________________ इत्थी 628 अमिधानराजेन्द्रः भाग 2 इत्थी किं न पर्याप्त यदि वा मायावी महासठश्चायमित्येवं तथाविदस्ताद्विदो जानन्ति / तथाहि प्रच्छन्नकार्यकारी न मां कश्चिज्जानातीत्येवं रागान्धो मन्यते अथ चतं तद्विदो वदन्ति। तथाचोक्तं। "नयलोणं लोणिज्जइणय ओपिज्जइ वयं च तेल्लं वा / कि हसक्का वंचे उअत्ता अणहूय कल्लाणो" ||शा 18 किंचान्यत्॥ सयं दुकडं च न वदति, आइहो विपकत्थति बाले। वेयाणु वीइमाकासी, चोइज्जतो गिलाइसे भुजो // 19|| स्वयमात्मना प्रच्छन्नं यदुष्कृतं कृतं तदपरेणाचार्यादिना पृष्टो न वदति न कथयति यथाहमस्याऽकार्यस्य कारीति स च प्रच्छन्नपापो मायावी स्वयमवदन् यदा परेणादिष्टश्चोदितोपि सन् बालोऽज्ञो रागद्वेषकलितो वा प्रकत्थते आत्मानं श्लाघमानोऽकार्यमपलपति वदति च यथाहमेवंभूतमकार्य कथं करिष्ये इत्येवं धाश्यत्प्रिक-त्थते। तथा वेदः पुंवेदोदयस्तस्यानुवीच्याऽऽनुकूल्यं मैथुनाभिलाषं तन्माकार्षीरित्येवं भूयः पुनश्चोद्यमानोऽसौ ग्लायति ग्लानि-मुपयात्यकर्णश्रुतं विधत्ते मर्मविद्धो वा सखेदमिव भाषते / तथा चोक्तम् / “संभाव्यमानपापोहमपापेनापि किं मया। निर्विष-स्यापि सर्पस्य, भृशमुद्विजते जन'' इति अपिच। उसिया विइत्थिपोसे सुपुरिसा इत्थिवेयखेदना। पण्णा समनितावेगे, नारीण वसं उवकसति / / 20 / / स्त्रियं पोषयन्तीति स्त्रीपोषका अनुष्ठानविशेषास्तेषूषिता व्यवस्थिता अपि पुरुषा मनुष्या भुक्तभोगिनोपीत्यर्थः स्त्रीवेदज्ञाः स्त्रीवेदोमायाप्रधान इत्येवं निपुणा अपि तथा प्रज्ञया औत्पत्ति-क्यादिबुध्या समन्विता युक्ता अप्येके महामोहान्धचेतसो नारीणां सम्यक् स्त्रीणां संसारावतरणवीथीनां वशं तदायत्ततामुपसामीप्येन कषन्ति व्रजन्ति यद्यत्ताः स्वप्रायमाना अपि कार्यमकार्य वा ब्रुवते तत्तत्कुर्व ते न पुनरेतज्जानन्ति यथैता एवं भूता भवन्तीति। तद्यथा "एता हसन्ति च रुदन्ति च कार्यहेतो-विश्वासयन्ति च नरं न च विश्वसन्ति / तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वर्जनीया ||1|| तथा "समुद्रवीचीव चलस्वभावाः संध्याभ्ररेखेव मुहुर्तरागाः / स्त्रियः कृतार्थाः पुरुष निरर्थक निष्पीडितालक्तकवत्त्यजन्ति // 2 // " अत्र च स्त्रीस्वभावपरिज्ञाने कथानकमिदम्। तद्यथैको युवा स्वगृहान्निर्गत्य वैशिकं कामशास्त्रमध्येतुं पाटलिपुत्रं प्रस्थितः / तदन्तरालेऽन्यतरग्रामवर्तिन्यैकयायोषिताऽभिहितस्तद्यथा सुकुमारपाणिपा-दशोभनाकृतिस्त्वंक्च प्रोऽसि तेनापि यथास्थितमेव तस्य कथितम्। तया चोक्तं वैशिकं 5. त्या मम मध्ये नागन्तव्यं तेनापि तथैवाभ्युपगतम् / अधीत्य चासौ मध्येनायातस्तया च स्नानभाजनादिना सम्यगुपचरितो विविधहावभावैश्वापहृतहृदयः संस्तां हस्तेन गृह्णाति ततस्तया महताशब्देन फूत्कृत्य जनागमनावसरे मस्तके वारिवर्द्धनिका प्रक्षिप्ता। ततोलोकस्य समाकुले एवमाचष्टे यथायं गले लग्नेनोदकेन मनाक् मृतःततो मयोदकेन सिक्त इति गते च लोके किं त्वया वैशिकशास्त्रोपदेशेन स्त्रीस्वभावानां किं परिज्ञातमित्येवं स्त्रीचरित्रंदुर्विज्ञेयमिति नात्रास्था कर्तव्येति तथाचोक्तम् / "हृद्यन्यद्वाच्यन्यत्कर्मण्यन्यत्पुरोध पृष्ठेऽन्यत्॥ अन्यत्तव मम चान्यत् स्त्रीणां सर्वं किमप्यन्यत्" ||20|| साम्प्रतमिहलोक एव स्त्रीसम्बन्धविपाकं दर्शयितुमाह। अवि हत्थपादच्छेदाए, अदुवा बद्धमंस उक्कते। अविते य साभितावणानि, निब्भत्थिय खारसिंचणाइं च / / स्त्रीसंपर्को हि संसर्गिणां हस्तपादच्छेदनाय भवति / अपि संभावने संभाव्यत एतन्मोहातुराणां संबन्धाद्धस्तपादच्छेदादिकम् / अथवा बर्नमांसोत्कर्तनमपि तेजसाग्निनाऽभितापनानि स्त्रीसंबन्धिभिरुत्तेजितैराजपुरुषैर्भटित्रकाण्यपि क्रियन्ते या दारिकास्तथा वास्यादिना तक्षयित्वा क्षारोदकसेचनानि च प्रापयन्तीति॥२१॥ अपिचअदु कण्णणासछेदं, कंठच्छेदणं तितिक्खंति॥ इत्थ पावसंतत्ता, न य विंति पुणो न कार्हिति / / 2 / / अथ कर्णनासिकाच्छेदं तथा कण्ठच्छेदनं च तितिक्षन्ते स्वकृतदोषान्सहन्ते इत्येवं बहुविधां विडम्बनामस्मिन्नेव मानुषे च जन्मनि पापेन पापकर्मणा संतप्ता नरकातिरिक्तां वेदनामनुभवन्ती-ति / न च पुनरेतदेवं भूतमनुष्ठानं करिष्याम इति ब्रुवत इत्यवधारयन्तीति यावत्। तदेवमैहिकामुष्मिका दुःखविडम्बना अप्यङ्गीकुर्वन्ति न पुनस्तदकरणतया निवृत्तिं प्रतिपद्यन्त इति भावः / / 2 / / किंचान्यत् - सुतमेतमेवमेगेसिं, इत्थि वेदेति हु सुयक्खायं // एवं पितावदित्ताणं, अदुवा कम्मणा अवकरेंति / / 23|| श्रुतमुपलब्धंगुर्वादः सकाशाल्लोकतो वा एतदिति यत्-पूर्वमाख्यातम्। तद्यथा / दुर्विज्ञेयं स्त्रीणां चित्तं दारुणः स्त्रीसंबन्ध विपाकस्तथा चलस्वभावाः / स्त्रियो दुष्परिचारा अदीर्धप्रेक्षिण्यः प्रकृत्या लध्व्य भवन्त्यात्मर्गीविताश्चेत्येवमेकेषां स्वा ख्यातं भवति लोकश्रुतिपरंपरया चिरंतनाख्यासु वा परिज्ञातंभवति / तथा स्त्रियं यथावस्थितस्वभावतस्तत्सबंन्धविपाकतश्च वेदयति ज्ञापयतीति स्त्रीवेदो वैशिकादिकं स्त्रीस्वभावाविर्भावकं शास्त्रमिति। तदुक्तम्। "दुर्ग्राह्य हृदयं यथैव वदनं यदर्पणान्तर्गतं, भावः पर्वतमार्ग-दुर्गविषमः स्त्रीणां न विज्ञायते / चित्त पुष्करपत्रतोयतरलं नैकत्र संतिष्ठते नार्यो नाम विषाकुरैरिव लता दोषैः समं वर्धिता ||1|| अपिच / 'सुटु विजयासु सुठु वि, पियासु सुटु लद्धपसरासु / अडईसु माहि लियासु य, वीसंभो नेव कायब्वो // 1|| उज्झेउ अंगुलीसो, पुरिसो सयलंमि जीवलोयम्मि / कामे त एण नारी, जेणन पत्ताइ दुःखाई॥शाअह एयाणं पगई सव्वस्त करेंति येमणस्साई। तस्स ण करेंति णवरं, जस्स अलं चेव कामेहिं / / 3 / / किंच कार्यमहं न करिष्यामीत्येवमुक्त्वापिवाचा (अदुवति) तथा पि कर्मणापि क्रिययाऽप कुर्वन्तीति विरूपमाचरन्ति / यदिवा ऽग्रतः प्रतिपाद्यापि शास्तुरेवापकुर्वन्तीति // 23 // सूत्रकार एवं तत्स्वरूपाविष्करणायाह / / अन्नं मणेण चिंतेति वाया अन्नं च कम्मणा अन्नं / / तम्हाणसद्दर्हि भिक्खू बहुमायाओ इत्थिओ ण चा ||24|| पातालोदरगम्भीरेण मनसाऽन्यचिन्तयन्ति तथा श्रुतमात्रपेशलया विपाकदारुणया वाचा अन्यद्भाषन्ते / तथा कर्मणानुष्ठाने मान्यन्निष्पादयन्ति यत एवं बहुमायाः स्त्रिय इति एवं ज्ञात्वा तस्मात्तासां भिक्षुः साधुन श्रद्दधीत तत्कृतया माययाऽऽत्मानं न प्रतारयेत् / दत्तावैशिकवत् / अत्र चैतत्कथानम् / दत्तावैशिक एकया गणिकया तैस्तैः प्रकारैः प्रतार्यमाणोपि तां नेष्टवान् ततस्तयोक्तं मया कि दौर्भाग्यक लङ्काङ्कितया जीवन्त्या