________________ आउट्टि 39 अमिधानराजेन्द्रः भाग 2 आउट्टि स्तोऽपि धुवराशि: पञ्चशतानि त्रिसप्तत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य षट्त्रिंशत् द्वाषष्ठिभागा एकस्य च द्वाषष्टिभागस्य षट् सप्तषष्ठिभागा: (173) (36626 67) इत्येवं प्रमाणो गुण्यते। तत्र मुहूर्तराशौ दशभिर्गुणिते जातानि सप्तपञ्चाशत् शतानि त्रिंशदधिकानि (5730) येऽपि च षट्त्रिंशद्-द्वाषष्टिभागास्तेऽपि दशभिर्गुणिते जातानि त्रीणि शतानि षष्ट्यधिकानि (360) तेषां द्वाषष्ट्या भागे हृते लब्धाः पञ्च 5 मुहूर्तास्ते पूर्वराशौ प्रक्षिप्यन्ते जात: पूर्वराशि:- सप्तपञ्चाशच्छतानि पञ्चत्रिंशदधिकानि (1735) शेषास्तिष्ठन्ति द्वाषष्ठिभागा: पञ्चाशत् (50) येऽपि च षट्चूर्णिकाभागास्तेऽपि दशभि 10 गुणिता जाता षष्टिः 60. तत एतस्मात् शोधनकानि शोध्यन्ते / तत्रोत्तराषाढान्तानां नक्षत्राणां शोधनकमष्टौ शतान्येकोनविंशत्यधिकानि (819) एतानि किल यथोदितराशेः सप्तकृत्यः शुद्धिमाप्नुवन्तीति सप्तभिर्गुण्यन्ते जातानि सप्तपञ्चाशच्छतानि त्रयस्त्रिंशदधिकानि (1733) तानि पञ्चाशच्छतेभ्य: पञ्चत्रिंशदधिकेभ्य: पात्यन्ते स्थितौ पश्चात् द्वौ 2 मुहूर्तों द्वाषष्टिभागकरणार्थं द्वाषष्ट्या 62 गुण्येते जातं चतुर्विशत्यधिकं शतं (124) द्वाषष्टिभागानाम् तत: प्राक्तने पञ्चाशल्लक्षणे द्वाषष्टिभागराशौ प्रक्षिप्यते जातं चतुःसप्तत्यधिकं शतम् (174) द्वाषष्टिभागानां, तथापि ये अभिजित: संबन्धि नश्चतुर्विंशतिषष्टिभागा: शोध्यास्ते सप्तभिर्गुण्यन्ते जातमष्टषष्ट्यधिकं शतम् (168) तत्चतु:- सप्तत्यधिकात् शतात् शोध्यते स्थिता: शेषा षट् द्वाषष्टिभागाः / ते च चूर्णिकाभागकरणार्थ सप्तषष्ट्या गुण्यन्ते गुणयित्वा च ये प्राक्तना: षष्टिः सप्तषष्टिभागा: ते तत्र प्रक्षिप्यन्ते जातानि चत्वारि शतानि द्वाषष्ट्यधिकानि (462) ततो ये अभिजित: संबन्धिन षट्षष्टिश्चूर्णिकाभागा: शोध्या: ते सप्तभिर्गुण्यन्ते जातानि चत्वारि शतानि द्वाषष्ट्यधिकानि (462) तान्यनन्तरोदितराशेः शोध्यन्ते, स्थितं पश्चात् शून्यम् / तत आगत-साकल्येनोत्तराषाढानक्षत्रे चन्द्रेण भुक्ते सति तदनन्तरस्याभिजितो नक्षत्रस्य प्रथमसमये युगे प्रथमा आवृत्ति: प्रवर्तते। ज्यो० 12 पाहु / चन्द्र०१२ पाहु। सू.प्र.। अथ श्रावणमासभाविनीनामावृत्तीनां चन्द्रनक्षत्रस्य संग्रहणीं गाथामाहपढमा होइ अभिइणा, संठाणाहि य तहा विसाहाहिं। रेवतीए उ चउत्थी, पुव्वहि फग्गुणीहि तहा / / 235 / / श्रावणमासभाविनीनामनन्तरोदितस्वरूपाणां पञ्चानामावृ-त्तीनांमध्ये | प्रथमा आवृत्तिरभिजिता नक्षत्रेण युता भवति, द्वितीया 'संठाणाहिं' तिमृगसिरसा, तृतीया विशाखाभिः, चतुर्थी रेवत्या, पञ्चमी पूर्वफाल्गुनीभिः / ज्यो०१२ पाहु। सम्प्रति वार्षिकीणामेवाऽऽवृत्तीनां नक्षत्रयोगं प्रश्नरीत्या प्रतिपादयतिता एएसिणं पंचण्हं संवच्छराणं पढमं वासिक्किं आउट्टि चंदे केणं णक्खत्तेणं जोगं जोएति ? ता अभिइणा, अमिजिस्स पढमसमएणं, तं समयं च णं सूरे केणं णक्खत्तेणं जोगं जोएति? तापूसेणं, पुस्सस्स एगूणवीसं मुहूत्ता तेतालीसं च वावट्ठिभागा मुहुत्तस्य वावट्ठिभागं च सत्तट्ठिहा छेत्ता तेतालीसांचुणिया भागा सेसा, (सूत्र७६) "ता एएसिणमि' त्यादि, एतेषाम्- अनन्तरोदितानां पञ्चानां चन्द्रादीनां संवत्सराणां', मध्ये प्रथमां वार्षिकी- वर्षाकाल- संबन्धिनीं। श्रावणमासभाविनीमित्यर्थः। आवृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति?- केन नक्षत्रेण सह योगमुपागतः सन् प्रवर्त्तयति ? एवं गौतमेन प्रश्ने कृते भगवानाह- 'ता अभिजिणा' इत्यादि, अभिजिता नक्षत्रेण युनक्ति, एतदेव विशेषत आचष्टे- अभिजितो नक्षत्रस्य प्रथमसमये युनक्ति, तदेवं चन्द्रनक्षत्रमवबुध्य:, सूर्यनक्षत्रविषयं प्रश्नमाह-"तं समयं च णमि' त्यादि, तस्मिंश्च समये णमिति वाक्यालङ्कारे, सूर्यः केन नक्षत्रेणा युनक्ति- केन नक्षत्रेण सह सूर्यो योगमुपागत: सन् तां प्रथमामावृत्तिं- प्रवर्तयनीति? भगवानाह- 'ता पूसेणमि' त्यादि, ता इति पूर्ववत्, पुष्येण युक्तस्तां प्रथमामावृत्तिं युनक्ति, एतदेव सविशेषमाचष्टेतदानींपुष्यस्य एकोनविंशति 19 मुहूर्तास्त्रिचत्वारिंशत् 43 च द्वाषष्टिभागा मुहूर्तस्य एकं च द्वाषष्टिभाग सप्तषष्टिधा छित्त्वा तस्य सत्कास्त्रयस्त्रिंशत् 33 चूर्णिकाभागाः शेषाः / कथमेतदवसीयत इति चेत्, उच्यते- त्रैराशिकबलात, तथाहि- यदि दशभिरयनै पञ्च सूर्यकृतान्न-क्षत्रपर्यायान् लभामहे तत एकेनायनेन किं लभामहे? राशित्रयस्थापना-१० 5 14 अत्रान्त्येन राशिना एकक ? लक्षणेन मध्यमस्य राशेः पञ्चक 5 रूपस्य गुणने जाता: पञ्चैव 5, तेषां दशभि 10 र्भागो ह्रियते लब्धमध पर्यायस्य तत्र नक्षत्रपर्याय: सप्तषष्टिभागरूपोऽष्टादशशतानि त्रिंशदधिकानि (1830) तथाहि- षट् नक्षत्राणि शतभिषक् प्रभृतीनि अर्द्धक्षेत्राणि ततस्तेषां प्रत्ये कं सार्द्धत्रयस्त्रिंशत् सप्तषष्टिभागास्ते सार्दास्त्रयस्त्रिंशत् षड्भिर्गुण्यन्ते जाते द्वे शते एकोत्तरे (201) षट् नक्षत्रास्युत्तरभाद्रपदादीनि व्यर्द्धक्षेत्राणि, ततस्तेषां प्रत्येकमेकं शतं सप्तषष्टिभागानामेकस्य च सप्तषष्टिभागस्यार्द्ध एतत् षड्भिर्गुण्यतेजातानिषट्शतानि व्युत्तराणि-(६०३) शेषाणि पञ्चदश 25 नक्षत्राणि समक्षेत्राणि तेषां प्रत्येकं सप्तषष्टिभागा: तत: सप्तषष्टिः पञ्चदशभिर्गुण्यते जातं पञ्चोत्तरं सहस्रम् (1005) एकविंशतिश्चाभिजित सप्तषष्टिभागा: सर्वसंख्यया सप्तषष्टिभागानामष्टादशशतानि त्रिंशदधिकानि (1830) एष परिपूर्णः सप्तषष्टिभागात्मको नक्षत्रपर्याय: एतस्याः नव शतानि पञ्चदशोत्तराणि (915) तेभ्य एकविंशतिरभिजित: संबन्धिनी शुद्धा, शेषाणि तिष्ठन्त्यष्टौ शतानि चतुर्नवत्यधिकानि (894) तेषां सप्तषष्ट्या 67 भागो हियतेलब्धास्त्रयोदश (13) शेषास्तिष्ठन्ति त्रयोविंशति: 23, त्रयोदशभिश्च पुनर्वस्वन्तानि नक्षत्राणि शुद्धानि, ये च शेषास्तिष्ठन्ति त्रयोविंशति: 23 भागा: ते मुहूर्तकरणार्थ त्रिंशता 30 गुण्यन्ते, जातानिषट् शतानि नवत्यधिकानि (690) तेषां सप्तषष्ट्या 67 भागो हियते लब्धा दश (10) मुहूर्ता:, शेषास्तिष्ठन्ति विंशति: 20, सा 20 द्वाषष्टिभागकरणार्थ द्वाषष्ट्या 62 गुण्यते जातानि द्वादशशतानि चत्वारिंशदधिकानि (1240) तेषां सप्तषष्ट्या 67 भागो ह्रियते, लब्धा अष्टादश द्वाषष्टिभागा: