्धनिकादि अस्य चोपलक्षणार्थत्वाद् धृततैलाद्याहरणं सर्वं वा गृहोपस्करं ढौकस्वेति। तिलकः क्रियते यया सा तिलककर्णी दन्तमयी सुवर्णात्मिका वा शलाका यया गोरोचनादियुक्तया तिलकः क्रियते इति / यदि वा गोरोचनया तिलकः क्रियतेसाच तिलककर्णीत्युच्यते। तिलकाः क्रियन्ते पिष्यन्ते वा यत्र सा तिलककण्णीत्युच्यते तथाञ्जनं सौवीरकादि शलाका अगोरञ्जनार्थं शलाका अञ्जनशलाका तामाहरेति। तथा ग्रीष्मे उष्णाभितापे सति मे मम विधूनकं व्यजनकं विजा-नीहि // संडासगंच फणिहंच, सीहलि पासगं च आणाहि। आदसगं च पयच्छाहि, दंतपक्खालणं पवेसाहि||११|| पूयफणं तंबोलयं, सूई सुत्तगं च जाणाहि। कोसंयमो च मेहाए, सुप्पु खलगं च खारगालणं च ||12|| एवं संडासिकं नासिकाकेशोत्पाटनं फणिहं केशसंयम नार्थ कङ्कतकं तया (सीहलिपासगंति) वीणासंयमनार्थमूर्णामयं कङ्कणं चानय ढौकयेति / एवमासमन्तादृश्यते आत्मायस्मिन् स आदर्शः स एव आदर्शकस्तं प्रयच्छ ददस्वेति। तथा दन्ताः प्रक्षाल्यन्ते अपगतमलाः क्रियन्ते येन तद्दन्तप्रक्षालनं दन्तकाष्ठं तन्मदन्तिके प्रवेशयेति // 11|| (पूयफलं चेत्यादि) पूगफलं प्रतीतंताम्बूलं नागवल्लीदलं तथा सूचीं च सूत्रं च सूच्यर्थं वा सूत्रं जानीहि ददस्वेति / तथा कोशमिति वारकादिभाजनंतन्मोचमेहाय समाहर तत्र मोचः प्रस्त्रयणं कायिकेत्यर्थः / तेन मेहः सेचनं तदर्थं भाजनं ढौकय / एतदुक्तं भवति बहिर्गमनं कर्तुमहमसमर्था रात्रौ भयादतो मम यथा रात्री बहिर्गमनं न भवति तथा कुरु। एतचान्यस्या-प्यधमतमकर्तव्यस्योपलक्षणं द्रष्टव्यम्। तथा शूर्प तण्डु-लादिशोधनार्थं तथोलूखलं तथा किंचन क्षारस्य सर्जिकादेगालनकमित्येवमादिकमुपकरणं सर्वमप्यानयेति / / 12 / / किंचान्यत् // चंदालगं च करगं च, वचघरं च आउसो खणइ। सरपायं च जयाए, गोरहगं च सामणए य ||13|| घडियं च सडिंडिमयं च, चेलगोलं कुमार भूयाए। वासं समभि आवण्ण, आव सहं च जाण भत्तं च / / 14 / / चंदालकमिति देवतार्चनिकाद्यर्थं ताममयं भाजनमेतच मथुरायां चन्दालकत्वेन प्रतीतमिति / तथा करको जलाधारो महिराभाजनं वा तदानयेति क्रिया। तथा वषैगृहं पुरीषोत्सर्गस्थानंतदायुष्मन्मदर्थ खन संस्कुरु।तथा शरा इषवः पात्यन्ते क्षिप्यन्तेयेनतच्छरपारं धनुस्तजाताय मत्पुत्राय कृते ढौकय / तथा (गोरहगंति) त्र्यहायणं बलीव ढौकयेति (सामणएत्ति) श्रमणस्थापत्यं श्रामणिस्तस्मै श्रामणये त्वत्पुत्राय गन्त्र्यादिकृते भविष्यतीति / / 13 / / तथा (घडिगंचेत्यादि) घटिकां मृन्ययकुल्लुडिकां डिण्डिमेन पटहकादिवादित्रवि शेषेण सह तथा (चेलगोलंति) वस्त्रात्मकं कं दुकं कुमारभूताय क्षुल्लक भूताय राजकुमाररूपाय वा मत्पुत्राम् क्रीडनार्थमुपानयेति / तथा वर्षमिति / प्रावृटकालोऽय-मभ्यापन्नो भिमुखं समापन्नोऽत आवसथं गृहं प्रावृट्टकालनि-वासयोग्यं तथा भक्तं च तन्दुलादिकं तत्कालयोग्यं जानीहि निरूपय निष्पादय येन सुखेनैवाऽनागतपरिकल्पितावसथादिना प्रावृ-ट्कालोऽतिवाह्यत इति / तदुक्तं "मासैरष्टभिरहा च, पूर्वेण वयसाऽऽयुषा / तत्कर्तव्यं मनुष्येण, यस्यान्ते सुखमेधते" // 14 // एवं च। आसंदियं च नवसुत्तं, पाउल्लाइं संकमट्ठाए। अदुपुत्तदोहलट्ठाए-आणप्पा हवंति दासा वा||१५|| मौजे काष्ठपादुके बा संक्रमणार्थं पर्यटनार्थं निरूपय यतो नाहं निरावरणपादा भूमौ पदमपि दातुं समर्थेति। अथवा पुत्रे गर्भस्थे दौहृदः पुत्रदौहृदः अन्तर्वत्नी फलादावभिलाषविशेषस्तस्मैतत्संपादनार्थ स्त्रीणां पुरुषाः स्ववशीकृता दासा इव क्रयक्रीता इवाज्ञाप्या आज्ञापनीया भवन्ति / यथा दासा अलज्जितैर्योग्यत्वादाज्ञाप्यन्ते एवं तेऽपि वराकाः स्नेहपाशावपाशिता विषयार्थिनः स्त्रीभिः संसारावतरणवीथीभिरादिश्यन्त इति // 15 // अन्यच्चजाए फले समुप्पन्ने, गेहं सुबाणं अहवा जहाहि। अह पुत्तपोसिणो एगे, भारवहे हवंति उट्टावा ||16|| जातपुत्रः स एव फलं गृहस्थानाम्, तथाहि पुरुषाणां कामभोगफलं तेषामपि फलं प्रधानं कार्य पुत्रजन्मेति। तदुक्तम्। 'इदं तत्स्नेहसर्वस्वं, सममाढ्यदरिद्रयोः / अचन्दनमनौशीरं, ददयस्यानुलेपनम् / / 1 / / यत्तच्छपनिकेत्युक्तं, बालेनाव्यक्त-भाषिणाहित्या सौख्यं च योग च, तन्मे मनसि वर्तते-" |शा यथा लोके पुत्रसुखं नाम द्वितीयं सुखमात्मन इत्यादि / तदेवं पुत्रः पुरुषाणां परमाभ्युदयकारणं तस्मिन्समुत्पन्ने जाते तदुद्देशेन याः विडम्बनाः पुरुषाणां भवन्ति। अमुं दारकं गृहाण त्वमहन्तु कर्मासक्ता न मे ग्रहणावसरोऽस्ति / अथ चैनं जहाहि परित्यज नाहमस्य वार्तामपि पृच्छाम्येवं कुपिता सती ब्रूते भयाऽयं नव मासानुद-रेणोढस्त्वं पुनरुत्सङ्गे नाप्युद्वहने स्तोकमपि कालमुद्विजस इति / दासदृष्टान्त-स्त्वादेशदानेनैव साम्यं भजते नादेशनिष्पादनेनैव तथाहि दासभयात्रु-दन्नोदशं विधत्ते स तु स्त्रीवशगोऽनुग्रहं मन्यमानो मुदितश्च तथा देशं विधत्ते "यदेव रोचते मां, तदेव कुरुते प्रिया / इति वेत्ति न जानाति, तत्प्रियं यत्करोत्यसौ // 1|| ददाति प्रार्थितप्राणान्मातरं हन्ति तत्कृते। किन्नदद्यात्किन्न कुर्यात्स्त्रीभिरभ्यर्थितो नरः // 2 / / ददाति शौच पानीयं, पादौ प्रक्षालयत्यपि श्लेष्माणमपि गृण्हाति, स्त्रीणां वशगतो नरः // 3 // तदेवं पुत्रनिमित्तमन्यद्वायत्किंचिन्निमित्तमुद्दिश्य दासमिवादिशन्ति / अथ तेऽपि पुत्रान्