________________ इंदिय 593 अभिधानराजेन्द्रः भाग 2 इंदिय इति चेदुच्यते पूर्वसूरिकृतव्याख्यानात् सकलमपि हि कालिकश्रुतं पूर्वसूरिकृतव्याख्यानानुसारेणैव व्याख्यानयन्ति महाधियो न यथाक्षरमात्रसन्निवेशं पूर्वगतसूत्रार्थसङ्ग्रहपरतया, कालिकस्तु तस्य क्वचित्ससिप्तस्याप्यर्थस्य महता बिस्तारेण वचिद्विस्तारवतोप्यतिसंक्षेपेणाभिधाने अक्तिनैः स्वमति यथा वस्थितार्थतया ज्ञातुमशक्यत्वादत एवोक्तमिदमन्यत्र - "जं जह भणियमित्यादि" तस्मात् पूर्वसूरिकृतव्याख्यानान्नाधिकृत ग्रन्थविरोधः॥ आहच भाष्यकृत् "सुत्ताभिप्पाओयंपयासयणिजे तयं न उपयासए। वक्खाणओ विसेसो न हि संदेहादिलक्खणया। प्रज्ञा० 15 पद।। सातिरेकयोजनलऑनयनविषयप्रमाणं ब्रुवतः सूत्रस्यायमभि प्रायः इयं विवक्षा यदुत स्वयं तेजोरूपप्रकाशरहितत्वात्पर-प्रकाशनीयं यद्वस्तु पर्वतगर्तादिकं तत्रैव तत्सातिरेकयोजन-लक्षनयनविषयप्रमाणतया द्रष्टव्यं / नतु स्वयमेव तेजोयुक्तत्वेन प्रकाशे चन्द्रार्कादिकं प्रकाशके वस्तुनि, एतदुक्तं भवति कश्चिन्निर्मलचक्षुर्जीवः सातिरेकयोजनलक्षे स्थितं पर्वतादिकं वीक्ष्य त इति प्रकाशनीयपर्वतगर्तादिके वस्तुनि नयनस्य तद्विषयप्रमाणमुक्तं प्रकाशकत्वादित्यादिकेऽनियमः / कुतः पुनरयं सूत्राभिप्रायो गम्यत्, इत्याह-व्याख्यानतो विशेषप्रतिपत्तिः कर्तव्या नतु संदेहादुभयपक्षोक्तिलक्षणत्वात्सूत्रस्य सर्वज्ञप्रणीतस्यालक्षताऽसमञ्जसाभिधायिता व्यवस्थापनीया व्याख्यानात्सूत्रं विषयविभागेन धारणीयं न तूभयपक्षोक्ति-मानभ्रमितैस्तद्विरोध उद्भावनीय इत्यर्थः / उक्तंच / 'जं जह सुत्ते भणियं तहेव जइ तं वियालणा नत्थि / किं कालियाऽणुओगो दिट्ठो दिट्टिप्पहाणे हिं / / " तदेवभप्राप्तकारिता विचारप्रक्रमेण नयनस्य विषयप्रमाणुक्तम्। विशे० / / तथा घ्राणेन्द्रियजिह्वे न्द्रियस्पर्शनेन्द्रियाणि गन्धादीनुत्कर्षतो नवयोजनेभ्यः आगतान् अच्छिन्नान् द्रव्यान्तरैरप्रतिहतशक्तिकान् परिच्छिन्दतिन परत आगतान् परत आगतानां मन्दपरिणाम-त्वाभावात् घ्राणादीन्द्रियाणां च तथारूपाणामपि तेषां परिच्छेदं कर्तुमवशक्यत्वात् - आह च भाष्यकृत् "बारसहिंतो सुत्तं, सेसाणं नवहि जोयणेहिंतो। गिण्हंति पत्तमत्थं एतो परतो न गिण्हति" (प्रज्ञा. 15 पद) मेघगर्जितादिशब्दमुत्कृष्टतोद्वादशयोजनेभ्यः समायातंगृह्णाति श्रोत्रम्, उक्तशेषाणि त्विन्द्रियाणि घ्राणरसनस्पर्शनलक्षणानि गन्ध रसस्पर्शलक्षणमर्थमुत्कर्षतो नवयोजनेभ्यः प्राप्तं गृह्णन्ति / / इतः परतोऽप्यायातं शब्दादिकमेतानि न गृह्णन्ति। ननु मेघगर्जितादि विषयः शब्दः प्रथमप्रावृषि दूरे प्रथममेघवृष्टौ सत्यां मृत्तिकादिगन्धश्च दूरादप्यायातो गृह्यमाणः समनुभूयते रसस्पर्शी तु कथमिति चेदुच्यतेदूरादागतानां गन्धद्रव्याणां रसोपि तावत्कश्चिद्भवत्येव स च तेषां जिह्वासंबन्धे सति यथासंभवं कदाचित् केनचित् गृह्यत् एव / तथा च वक्तारो भवन्ति "कटुकस्य तीक्षणादेर्वा वस्तुनः संबंधी अयं गन्ध" इति। यदिह कटुकत्वंतीक्षणादित्वं चोच्यतेतद्रसस्यैवधर्मस्ततश्च ज्ञायते जिलासंबन्धि तेषां कटु कादिरसोऽपि गृह्णीत इति स्पर्शो ऽपि शीतादिदूरादपि शिशिरः पद्मसरः सरित्समुद्रादेमध्येनाया तस्य यातादेरनुभूयत एवेति। यद्येवं तहिंद्वादशनवयोजनेभ्यः परतोप्यायाताः शब्दगन्धादयः किमिति न गृह्यन्त इत्याह ... दव्वाणं मंदपरिणा-मत्ता परओन इंदियबलंपि। अवरमसंखिजंगुल-भागओ नयणवाणं॥ द्वादशनवयोजनेभ्यः परतः समायातानां शब्दादिगन्धादि द्रव्याणां मन्दपरिणामत्वान्न खलु परतः समायातानां तेषां तथाविधपरिणामो भवति येन श्रोत्राघ्राणादि विज्ञानं जनयेयुः / श्रोत्रादीन्द्रियाणामपि च तथाविधं बलं न भवति येन परतः समायातानिशब्दादिद्रव्याणि गृहीत्या स्वविज्ञानं जनयन्तुतदेवमुक्तमिन्द्रियाणां उत्कृष्टं विषयपरिमाणम्। अथ जघन्यं तद्विभणिषुराह (अवरमित्यादि) अवरंजघन्यं विषयप्रमाण मुच्यते किमित्याह / असंख्यात-तमादगुलादसंख्येयभागादागतं गन्धादिकं घ्राणादीनि गृह्णन्ति किमेतत्सर्वेषामपीन्द्रियाणां जघन्यविषयप्रमाणं नेत्याह नयनवर्जानां नयनस्य तर्हि का वार्ता इत्याह -- संखिजइ भागाओ, नयणस्स मयस्स न विसयपमाणं / पोग्गलमित्तनिबंधा, भावाओ केवलस्सेवा।। अगुलासंख्येभागाद गुलसंख्येयभागमवधौ कृत्वा नयनस्य जधन्यं विषयपरिमाणमतिसं निकृष्ट स्याञ्जनशलाकारजो मलादेस्तेनानुपलम्भादिति भावः / मनसस्तु क्षेत्रतो नास्त्वेव विषय-प्रमाणं नियमेन दूरे आसन्ने च तत्प्रवर्तत इत्यर्थः कुत इत्याह / पुद्रलमात्रस्य निबन्धो नियमस्तस्याः भावान्मूर्तामूर्तसम-स्तवस्तुविषयत्वेन पुद्रलेष्वेवेदं प्रवर्तत इत्येवं भूतस्य नियम-स्याभावात्केवलस्येवेत्यर्थः / इह यत्पुद्गलमात्रनिबन्धं नियतं न भवति न तस्य विषयपरिमाणमस्ति यथा के वलस्य, पुदलमात्रनिबंधाऽनियतं च मनस्ततो नास्य विषयपरिमाणं यस्य तु विषयपरिमाणं तत्पुद्गलमात्रनिबंधरहितमपि न भवति यथा-ऽवधिमनःपर्यायज्ञाने इति। अत्राह-नन्वऽनैकान्तिकोऽयं हेतुर्मतिश्रुतज्ञानाभ्यां व्यभिचारात्तथाहि मूर्तामूर्तसमस्तवस्तु-विषयत्वेन तावन्नैते पुद्गलमात्रनिबन्धनियताऽथ च दृश्यते श्रोत्रादीन्द्रियप्रभवेयोस्तयोदशयोजनादिकं क्षेत्रतो विषयप्रमाणमिति तदेतदसमीक्षिताभिधानमेव यतः इन्द्रिय-प्रभवयोरेवतयोरिदं विषयपरिमाणं इन्द्रियाणि च पुद्गलमात्र-निबन्धनियतान्येवेति कुतो व्यभिचारः / मनः प्रभवयोस्तु तयोरस्ति पुद्रलमात्रनिबन्धाभावः केवलं तयोः क्षेत्रतो विषयपरिमाणपि नास्त्यतः कुतोऽनैकान्तिकतेत्यलंविस्तरेणेति / विशे० / आ. म. प्र. तंदु, आ. चू। इन्द्रियाणि च रक्षणीयानि। उक्तंच "इन्द्रियाणि न गुप्तानि लालितानि न चेच्छया। मानुष्यं दुर्लभम्प्राप्य न भुक्तन्न विशेषितम्" इति। आचा०१ श्रु०२ अ०२ ऊ। (11) अथेन्द्रियासम्भूतानां स्यरूपस्येन्द्रियासंवरदोषस्य चाभिधायकं गाथाकदंबकं ज्ञाताधर्मकथायाः सप्तदशेऽध्ययने यथाकरलरिभिय महुरतंती-ताल ताल वंसककुदाभिरामेसु / सेहसु रममाणा रमंति सोइंदियवसट्टा ||1|| सोइंदियदुदंत-तणस्स अह एत्तिओ हवइदोसो।। दिविगरूवमसहंतो, बहवंधं तित्तिरो पत्तो॥शा थण-जहण-वयण-कर-चरण-णयण-गव्विय विलसियंगइसु / रूवेसु रजमाणा, रमंति चक्खिदियवसट्टा / / 3 / / चक्खिदियदुइंत-तणस्स अह एइओ हवइदोसो।। जं जलणंमि जलंते, पयइ पयंगो अबुद्धीओ ||4|| अगुरुवरपवरधूवण-उयमल्लाणुलेवण विहीसु॥