________________ आउट्टि 38 अभिधानराजेन्द्रः भाग२ आउट्टि प्रक्षिप्यन्ते, जातानि पञ्चशतानि सप्तषष्ट्यधिकानि- 567, येऽपि च / एकविंशति: सप्तषष्टिभागा दिनस्य तेऽपि मुहूर्तभागकरणार्थ त्रिंशता 30 गुण्यन्ते, जातानि षट्शतानि त्रिंशदधिकानि-६३०, तानि सप्तभि 7 गुण्यन्ते जातानिदशोत्तराणि चतुश्चत्वारिंशच्छतानि-४४१०, तेषां दशभि 10 भागे हृते लब्धानि चत्वारि शतानि एकचत्वारिंशदधिकानि-४४१, तेषां सप्तषष्ट्या 67 भागे हृते लब्धा: षट् 6 मुहूर्ताः, ते पूर्वमुहूर्तराशौ प्रक्षिप्यन्ते, जातानि मुहूर्तानां पञ्च शतानि त्रिसप्तत्यधिकानि-५७३, शेषाश्चोद्वरिता एकोनचत्वारिंशत् 39, सा द्वाषष्ट्या 62 गुण्यते, जातानि चतुर्विशतिशतानि अष्टादशाधिकानि-२४१८, तेषां सप्तषष्ट्या६७ भागे हृते लब्धाः षट्त्रिंशत् द्वाषष्टिभागाः, शेषास्तिष्ठन्ति षट् 6 / ते एकस्य च द्वाषष्टिभागस्य सत्का: सप्तषष्टिभागा, एते चातिश्लक्ष्णरूपा भागा इति चूर्णिका भागाइति व्यपदिश्यन्ते तदेवमुक्तो धुवराशिः / सू०प्र०१२ पाहु. 76 सूत्रटी०। चं. प्र०१२ पाहु। ज्यो। सम्प्रति करणमाहआउट्टीहि एगुणियाहिं, गुणिओ हविज्ज धुवरासी। एयं मुहूत्तगणियं, एत्तो वोच्छामि सोहणगं / / 242 / / ज्यो. 12 पाहु। 'आउट्टीहि' इत्यादि, यस्यां यस्यामावृत्तौ नक्षत्रयोगो ज्ञातुमिष्यते तया तया आवृत्त्या एकोनिकया- एकरूपहीनया गुणितोऽनन्तरोक्तस्वरूपो ध्रुवराशिर्भवत् यावान् एतन्मुहूर्त- गुणितं मुहूर्तपरिमाणम्, अत ऊर्ध्व वक्ष्यामि शोधनकम्॥२४२ / / / तत्र प्रथमतोऽभिजितो नक्षत्रस्य शोधनकमाह (सू.प्र.)अमिइस्स नव मुहुत्ता, विसट्ठिभागा उहाँति चउवीसं। छावट्ठीय समग्गा, भागा सत्तहिछेयकया ||243 / / उगुणटुं पोट्ठवया, तिसु चेव नवोत्तरेसु रोहिणिया। तिसुनवनउएसु भवे, पुणव्वसू उत्तराफग्गू // 244 / / पंचेव अउणपन्ना, सयाई एगुणत्तराई छच्चेव / सोज्जाइँ विसाहाणं, मूले सत्तेव चोयाला ||245 / / अट्ठसयमुगुणवीसा, सोहणगं उत्तराअसाढाणं / चउवीसं खलु भागा, छावट्ठी चुण्णिया भागा // 246 / / ज्यो०१२ पाहु। अभिइस्से' त्यादि, अभिजित:- अभिजिन्नक्षत्रस्य शोधनक नव 9 | मुहूर्ता:एकस्य च मुहूर्तस्य चतुर्विशतिद्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सत्का: सप्तषष्टिच्छेदकृता: समग्रा:- परिपूर्णाः षट्षष्टिभागा:६६ कथमेतस्योत्पत्तिरिति चेदुच्यतेइहाभिजितोऽहोरात्रसत्का: एकविंशति: सप्तषष्टिभागाश्चन्द्रेण योग: / ततोऽहोरात्रे त्रिंशन्मुहूर्ताः 30 इति मुहूर्तभागकरणा-र्थमेकविंशतिः 21, त्रिंशता 30 गुण्यते जातानि षट्शतानि त्रिंशदधिकानि (630) तेषां सप्तषष्ट्या भागो ह्रियते लब्धा नवमुहूर्ताः शेषास्तिष्ठन्ति सप्तविंशतिः / ते द्वाषष्टि 62 भागकरणार्थ द्वाषष्ट्या 62 गुण्यन्ते, जातानि षोडशशतानि चतुः सप्तत्यधि-कानि (1674) तेषां सप्तषष्ट्या 67 भागो हियते लब्धाश्चतुर्विंशतिषष्टिभागाः, शेषास्तिष्ठन्ति षट्षष्टिः (66) / ते च द्वाषष्टिभागस्य सत्काः | सप्तषष्टिभागाः // 243 / / सम्प्रति शेषनक्षत्राणां शोधनकानि उच्यन्ते'उगुणट्ठमि' त्यादिगा- थात्रयम् / एकोनषष्टिमेकोनषष्ट्यधिकं शतं प्रौष्ठपदाउत्तरभाद्रपदा किमुक्तं भवति- एकोनषष्ट्यधिकेन शतेनाभिजिदादी-न्युत्तरभाद्रपदान्तानि नक्षत्राणि शुद्ध्यन्ति। तथाहिनवमुहूर्ता अभिज्जित:, त्रिंशच्छ्वणस्य, त्रिंशद्धनिष्ठायाः, पञ्चदश शतभिषजः, त्रिंशत्पूर्वभाद्रपदाया:, पश्चचत्वारिंशदुत्तरभाद्रपदाया इति शुद्धयन्ति / एकोनषष्ट्यधिकेन शतेनोत्तरभाद्रपदान्तानि नक्षत्राणि तथा त्रिषु नवोत्तरेषु शतेषु रोहिणिकान्तानि शुद्ध्यन्ति / तथा कोनषष्टयनिकेनशतेनोत्तरभाद्रपदान्तानि शुद्ध्यन्ति / ततस्त्रिंशन्तमुहूर्त्तः 30 रेवती, त्रिंशता 30 अश्विनी, पञ्चदश- भिर्भरणी त्रिंशता कृत्तिका, पश्चचत्वारिंशता 45 रोहिणिकेति, तथा त्रिषु नवनवत्यधिकेषु शतेषु पुनर्वस्वन्तानि शुद्ध्यन्ति / तत्र त्रिभिः शतैर्नवोत्तरः रोहिणिकान्तानि शुद्ध्यन्ति, ततस्त्रिंशता 30 मुहूर्त: मृगशिरः, पञ्चदशभिरार्द्रा, पञ्चचत्वारिंशता 45 पुनर्वसू इति।तथा पञ्चशतान्येकोनपञ्चाशदधिकानि उत्तरफाल्गुनी- पर्यन्तानि / किमुक्तं भवति-पञ्चभिः शतैरेकोनपञ्चाशदधि- कैरुत्तरफाल्गुन्यन्तानि नक्षत्राणि शुद्ध्यन्ति / तथाहि-त्रिभिः शतैर्नवनवत्यधिक पुनर्वस्वन्तानि शुद्ध्यन्ति / ततस्विंशता 30 मुहूर्त: पुष्यः, पञ्चदशभिरश्लेषा त्रिंशता 30 मघा, त्रिंशता 30 पूर्वफाल्गुनी, पञ्चचत्वारिंशता- उत्तरफाल्गुनीति, तथा- षट्शतानि एकोनसप्ततानिएकोनसप्तत्यधिकानि विशाखाना-विशाखान्तानां नक्षत्राणां शोध्यानि, तथाहि- उत्तर-फाल्गुन्यन्तानां पञ्चशतान्येकोनपञ्चाशदधिकानि शोध्यानि। ततस्त्रिंशन्मुहूर्ता 30 हस्तस्य, त्रिंशत् 30 चित्राया., पञ्चदश 15 स्वाते:, पञ्चचत्वारिंशद्विशाखाया, इति / तथा मूले-मूलननक्षत्रे शोध्यानि सप्तशतानि चतुश्चत्वारिंशदधिकानि (744) तत्र षट् शतानि एकोनसप्त्यधिकानि (769) विशाखान्तानां नक्षत्राणां शोध्यानि, तत: त्रिंशन्मुहूर्ता: अनुराधाया:, पञ्चदश ज्येष्ठाया:, त्रिंशत् मूलस्येति, तथा अष्टौ शतानि समाहृतानि अष्टशतमेकोन विंशत्यधिकम् / किमुक्तं भवति-अष्टौ शतान्येकोनविंशत्यधि-कानि उत्तराषाढानाम्उत्तराषाढान्तानां नक्षत्राणां शोधनकम। तथाहि- मूलान्तानां नक्षत्राणां शोध्यानि सप्तशतानि चतुश्चत्वारिंशदधिकानि (744) तत: त्रिंशन्तमुहूर्ता 30 पूर्वाषाढानक्षत्रस्यपञ्चचत्वारिंशदुत्तराषाढानामिति। तथा यथासंभवं सर्वेषामपि चामीषां शोधनकानामुपरि अभिजित: संबन्धिनः चतुर्विशतिद्वाषष्टिभागा: शोध्या: एकस्य च द्वाष-ष्टिभागस्य सत्का: षट्षष्टिश्चूर्णिका भागाः // 244 / / 245 / / 246 / / एयाइँ सोहइत्ता, सेसं तं हवेज्ज नक्खत्तं / चंदेण समाउत्तं, आउट्टीए उबोधव्वं // 247 / / 'एयाई' इत्यादि, एतानि- अनन्तरोदितानिशोधनकानि यथासंभवं शोधयित्वा यत् शेषमुद्वरति तत्र यथायोगमपान्त- रालवर्तिषु नक्षत्रेषु शोधितेषु यन्नक्षत्रं न शुद्ध्यति तन्नक्षत्रं चन्द्रेण समायुक्त विवक्षितायामावृत्तौ वेदितव्यम् / तत्र प्रथमायामावृत्तौ प्रथमत: प्रवर्त्तमानायां केन नक्षत्रेण युक्तश्चन्द्र इति यदि जिज्ञासा तत्प्रथमावृत्तिस्थाने एककोध्रियते स रूपोन: क्रियत इति न किमपि पश्चात् रूपमवतिष्ठते / तत: पाश्चात्ययुगभाविनीनामावृत्तीनां मध्ये या दशमी आवृत्तिस्तत्संख्या दशक 10 रूपा ध्रियते तया प्राचीन: सम