________________ इत्थी 629 अभिधानराजेन्द्रः भाग 2 इत्थी प्रयोजनमहं त्वत्परित्यक्ताऽग्निं विशामि ततोसाववोचत् मायया इदमप्यस्ति वैशिके तदाऽसौ पूर्व सुरङ्गामुखे काष्ठसमुदायं कृत्वा तं प्रज्वाल्य तत्रानुप्रविश्य सुरङ्गया गृहमागता / दत्तकोपि इदमपि चास्ति वैशिके इत्येवमसौ विलपन्नपि वातिकैश्चिता-यांप्रक्षिप्तस्तथापि नासौ तासुश्रद्धानं कृतवानेवमन्येनापि न श्रद्धातव्यमिति // 24 // किंचान्यत्॥ जुवती समणं बूया विचित्तलंकारवत्यगाणि परिहिता / / विरता चरिस्सहं रुक्खं धम्ममाइक्खणे भयंतारो / / 21 / / युवतिरभिनवयौवना स्त्री विचित्रवस्त्रालंकारविभूषितशरीरा मायया श्रमणं ब्रूयात्। तद्यथा। विरताहं गृहपासान्न ममानुकूलो भर्त्ता मा चासौ नरोचते परित्यक्ता चाहं तेनेत्थतश्चरिष्यामिधर्ममाचक्षाणेति अस्माकं हे भयत्रातर्यथाहमेवं दुःखानां भाजनं न भवामि तथा धर्ममावेदयति / / किंचान्यत्अदु साविया पवारणं, अहमासि साहाम्मिणीय समणाणं / जतुकुंभेजह उपजोइ, संवासे विदु विसीएजा // 26 // अथवा ऽनेन प्रवादेन व्याजेन साध्वन्तिकं योषिदुपसर्पत / यथाहं श्राविकेति कृत्वा युष्माकं श्रमणानां साधर्मिणरित्येवं प्रपञ्चेन नेदीयसी भूत्वा कूलवालुकमिव साधुंधर्माद्भशयति एतदुक्तं भवति योषित्सान्निध्यं ब्रह्मचारिणां महते ऽनर्थाय तथाचोक्तम् "तज्ज्ञानंतच विज्ञानंतत्तपः स च संयमः / सर्वमेकपदे भूष्टं सर्वथा किमपि स्त्रियः१" अस्मिन्नेवार्थे दृष्टान्तमाह यथा जातुषः कुम्भो ज्योतिषोनेः समीपे व्यवस्थित उपज्योतिर्वर्ती विलीयतेद्रवत्येवं योषितांसंवासे सान्निध्ये विद्वानप्यास्तां तावदितरो योऽपि विदितवेद्योऽसावपि धर्मानुष्ठान प्रति विषीदेत शीतलविहारी भवेदिति // 26 // (7) एवं तावत्स्त्री सान्निध्ये विपाकान् प्रदर्श्य तत्संस्पर्शजं दोषं दर्शयितुमाहजतुकुंभे जोइ उवगूढे, आसुमितत्तेण समुवयाइ। एवि त्थियाहिं अणगारा, संवासेणणासमुवयंति / / 27 / / यथा जातुषः कुम्भो ज्योतिषग्निनोपगूढः समालिङ्गितिोऽभिततोऽग्निनाभिमुख्येन संतापितः क्षिप्रं नाशमुपैति द्रवीभूय विनश्यत्येवं स्त्रीभिः सार्धं संवसनेन परिभोगेनानगारा नाशमुपयान्ति सर्वथा जातुषकुम्भवत्। व्रतकाठिन्यं परित्यज्य संयमशरीराद्धृश्यन्ति।२७। कुव्वंति पावगं कम्म, पुट्ठा वेगे व माहिसु॥ नोहं करेमि पावंति, अंके साइणी ममे सत्ति / / 28 / / तासु संसाराभिष्वङ्गिणीष्वभिसक्ता अवधीरितैहिका-मुष्मिकापायाः पापं कर्म मैथुनासेवनादिकं कुर्वन्ति विदधति। परिभ्रष्टाः सदनुष्ठानादेके केचनोत्कटमोहा आचार्यादिनां चोद्यमाना एवमाहुर्वक्ष्यमाणमुक्तवन्तः। तद्यथा नाहमेवंभूतकुलप्रसूतः एतदकार्यं पापोपादानभूतं करिष्यामि ममैषा दुहितृकल्पा पूर्वमङ्गे शायिनी आसीत् तदेषा पूर्वाभ्यासेनैव मय्येवमाचरति न पुनरहं विदितसंसारस्वभावः प्राणात्ययेऽपि व्रतभङ्गं विधास्य इति। किंचबालस्स मंदयं बीजं,जंच कडं अवजाणई भुजो॥ दुगुणं करेइ से पावं, पूयणकामो विसनेसी॥२५|| बालस्याज्ञस्य रागद्वेषाकुलितस्यापरमार्थदृश एतद्वितीय माद्यम- | ज्ञत्वमेकतावदकार्यकरणेनचतुर्थव्रतभङ्गो द्वितीयं तदपलपनेन मृषावादः। तदेव दर्शयति यत्कृतमसदाचरणं भूयः पुनरपरेण वोद्यमानोऽपजानीतेऽपलपति नैतन्मया कृतमिति स एवं भूतोऽसदनुष्ठानेन तदपलपनेन च द्विगुणं पापं करोति / किमर्यम-पलपतीत्याह / पूजनं सत्कारपुरस्कारस्तत्कामस्तदभिलाषी न मे लोके अवर्णवादः स्यादित्यकार्य प्रच्छादयति। विषण्णो-ऽसंयमस्तमेषितुं शीलमस्येति विषण्णेषी। किंचान्यत्॥ संलोकणिज्जमणगारं, आयगयं निमंतणेणाहंसु / / बत्थं च ताय पायं वा, अन्नं पाणगं पडिग्गहे ||30|| संलोकनीयं संदर्शनीयमाकृतिमन्तं कंचनानगारं साधुमात्मनि गतमात्मगतमात्मज्ञमित्यर्थः। तदेवं भूतं काश्चन स्वैरिण्यो निमन्त्र-णेन निमन्त्रणपुरःसरमाहुरुक्तवत्यः। तद्यथा हेशयिन्। साधो वस्त्रं पात्रमन्य द्वा पानादिकं येन केनचिद्भवतः प्रयोजनं तद हं भवते सर्व ददामीति मद्गृहमागत्य प्रतिगृहाण त्वमिति उपसंहारार्थमाह।। णीवारमेवं बुज्झेजा, णो इच्छे अगारमागंतुं / / बद्धे विसयपासेहि,मोहमावज्जइ पुणो मंदि||३१|| एतद्योषितां वस्त्रादिकमामन्त्रणं नीवारकल्पं बुध्येत जनीयात् यथाहि नीवारेण केनचिद्भक्ष्यविशेषेण सूकरादिवशमानीयते एवमसावपि तेनामन्त्रणेन वशमानीयते अतस्तं नेच्छे दगारं गृहं गन्तुम् / यदिव गृहमेवावर्तो गृहावर्तो गृहं भ्रमस्तं नेच्छेत् नाभिलष्येत्। किमिति यतो बद्धो वशीकृतो विषया एव शब्दादयः पाशा रज्जुबन्धनानि तैर्बद्धः परवशीकृतः स्नेहपाशानपत्रोटयितुमसमर्थः सन्मोहं चित्तव्याकुलत्वमागच्छति / किं कर्तव्यमूढो भवति पौनःपुन्येन मन्दोऽज्ञो जडइति / उक्तः प्रथमोद्देशकः / सांप्रतं द्वितीयः समारभ्यते। अस्य चायमभिसंबन्धः इहानन्तरोद्देशके स्त्री संस्तवाचारित्रस्खलनमुक्तं स्खलितशीलस्य या अवस्था इहैव प्रादुर्भवति तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते इत्यनेन संब-न्धेनायातस्योद्देशकस्यादिमसूत्रम्।। ओए सया ण रज्जेज्जा, भोगकामी पुणो विरओज्जा / / भोगे समणाण सुणेह, जह मुंजंति भिक्खुणो एगे / / 1 / / अस्य चानन्तरं परस्परसूत्रसंबन्धो वक्तव्यः / स चायं संबन्धो विषयपाशैर्मोहमागच्छति। यतोऽत ओज एको रागद्वेषवियुतः स्त्रीषु रागं न कुर्यात् / परस्परसूत्रसंबन्धस्तु संलोकनीयमनगारं दृष्ट्वा च यदि काचिद्योषित् साधुमशनादिन नीवारकल्पेन प्रतारयेत्तत्रौजः सन्न रज्येतेति तत्रौजो द्रव्यतः परमाणुर्भावतस्तुरागद्वेषवियुतः स्त्रीषुरागादिहैव वक्ष्यमाणनीत्था नानाविध विडम्बना भवन्ति तत्कृतश्च कर्म बन्धस्तद्विपाकाचामुत्र नरकादो तीव्रा वेदना भवन्ति यतोऽत एतन्मत्वा भावौजः सन् सदा सर्वकालं वाऽनर्थखनिषु स्त्रीषु न रज्येत / तथा यद्यपि मोहोदयात् भोगाभिलाषी भवेत्तथाप्यै-हिकामुष्मिकापायान् परिगणय्य पुनस्ताभ्यो विरज्येत। एतदुक्तं भवति कर्मोदयात्प्रव्रत्तमपि चित्तं हेयोपादेयपर्यालोचनया ज्ञानाङ्कुशेन निवर्तयेदिति / तथा श्राम्यन्ति तपसा खिद्यन्तीति श्रमणास्तेषामपि भोग इत्येतच्छृणुत यूयम् / एतदुक्तं भवति गृह स्थानामपि भोगा विडम्बनाप्राया यतीनांतु भोगा इत्येतदेव विडम्बनाप्रायं किं पुनस्तत्कृतावस्था। तथाचोक्तं मुण्ड शिर इत्यादि पूर्ववत् / यथा यथा च भोगानेकेऽपुष्टधर्माणो भिक्ष