________________ इंदिय 592 अभिधानराजेन्द्रः भाग२ इंदिय पद्येत "बारसहिंजोयणेहिं आभिगिण्हएसई" इतिवचनात् / अथ च समग्रनगरव्यापी समस्तस्कन्धावारव्यापी च विजयढक्कादिशब्द आगमे च प्रतिपाद्यते तथैवं च जनव्यवहारस्तत एवमा गमे प्रसिद्धः पञ्चधनुः शतादिमनुष्याणां विषयव्यवहारो व्यवच्छेदं माप्रापदित्यात्माङ्गुलेनेन्द्रियाणां विषयपरिमाणमवसातव्यं नोच्छ्यांगुलेन तथाभाष्यकृत-"जंतेणपंचधणुसय,नरादि विसय-विवहारवोच्छेओ। पावइ सहस्सगुणियं. जेण पमाणंगुलं तत्तो" ||शा अत्र तस्मादात्माङ्गुलेनैवेन्द्रियाणां विषयपरिमा णं नोच्छेधागुलेनेति / उपसंहारवाक्यं स्वतः परिभावनी यम् // प्रज्ञा० 15 पद।। अपिच यानि देहस्यात्मभूतान्येवेन्द्रियाणि तान्यपितावत्सर्वाण्युच्छ्रयांगुलेन मीयन्ते किंपुनरिन्द्रियविषयपरिमाणमिति दर्शयति / / इंदियमाणे वि तयं, भयणिजं जंति गाउआइणि। जिभिंदियाइमाणं, संववहारे विडज्झेजा। इन्द्रियाणि श्रोत्रादीनि तानि चेह "कायव्व पुप्फुगोल य मसूरअइमुत्तयस्स कुसुमं" चेत्यादिना प्रोक्तानि द्रव्येन्द्रियाणि गृह्यन्ते तेषां मानं प्रमाणमगुलासंख्येयभागादिकं तत्रापि- कर्तव्ये गृहीतव्ये बोधव्य वा तदुच्छ्यांगुलं भजनीयं वापि व्यापार्यते कापि नेत्यर्थः स्पर्शनेन्द्रियमेकं तेन मीयते शेषाणि त्वात्मांगुलेनैवेति भावः कुत इत्याह (जमित्यादि) यद्यस्मात्रिगव्यू तीत्यादिमानानां युगलधर्मिणां जिहे न्द्रियादिमानं यधुच्छ्यांगुलेन गृह्यते तदा संव्यवहारे कल्पद्रुमरसादिपरिज्ञान लक्षणे विरुद्ध्येतनघटनेत्य-र्थः / इदमुक्तं भवति "बाहल्लओ य सव्वाई अंगुल असंखभागं एमेव पुहुत्तओ नवरं अंगुल पुहत्तस्स णं इत्यादि वचनात् अंगुलप्रथक्त्वविस्तरं जिहेन्द्रियं निर्णीतं त्रिगव्यूतादिमानानां च जन्तूनां च तदनुसारितया विशालानि तुषानि जिहां च ततो यधुच्छयांगुलेन तेषां क्षुरप्राकारतयोक्तस्य जिह्वेन्द्रियस्यांगुलपृ-थक्त्वलक्षणो विस्तरो गृह्यते तदाऽत्यल्पतया सर्वामपि जिह्वां न व्याप्नुयात् ततश्च सर्वव्यापितया रसवेदनलक्षणो व्यवहारो न घटते तस्मा-दात्मांगुलेनैव जिहादिमानं घटते ततश्च देहात्मभूतानीन्द्रियाण्यति सर्वाण्युच्छ्यांगुलेन यदा न मीयन्ते तदा इन्द्रिय विषयपरिमाणस्य दूरे वार्ता इति गाथार्थः / तदेवं "उस्सेहपमाणओ मिणे देह' इत्यत्र पारिशेष्याहिशब्देन यल्लभ्यते तदर्शयन्नाहतणुमाणं चिय तेणं, हविज्ज भणियं सुए वितं चेव / एएण देहमाणाइ, नारयाईण मिजत्ति। तस्मादिन्द्रियपरिमाणे इन्द्रियविषयपरिमाणे चैकान्तेनोच्छ्यांगुलेनेष्यमाणे दोषस्य दर्शितत्वात्पारिशेष्यात्वनुमानमेव तेनोत्सेधांगुलेन भवेन्न पुनरिन्द्रियपरिमाणं विषयपरिमाणं वेति भावः।। युगलधर्मिणां रसवेदनव्यवहारस्य चक्रवर्तिभरतनगर्या-दिषु भेर्यादिशब्दश्रवणव्यवहारस्य चाऽभावप्रसङ्गस्य दर्शितत्वादिति / किंचेन्द्रियपरिमाणं तद्विषय परिमाणं चोच्छ-यांगुलेन परः स्वमनीषिकयाऽर्था पत्त्यैव ब्रूतेन पुनः श्रुते साक्षादेतत् क्वाप्यऽभिहितं किं पुनस्तर्हि साक्षात्तत्राऽभिहितमित्याह (भणि सुए वितं चेवेत्यादि) श्रुतेपि तदेव देहमानमेवोच्छ्यांगुलेन भणितं नान्यदिति केन पुनर्निग्रन्थे नैत्च्छुते ऽभिहितमित्याह (एएणेत्यादि) अर्थनिर्दु श एवायं सूत्रालापकस्त्वेष द्रष्टव्यस्तद्यथा "इचएणं उस्सेहंगुलपमाणेणं नेरइय तिरिक्खजोणिय मणुस्सदेवाणं सरीरोवगाहणा उ मिजत्ति" // तदस्मिन् सूत्रे शरीरावगा-हनैवोच्छ्यांगुलमेयत्वेनोक्तो नत्विंन्द्रियपरिमाणोद्यतस्तदात्मांगुलेनैव द्रष्टव्य मिति गाथार्थः // विशे तस्मात्सर्वमिन्द्रियविषयपरिमाणमात्माङगुलेनैवेति स्थितं ननुभवत्वात्मांगुलेन विषयपरिमाणं तथाधिकृतसूत्रोक्तं चक्षुरिन्द्रिय विषयपरिमाणं न घटते अधिकस्यापि तद्विषय परिमाणस्यागमान्तरे प्रतिपादनात् तथाहि-पुष्करद्वीपार्द्धमानुषोत्तर पर्वतसमीपवर्तिनो मनुष्याः कर्कसंक्रान्तौ प्रमाणांगुलनिष्पन्नैः सातिरेकैः एकाविंशति योजनलक्षैर्व्यवस्थित मादित्यमवलोकमानाः प्रतिपाद्यन्ते।शास्त्रान्तरे च तथा तद्ग्रन्थाः "इगवीसंखलु लक्खा, चउतीसंचेव तह सहस्साई तह पंचसया भणिया, सत्ततीसाए अतिरित्ता ||1|| इइ नयण विसयमाणं, पुक्खरवरदीवद्धवासमणुयाणं / पुव्वेण य अवरेण य. पिहिं पिहिं होइ मणुयाणं ॥शा इत्यादि / ततः कथमधिकृत सूत्रात्मांगुलेनापि घटते प्रमाणांगुलेनापि व्यभिचारिभावात् / उक्तञ्च- "लक्खेहिं एक्कवीसाए, सायरंगेहिं पुवखरद्धमि।। उदए पेच्छन्ति नरा, सूरं उक्कोसए दिवसं||३|| ण य णिंदियस्स तम्हा, विसयप्पमाणं जहा सुए भणियं / आउस्सेहपमाणं गुलाणएक्केण विन जुत्तं // 4 // " प्रज्ञा० 15 पद। ननुपुष्करवरद्वीपस्य मानुषोत्तरपर्वतद्विधाकृतस्याग्भिा -गवर्तिन्यर्द्ध मानुषोत्तरसन्निधावुत्कृष्टे दिवसे कर्कटकसंका-त्यामुदये उपलक्षणत्वादस्तसमये च नरा मनुष्याः सूरमा दित्यं पश्यन्ति अवलोकयंति, कियडूरं व्यवस्थितमित्याह सातिरे-कैरेकविंशतिलक्षोजनानां। एतदुक्तं भवति" सिया लीससहस्सा, दोयसया जोयणाण तेवड्डा। एगवीससट्ठिभागाकक्कडमा-इम्मिपेच्छनरा'' इति वचनाद्यर्थादत्र कर्कसंक्रातावुत्कृष्ट दिवसे एतावतिदूरे व्यवस्थितं सूर्य मनुष्याः पश्यन्ति यथा--पुष्करा-र्द्धमानुषोत्तरसमीपे प्रमाणं गुलनिष्पन्नेः साति रेकैरेकविंशतियो-जनलक्षैर्व्यवस्थितमादित्यं तत्र दिने तन्नि वासिनो लोकाः समवलोकयन्ति तत्र भ्रमति बाहुल्यात्सूर्याणां च शीघ्रतरगतित्वादुक्तं च"इगवीसमित्यादि" तस्मान्नयनेन्द्रियस्य सातिरेकयोजनलक्षणस्वरूपं विषयपरिमाणं यथा श्रुतेप्रज्ञा-पनादिकेऽभिहितं तथा तेन प्रकारेणात्मांगु लोत्सेधांगुल-प्रमाणांगुलानामेकेनापि गृह्यमाणं न युक्तं प्रमाणां गुले निष्पन्नस्यापि योजनलक्षस्य च निष्पन्नसातिरेकैक विंशतियोजनलक्षेभ्यः एकविंशतितमभागवर्तित्वेन वृहदन्तरत्वात्तस्मादेकत्र सातिरेकं लक्षमन्यत्र सातिरेकै कविंशतिलक्षाणि योजनानां नयनस्य विषयप्रमाणंबुवतः श्रुतस्य पूर्वापरविरोध इति परस्योक्तमिति गाथाद्वयार्थः / / विशे। तथा-नयनस्य विषयोऽप्रकाशकवस्तुपर्वताद्याश्रित्यात्मांगुलेन सातिरेकं योजनलक्षणं स्यात् प्रकाशकेत्वादित्यचन्द्रादिवदधिकमपिविषयपरिमाणं स्यात् नात्र विषये नियमः कोपि निर्दिष्टोऽस्ति सिद्धान्ते यतः पुष्करवरद्वीपादि मानुषोत्तरपर्वतसमीपे कर्क संक्रान्तौ मनुष्याः प्रमाणांगुलभवैः सातिरेकैरेकविंशति योजनलक्षैर्व्यवस्थितं रविं पश्यन्तः प्रोच्यन्ते शास्त्रान्तरे इति। तंदु। सत्यमेतत् / के वलमिदं सूत्रं प्रकाश्यविषयं द्रष्ट व्यं न तु प्रकाशक विषयं ततः- प्रकाशको धिकरणमपि विषयपरिमाणं न विरुध्यते-इति न कश्चिद्दोषः। कथमेव विधोऽर्थोऽवसीयत