SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ इंदिय 591 अभिधानराजेन्द्रः भाग 2 इंदिय ट्यपदेशभाजं प्राप्तप्रकाशं कुरुते मनीषाम् ||90 / / तथाच "मन्दमन्दमुदेत्ययं परिमलप्राग्माधवीमण्डपाद्भूयः सौरभ-मुद्रमंन्त्युपवने फुल्लाःस्फुटं मल्लिकाः / गन्धो बन्धुर एष दक्षिणदिक्षाः श्रीचन्दात्प्राप्तवानित्येतन्ननु विद्यते तनुभृतां घ्राणात्तथा प्रत्ययः // 8 // अस्ति त्वगिंद्रियेणापि व्यभिचारविनिश्चयः / शेमुषीमादधानेन दिग्देशव्यपदेशिनी // 8220 तथाहि / सेयं समीरल हरीहरिचन्दनेन्दुसंवादिनी वनभुवः प्रसभं प्रवृत्ता। स्फीतस्फुरत्पुलकपल्लवितांगयष्टिमामातनोति तरुणी करपल्लवश्च 8 अयानुमा-नादधिगम्य तेषां हेतूंस्ततस्त-व्यपदेशिनीधीः / न घ्राणतः स्पर्शनतश्च ताइक् प्रत्यक्षरूपा प्रथते मनीषा // 84!! श्रोत्रेपि सर्व तदिदं समानमालोकमानोऽपि न मन्यसे किम् / दृष्टव्यलीकाम-पिकामीनी यत्संमन्यते कामुक एव साध्वीम् 85 स्मृत्वा यथैव प्रतिबन्धमाशु शंखादिशब्दोऽयमिति प्रतीतिः। प्राच्यादिदूरादिगतेऽपि शब्दे तथैव युक्ता प्रतिपत्तिरेषा॥८६॥ दिग्देशानां श्रुतिविषयता किंच नो युक्तियुक्ता युक्तत्वे वा भवति न कथं ध्यानरूपत्वमेषाम् / तस्माद्भिन्नप्रमिति विषयास्ते विशिंषन्ति शब्द सिद्धे चैवं भवतु सुतरां साधने साध्य सिद्धिः / / 78|| अपिच / गृह्यते यदि विनैव संगतिं किं तदानुगुणमारुते ध्वनौ / दूरतोपि धिषणा समुन्मिषेदन्यथा तु निकटेऽपि नैव सा / / 8 / / मुहुर्मरुति मन्यरं स्फुरति सानुलोमागमे समुल्लसितवल्लकीवणकला-कलापप्लुता। सकामतनकामिनी कलितयोजनाडम्बरा न किं निशि निशम्यते सपदि दूरतः काकली // 89|| पटुघटित-कपटसंपुटौघे भवति कथं सदनेऽपि शब्दबुद्धिः। पटुघटित-कपाटसंपुटौघे भवति कथं सदनेऽपिगन्धबुद्धिः // 90 / / तथाहि / कर्पूरपारीपरिरंभभाजी श्रीखण्डखण्डे मृगनाभिमिश्रे। धूमायमाने पिहितेप्यगारे गन्धप्रबन्धो बहिरभ्युपैति // 91|| द्वारावृतेऽपि सदने प्रणयप्रकर्षा-देवं प्रिये स्फुरदपत्रपया स्खलंती। द्वारि स्थितस्य सर साकुल-बालिकायाः कर्णातिथीभवति मन्मथसूक्तिमुद्रा // 92 / / एवं च प्राप्त एवैष शब्दः श्रोत्रेणगृह्यते / श्रोत्रस्यापि ततः सिद्धानिधिा प्राप्यकारिता, 193|| रत्ना०२५०॥ (10) संप्रति इन्द्रियाणां विषयपरिमाणनिरूपणार्थमाह सोइंदियस्स णं मंते ! के वतिए विसर पण्णते ? गोयमा !जहन्नेणं अंगुलस्स असंखेजइभागे उकोसेणं बारसहिं जोयणे हिंतो छिन्ने पुग्गले पुढे पविट्ठाई सद्दाइं सुणेइ। चक्खिदियस्स णं भंते ! केवतिए विसए पण्णत्ते ? गोयमा ! जहन्नेणं अंगुलस्स संखेअइभागो उकोसेणं सातिरेगाओ जोयणसयसहस्साओ अच्छिन्ने पुग्गले अपुढे अपविट्ठाई रूवाई पासति / घाणिंदियस्स पुच्छा, गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागो उक्कोसेणं नवहिं जोयणेहिं छिन्ने पोग्गले पुढे पविट्ठाई गंधाई अग्धाइं / एवं जिन्मिंदियस्स वि / फासिंदियस्स वि॥ इह श्रोत्रादीनि प्राप्तविषयपरिच्छे दत्वात् अङ्गुलासंख्येयभागादप्यागतं शब्दादिद्रव्यं परिछिन्दन्ति नयनं वा प्राप्यकारीति तज्जघन्यतोऽगुलसंख्येयभागादव्यवहितं परिच्छिनत्ति किमुक्तम्भवति जघन्यतोऽङ्गुलसंख्येयभागमात्रे व्यवस्थितं पश्यन्ति नतु ततोप्यतिरिक्तमिति प्राणिप्रसिद्धश्चायमर्थः / तथाच नातिसन्निकृष्टमञ्जनरजोमलादिकं चक्षुः पश्यति ! उक्तञ्च -- “अचरमसंखेजगुणं भागातो नयणवजाणं / संखेज्जंगुलभागा नयणस्सइत्ति" उत्कर्षतस्तु | श्रोत्रेन्द्रियं द्वादशभ्यो योजनेभ्य आगतान् अच्छिन्नान अव्यवहितान्नान्यैः शब्दान्तरैर्वातादिकैर्वा प्रतिहतशक्तिकानित्यर्थः पुद्गलान् अनेन पौद्रलिकशब्दोनाम्बरगुण इति प्रतिपादितम् / यथाच शब्दस्य पौगलिकता तथा तत्वार्थटीकायाम् प्रपञ्चितमिति न भूयः प्रपश्च्यते स्पृष्टान् स्पृष्टमात्रान् शब्दान् प्रविष्टान् निर्वृतीन्द्रियमध्यप्रविष्टान् शृणोति न परतोऽप्यागतान् कस्मादिति चेदुच्यते परत आगतानां तेषां मन्दपरिणामत्वभावात्तथाहि परतः आगताः खलु ते शब्दपुद्गलास्तथा स्वाभाव्यात् मन्दपरिणामास्तथो पजायन्ते येन स्वविषयं श्रोत्रविज्ञानं नोत्पादयितुमीश्वराः। श्रोत्रेन्द्रियस्यापितत्तथाविधमद्भुततरंबलं न विद्यते येन परतोऽपि आगतान् शब्दान् शृणुयादिति चक्षुरिन्द्रियमुत्कर्षतः सातिरेकान् यो जनशत-सहस्रादारभ्याछिन्नान् कटकु ड्यादि भिरव्यवाहितान् पुद्गलान् अस्पृष्टान् दूरस्थितान् अत एवाप्रविष्टान् (रूवाइत्ति) रूपत्मकान् पश्यतिपरतोऽव्यवहितस्यापि परिच्छेदे चक्षुषः शक्तयभावात् नन्वङ्गुलमिह त्रिधा तद्यथा आत्माङ्गुलमुच्छ्रयाङ्गुलं प्रमाणागुलञ्च तत्र "जेणं जयामणा सा तेसिं जं होइ माणरूवं तं / तं भणियमिहायांगुलमणियपमाणं पुण इमन्तु" इत्येवं रूपमात्माङ्गुलं “परमाणु तसरेणु रहरेणू अम्गयं च वालस्न्स। लिक्खा जूया य जवा अद्वगुणा विवड्डि या कमसो / तत्रेन्द्रिय-विषयपरिमाणं किमात्माङ्गुलेनाहोश्चित् उच्छ्यांगुलेन उच्यते आत्माङ्गुलेन तथा चाह चक्षुरिन्द्रियविषयपरिमाणचिंतायां भाष्यकृत् "अप्पत्तकारि नयणं मणो यनयणस्स विसयपरिमाणं। आयांगुलेण लक्खं अयरित्तं जोयणाणं तु" प्रज्ञा०१५ पदा अंगुलजोयणलक्खो समहिओ नव वार मुक्कसो विसओ। चक्खू तिय-सोयाणं अंगुल अस्संखभागियंते / / अस्या व्याख्या-स्वं च तदंगुलं च स्वांगुलं भगवदृषभादेरारभ्य यस्ययद्भवति तेनांगुलेन योजनलक्षः समधिकः किंचिद्विषयोत्थपरिच्छित्तेश्चक्षुषः नव द्वादशयोजनानि सांगुलेनेत्यत्रापि द्रष्टव्यः / उत्कर्षत उत्कृष्ट ततस्त्रिश्रोत्राणां यथाक्रमं योज्यंतत्र त्रायाणां स्पर्शनरसनघ्राणानां नव योजनानि श्रोत्रेन्द्रियस्य पुनदश जघन्यतः पुनरंगुलासंख्येयभागिति गाथार्थः / दर्श. / ननु देहप्रमाणमुच्छ्यांगुलेन क्रियते देहाश्रितानि चेन्द्रियाणि ततस्तेषां विषयपरिमाणमपि उच्छ्यांगुलेन कर्तुमुचितं कथमुच्यते आत्मांगुलेनेति नैष दोषः यद्यपि हि नाम देहाश्रितानीन्द्रियाणि तथापि तेषां विषयपरिमाणमात्मांगुलेनैकदेहानन्यत्वा-द्विषयपरिमाणस्य तथा चामुमेवार्थमाक्षेपपुरस्सरं भाष्य कृदप्या। "नणु भणियमुस्सयंगुल, पमाणतो जीवदेहमाणाई। देहपभाणं तंचियनउइंदियविसयपरिमाणं" ||| अबदेहपमाणन्तं चिय इति यत्र उच्छ्रयांगुलमेयत्वं नोक्तं तदेहप्रमाणमात्रमेव नत्वि-न्द्रियविषयपरिमाणं तस्यात्माङ्गुलप्रमेयत्वादिति अथ यदि विषयपरिमाणमिन्द्रियाणामुच्छ्याङ्गुलेन स्यात्ततः को दोष आपद्येत पञ्चधनुःशतानि मनुष्याणां विषयव्यवहाराविच्छे-दस्तथाहि यद्भरतस्यात्मागुलं तत्किल प्रमाणागुलं तच प्रमाणागुल मुच्छ्रयागुलसहस्रेण भवति- "उस्सेहंगुलमेगं हवइपमाणांगुलसहसगुणमितिवचनात्"। ततो भरतसगरादिचक्र वर्तिनां या अयोध्यादयो नगर्यो ये तु स्कन्धावारा आत्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धास्तेउच्छ्याङ्गुलप्रमित्या अनेकानि योजनसहस्राणि स्युः तथा च सति तत्रायुधशालादिषु ताडितभेर्यादिशब्दश्रवणेनसर्वेषामा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy