________________ इथिलिंगसिद्ध 620 अभिधानराजेन्द्रः भाग 2 इथिलिंगसिद्ध सहस्रारम् / गच्छन्ति च तिर्यञ्च-स्तदधोगत्थूनता हेतुः / / 2 / / तथाच सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाणं समम्। यदप्युक्तमपि च यासांवादलब्धावित्यादितदप्यश्लीलं वादविकुर्वणत्वादिल-ब्धिविरहेपि विशिष्टपूर्वगतश्रुताभावेऽपि मानुषादीनां निःश्रेयसपदाधिगमश्रवणादाहच वादविकुर्वण-त्वादिलब्धि-विरहश्रुते कनीयसि च जिनकल्पमनः पर्यवविर-हेऽपि न सिद्धिविरहोऽस्ति। अपिच यदि वादादिलब्धिभाववत् निःश्रेयसाभावोऽपि स्त्रीणामभविष्यत् ततस्तथैव सिद्धान्ते प्रत्यपादयिष्यत् यथा जंबुयुगद्वारात् केवलज्ञानाभायो, न च प्रतिपाद्यते तस्मादुपपद्यते स्त्रीणां निर्वाणमिति कृतं प्रसङ्गेन। प्रज्ञा०१ पदका ना रत्नावतारिकायामपि अथ दिक्पटाः प्रकटयन्ति भवत्वेता-दृशस्वरूपो मोक्षः स उपात्तस्त्रीशरीरस्यात्मनः इति न मृष्यामहे / न खलु स्त्रीयो मुक्तिभाजो भवन्ति / तथाच प्रभाचन्द्रः / स्त्रीणां न मोक्षः पुरुषेभ्यो हीनत्वान्नपुंसकादिवदिति / अत्र ब्रूमः सामान्येनात्र धर्मित्वेनोपात्ताः स्त्रियो विवादास्पदीभूता वा प्राचि पक्षे पक्षकदेशसिद्धसाध्यता असंख्यातवर्षायुष्कदुःषमादिकालो-त्पन्नतिरश्चीदेव्यभव्यादिस्त्रीणां भूयसीनामस्माभिरपि मोक्षा-भावस्याभिधानात्, द्वितीये तु न्यूनता पक्षस्य विवादास्पदीभूतेति विशेषणं विना नियतस्त्रीलाभाभावात् / प्रकरणादेव तल्लाभे पक्षोपादनमपि तत एव कार्य न स्यात् तथाप्युपादाने नियतस्यैव तस्योपादानमवदातं यथा धानुष्कस्य नियतस्यैव लक्षस्यो-पदशर्नमिति हेतूकृतः पुरुषादकर्षोऽपि योषिता कुतस्त्यः किंसम्यग्दर्शनादिरत्नत्रयाभावेन विशिष्टसामर्थ्यासत्त्वेन पुरुषानभिवन्द्यत्वेन स्मारणाद्यकर्तृत्वेनामहर्द्धिकत्वेन माया-दिप्रकर्षकत्वेन वा / प्राचि प्रकारे कुतः स्त्रीणां रत्नत्रयाभावः सचीवरपरिग्रहत्वेन चारित्राभावादिति चेत्तदचतुरस्रम् / यतः परिग्रहरूपता चीवरस्य शरीरसंपर्कमात्रेण परिभुज्यमानत्वेन मूच्छहितुत्वेन वा भवेत्। प्रथमपक्षे क्षित्यादिना शरीरसंपर्किणाप्य परिग्रहेण व्यभिचारः / द्वितीयप्रकारे चीवरपरिभोगस्तासाम-शक्यत्यागतया गुरूदेशशाद्वाः। नाद्यः पक्षो यतः संप्रत्यपि प्राणानपि त्यजन्त्यो याः संदृश्यन्तेतासामेकान्तिकात्वन्तिका नन्दसंपदर्थिनीनां बाह्यचीवरं प्रति का नामाशक्यत्यागता।नप्रयोगिन्यश्च काश्चिदिदानीमपि प्रेक्ष्यन्त एव द्वितीयपक्षोऽपिनसूक्ष्मः यतो विश्वजनीनेन विश्वदर्शिना परमगुरुणा भगवता मुमुक्षुपक्ष्मलाक्षीणां यदेव संयमोपकारि तदेव चीवरोपकरणं "नो कप्पइ निग्गंथीए अवेलाए होत्तएत्यादिनो पदिष्ट प्रतिलेखनकमण्डलूप्रमुखवदिति कथं तस्य परिभोगात्परिग्रहरूपता प्रतिलेखनादिधर्मोपकरणस्यापि तत्प्रसङ्गात। तथा च यत्संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणं धर्मस्य हि तत्साधनमोऽन्यदधिकरणं महार्हन् उपकारकं हि करणमुपकरणम् अधिक्रियन्ते घाताय प्राणिनोऽस्मिन्नितित्वधिकरणम् अथ प्रतिलेखनं तावत्संयमप्रतिपालनार्थ भगवतोपदिष्टं वस्त्रं तु किमर्थमिति तदपि संयमप्रतिपालनार्थमेवेति ब्रूमः। अभिभूयन्ते हिप्रायेणाल्पसत्वतया विवृताङ्गोपाङ्गसंदर्शनजनितचित्तभेदैः पुरुषैरङ्गना अकृतप्रावरणा घोटिका इव घोटकैः / ननु यासामतितुच्छसत्वानां प्राणिमात्रेणाप्यभिभवस्ताः कथं सकलत्रैलोक्याभिभावककर्मराशिप्रक्षयलक्षणं मोक्षं महासत्वप्रसाध्यं प्रसाधयन्तीति चेत्तदयुक्तम् यतो नात्र शरीरसामर्थ्यमतिरिक्तं यस्य भवति तस्यैव निर्वाणोपार्यजनगोचरेण सत्वेन भवितव्यमिति नियमः समस्त्यन्यथा पडगुवामनात्यन्तरोगिणः पुमांसोपिस्वीभिरभिभूयमाना दृश्यन्त इति तेऽपितुच्छशरीरसत्वाः कथं तथाविध्रसिद्धिनि बन्धनसत्वकभाजो भवेयुः / यथा तु तेषां शरीरसामर्थ्यासत्वेऽपि मोक्षसाधनसामर्थ्यमविरुद्धं तथा स्त्रीणामपि। सत्यपि वस्खे मोक्षाभ्युपगमे गृहिणः कुतो न मोक्ष इति चेन्ममत्वसद्धावान्नहि गृही वस्त्रे मनत्वरहितो, ममत्वमेव परिग्रहः / सति हि ममत्वे नग्रोऽपि परिग्रहवान् भवति शरीरेपि तद्भावात्। आर्यिकायाश्च ममत्वाभावादुपसर्गाद्यासक्तमिवाम्बरमपरिग्रहः / न हि यतेरपि ग्रामं गृह वनंवा प्रतिवसतोममत्वादन्यच्छरणमस्ति नच निगृहीतात्मनां महात्मनां कासां चित्कचिदपि मूर्छास्ति। तथाहि "निर्वाण-स्त्रीप्रभवपरप्रीतिती व्रस्पृहाणां, मूर्छा तासां कथमिव भवेत्वापि संसारभागे। भोगे रागे रहसि सजने सज्जने दुर्जने वा, यासां स्वान्तं किमपि भजते नैव वैषम्यमुद्राम्। उक्तञ्च ''अवि अप्यणो विदेहमि, नायरंति ममाइयंति' एतेन मूर्छा हेतुत्येनेत्यपि पक्षः प्रतिक्षितः शरीरवचीवरस्यापि काश्चित्प्रतिमूच्छहितुत्याभावेन परिग्रहरूपत्वाभावात्। तन्न सम्यग् रत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योपकर्षः नापि विशिष्टसामर्थ्या-सत्वेन, यतस्तदपितासां किं सप्तमपृथ्वीगमनाभावेन वादा-दिलब्धिरहितत्वेनाल्पश्रुतत्वेनानुपस्थाप्यता पाराञ्चित-शून्यत्वेन वा भवेत्। न तावदाद्यः पक्षो यतोऽत्र सप्तम-पृथ्वीगमनाभावो यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्यते सामान्येन वा प्राचि पक्षे चरमशरीरिभिरनेकान्तः। द्वितीयेत्वयमाशयो यथैव स्त्रीणां सप्तमपृथ्वीगमनसमर्थतीव्रतराशुभपरिणामे सामर्थ्याभावादपकर्षस्तथा मुक्तिगमनयोग्योत्कृष्टशुभपरिणामेऽपि चरमशरीरिणान्तु प्रसन्नचन्द्ररानर्षिप्रमुखाणामुभयत्रापि सामर्थ्यान्नकत्राप्यपकर्षस्तदयुक्तं यतो नायमविनाभावः प्रामाणिको यदुत्कृष्टाशुभगत्युपार्जनसामर्थ्याभावे सत्यु त्कृष्टशुभगत्युपार्जनसामर्थ्येनापि न भवितव्यम् / अन्यथा प्रकृष्टशुभगत्युपार्जनसामर्थ्याभावे प्रकृष्टाशुभगत्युपार्जनसामर्थ्य नास्ती-त्यपि किं न स्यात्तथा चाभयानां सप्तमपृथिवीगमनं न भवेत् / अथ वादादिलब्धिरहितत्वेन स्त्रीणां विशिष्टसामर्थ्यासत्त्वं यत्र खल्वैहिकवादिविक्रिया चारणादिलब्धीनामपि हेतुः संयमविशेषरूपं सामर्थ्यं नास्ति तत्र मोक्षहेतुस्तद्भविष्यतीति कः सुधीः श्रद्दधीत तदचारु व्यभिचारात् / मासतुषादीनां तदभावेपि विशिष्टसामोपलब्धेः। नच लब्धीनां संयमविशेषहेतुक-त्वभागमिकं कर्मोदयक्षयक्षयोपशमोपशमहेतुकतया तासां तत्रोदितत्वात्तथा चावाचि "उदयखयखउवसमोवसमस-मुत्थाबहुप्पगाराउ / एवं परिणामवसा, लद्धीओ हवंति जीवाणं" चक्रवर्तिबलदेववासुदेवत्वादिप्राप्तयोऽपि लब्धयो नच संयम सद्भावनिबन्धनात्तत्प्राप्तिः सन्तु वा तन्निबन्धनाल्लब्धयस्तयापि स्त्रीषु तासां सर्वासामभावोऽभिधीयते नियतानामेव वा / नाद्यः पक्षश्चक्रवादिलब्धीनां कासांचिदेव तासु प्रतिषेधादामौषध्यादीनां तु भूयसीनां भावात् / द्वितीयपक्षे तु व्यभिचारः पुरुषाणां सर्ववादादिलब्धयभावेऽपि विशिष्टसामर्थ्यस्वीकारात्। अकेशवानामेवातीर्थकरचक्रवादीनामपि च मोक्षसंभवात् अल्पश्रुतत्वमपि मुक्तयवाप्त्यानुमितविशिष्टसामर्थ्यासितुषादिभिरेवानैकान्तिकमित्यनुद्घोष्यमेव / अनुपस्थाप्यता पाराश्चितकशून्यत्वेनेत्यप्ययुक्तं, यतो नतन्निषेधाद्विशिष्टसामार्थ्याभावः प्रतीयते योग्यतापेक्षो हि चित्रः शास्त्रे वि