________________ इथिलिंगसिद्ध 619 अभिधानराजेन्द्रः भाग 2 इथिलिंगसिद्ध दिरसाध्वी तदपनोदायाह ! नो अशुद्धवोदिः / काचित् शुद्धा तनुरपि भवति। प्राक्कातुवेद्यतः संसर्जनाद्यशुध्य दर्शनात्। कक्षास्तनादिदेशेषु शुद्धवोदिरपि व्यवसायावर्जिता निन्दितैव तन्निरासायाह / नो व्यवसायवर्जिता काचित्पर लोक व्यवसायिनी शास्त्रात्तत्प्रवृत्तिदर्शनात् सव्यवसायाप्य पूर्वकरण विरोधिन्येव तत्प्रतिषेधमाह / नो अपूर्वकरणविरोधिनी / अपूर्वकरणासंभव-स्य / स्त्रीजातावपि प्रतिपादितत्वात् / अपूर्वकरणवत्यपि नवगुणस्थानरहिता नेष्टसिद्धये इष्ट सिध्यर्थमाह / नो नवगुणस्थानरहिता तत्संभवस्य तस्याः प्रतिपादितत्वान् / नवगुण स्थानसंगतापि लब्धयोग्या अकारणमधिकृतविधिरित्येत्प्रतिक्षेपायाह। नायोग्या लब्धः। आमर्पोषध्यादिरूपायाः कालौचित्येनेदानीमपि दर्शनात् कथं द्वादशाङ्गप्रतिषेधः तथाविधविग्रहे ततो दोषात् / श्रेणिपरिणतौ तु कालगभ्यवद्भावतो भावो विरुद्ध एव / लब्धियोग्याप्यकल्याणभाजनोपधातान्नाभिलषितार्थसाधनायालमित्यत आह नाकल्याण भाजनं तीर्थकरजननात् नातः परं कल्याणमस्ति यतएवमतः कथंनोत्तमवर्मसाधिकेत्युत्तमधर्मसाधिकेव अनेनतत्तत्कालापेक्षयैता-वगुणसंयमान्वितैर्वोत्तमधर्मसाधिकेति विद्वांसः / केवल-साधकश्चायं सति च केवले नियमान्मोक्ष इति। ला एतेन यदाहुराशाम्बराः-न स्त्रीयां निर्वाणमिति तदपास्तं द्रष्ट-व्यम्। स्वीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात् / तत्प्रतिषेधस्य युक्तयनुपपन्नत्वात् / तथाहि-मुक्तिपथो ज्ञानदर्शनचारित्राणि / "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति वचनात्" सम्य-ग्दर्शनादीनि पुरुषाणामिव स्त्रीणामप्यविकलानि दृश्यन्ते। तथाहि दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः जानते च षडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतं, परिपालयन्ति सप्तदशप्रकारमकलडूंसंयम, धारयन्तिचदेवासुराणामपिदुर्द्धर ब्रह्मचर्य, तप्यन्तेच तपांसि मासक्षपणादीनि, ततः कथमिव न तासां मोक्षसंभवः। (नमः) एतदस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं वा न पुनश्चारित्रं संयमाभावात् तथाहि स्त्रीणामवश्यं वस्त्र परिभोगेन भवितव्यमन्यथा विवृताङ्ग्यस्तास्तिर्यक् स्त्रिय इव पुरुषाणामभिभावनीया भवेयुः।लोके च गोपजायेत ततोऽवश्यं ताभिर्वस्वं परिभोक्त-व्यम् / वस्त्रपरिभोगे च सपरिग्रहता सपरिग्रहत्वे च संयमाभाव इति / (सैद्धान्तिकः) तदसमीचीनं सम्यक् सिद्धान्तापरिज्ञानात्परिग्रहो हि परमार्थतो मूर्छाभिधीयते "मुच्छा परिग्गहो वुत्तो'' इति वच-नात्। तथाहि मूर्छा रहितो भरतश्चक्रवर्ती सान्तः पुरोप्या दर्शकग्रहेऽवतिष्ठमानो निष्परिग्रहो गीयते / अन्यथा केवलोत्पादो न संभवेत् / अपिच-यदि मूच्र्छाया अभावेऽपि वस्त्र संसर्गमात्रं परिग्रहो भवेत्ततो जिनकल्पप्रतिपन्नस्य कस्य चित्साधोस्तुषारकणानुषक्ते प्रपतति शीते केनाप्यविषह्योपनिपातमद्यशीतमिति विभाव्य धर्मार्थिना शिरसि वस्वे प्रक्षिप्ते तस्य सपरिग्रहता भवेत् / नचैतदिष्ट तस्मान्न वस्त्रसंसर्गमात्रं परिग्रहः किन्तु मूच्र्छा / सा च स्त्रीणां वस्त्रादिषु न विद्यते धर्मोपकरणमात्रतया तस्योपादानात् / न खलु ता वस्त्रमन्तरेणात्मानं रक्षयितुमीशतेनापिशीतकालादिषु वाग्दशायां स्वाध्यायादिकं कर्तुं ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभुजाना न ताः परिग्रहवत्थः / अथोच्येत संभवविनाम स्त्रीणामपि सम्यग् दर्शनादिकं | रत्नत्रयं परं न तत्संभवमात्रेण मुक्तिपदप्रापकं भवति किन्तु प्रकर्षप्राप्तमन्यथा दीक्षानन्तरंमेव सर्वेषामप्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तिः सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्भवी ततो न निर्वाण-मिति। तदप्य युक्तं स्त्रीषु रत्नत्रयप्रकर्षस्सम्भवति सम्भवग्राहक प्रमाणं विजृम्भते देशकालविप्रकृष्टेषु प्रत्यक्षस्याप्रवृत्तेस्तदप्रवृत्ती चानुमानस्याप्यसम्भवात्। नापितासुरत्नत्रयप्रकर्षा-सम्भवप्रतिपादकः कोप्यागमो विद्यतेप्रत्युत सम्भवप्रतिपादकः स्थाने२ऽस्ति यथा इदमेव प्रस्तुतं सूत्रंततोन तासांरत्न-त्रयप्रकर्षासम्भवोऽथमन्येथाः स्वभावत एवातपेनेवेच्छया विरुध्यते स्त्रीत्वेन सह रत्नत्रयप्रकर्षस्ततस्तद संभवोनुमीयते तदयुक्तमुक्तं युक्तिविरोधात् तथाहि रत्नत्रयप्रकर्षः स उच्यते ततोऽनन्तरमुक्तिपदप्राप्तिः स चायोग्यवस्था चरमसमयभावी अयोग्यवस्थाचास्मादृगप्रत्यक्षा ततः कथं विरोधगतिः नहि अदृष्टन सह विरोधःप्रतिपत्तुं शक्यते मा प्रापत पुरुषेष्वपि प्रसङ्गः।। (ननः) ननुजगतिसर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टनाध्यवसाये नावाप्यते नान्यथा एतचो भयोरप्यावयोरागमप्रामाण्यबलतः सिद्धम् / सर्वोत्कृष्टदुःखस्थानं सर्वोत्कृष्टसुखस्थानं च। तत्र सर्वोत्कृष्टदुःखस्थानं सप्तमनरकपृथ्वी अतः परं परमदुःखस्थानस्याभावात् / सर्वोत्कृष्टसुखस्थानं तु निःश्रेयसम्। तत्रस्त्रीणां सप्तमनरकपृथिवीगमनमागमे निषिद्ध निषेधस्य च कारणं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः / ततः सप्तमपृथिवीगमनवत्त्वाभावात् संमूञ्छिमादिवत् / अपिच यासां वादलब्धौ विकुर्वणत्वादिलब्धौ पूर्वगतश्रुताधिगतौ च न सामर्थ्यगतिस्तासां मोक्षगमन सामर्थ्यमित्यति दुःश्रद्धेयम्॥ (सैद्धन्तिकः) तदेतदयुक्तं यतोयदिनामस्त्रीणांसप्तमनरकपृथिवीगमन प्रति सर्वोत्कष्टमनोवीर्यपरिणत्यभावस्तत एतावता कथमवसीयते नि श्रेयसमपि प्रति तासां सर्वो-त्कृष्टमनोवीर्यपरिणत्यभावो ? नहि यो भूमिकर्षणादिकं कर्म कर्तुं न शक्नोतिस शास्त्राण्यप्यवगाढं न शक्रोतीति प्रत्येतुं शक्यं प्रत्यक्षविरोधात् / अथ संमूछिमादिषूभयत्रापि सर्वोत्कृ ष्टमनोवीर्यपरिणत्यभावो दृष्टस्ततोत्रावसीयते / ननु यदि तत्र दृष्टस्तर्हि कथमात्रावसीयते न खलु बहिया प्तिमात्रेण हेतुर्गमको भवति किंत्वन्ताप्तया, अन्तर्व्याप्तिश्च प्रतिबन्धबलेन। नचात्र प्रतिबन्धो विद्यते न खलु सप्तमप्रथिवीगमनं निर्वाणगमनस्य कारणम् नापि सप्तमपृथिवीगमनाविनाभाविनिर्वाणगमनम् चर मशरीरिणां सप्तमपृथिवीगमनमन्तरेणैव निर्वाणगमनाभावात् / न च प्रतिबन्धमन्तरेण एकस्याभावेऽन्यस्यावश्यमभावो मा प्रापत् यस्य तस्य वा कस्यचिदभावे सर्वस्याभावप्रसङ्गः। यद्येवं तर्हि कथं सम्मूच्छिमादिषु निर्वाणगमनाभाव इति। उच्यते-तथा भवस्वाभाव्यात्। तथाहि संमूछिमादयो भवस्वभावत एव न सम्यग्दर्शनादिकं यथावत्प्रतिपत्तुं शक्यन्ते ततो न तेषां निर्वाण संभवः / स्त्रियस्तु प्रागुक्तप्रकारेण यथा वत्सम्यग्दर्शनादिरत्नत्रयसम्पद्योग्या-स्ततस्तासां न निर्वाणगमनाभावः / अपिच भुजपरिसप्पाः द्वितीयामेव पृथिवीं यावद्गच्छन्ति नपरतः परपृथिवीगमनहेतुस्तथारूपमनोवीर्यपरिणत्यभावात् तृतीयां यावत् पक्षिणश्चतुर्थी चतुष्पदाः पञ्चमीमुरगाः। अथ च सर्वेष्यूर्द्धमुत्कर्षतः सहस्रारं यावद्गच्छन्ति तत्राधोगतिविषयं मनोवीर्यपरिणमिवैषम्यादर्शना-दूर्ध्वगतावपि च न तद्वैषम्यम् / आह च "विषमगतयोप्यधस्ता-दुपरिष्ठात्तुल्यमा