________________ इंदिय 590 अभिधानराजेन्द्रः भाग 2 'इंदिय तुल्येहीत्यर्थः / तस्मान्मनसोऽपि विषयपरिमाणसद्भावादनन्तरगाथोक्तसाध्यविकलो दृष्टान्त इति स्थितमिति गाथार्थः / / / तत्किंकृतमग्रहणमर्यानामपीत्यत्रपराऽभिप्राय आशङ्कमानः प्राह कम्मोदय उवसाहा चउव्व नणु लोयणे वितं तुल्लं। तुल्लो व उवालंभो एसो संपन्न विसए वि॥ यत्केषांचिदर्थानां मनसो ग्रहणं तत्तदावरणकर्मोदयाद्वा स्वभावाद्वा इति परो ब्रूयान्नत्वेतल्लोचनेपि तुल्यं यतस्त-दप्यप्राप्यकारित्वे तुल्योऽपि कर्मोदयात् तत्स्वभावाद्वा कां-श्चिदेवार्थान गृह्णाति न सर्वानिति तदेवं नयनस्य प्राप्तकारि-त्वेऽतिप्रसङ्गलक्षणं प्राप्तकारिवादिना यदूषणमुक्तं तत्परिहृतम् अथवा योनयनमनसोःप्राप्यकारित्वमभ्युपगच्छति तस्याप्येतंदूषणमापतत्येव यचद्वयोर्दूषणंनतदेकस्यदातुमुचित-मित्येतचेतसि निधाय प्राह 'तुल्लोवेत्यादि' वा इत्ययवा एषोऽतिप्रसंगलक्षणउपालम्भस्तुल्यः समानः क्लेत्याह संप्राप्तविषयत्वेपि नयनमनसोरभ्यु पगम्यमाने तथाह्यत्रापि शक्यते वक्तुं यदि प्राप्तमर्थ गृह्णाति चक्षुस्तीतिसंप्राप्तनयनाञ्जन-रजोमलशलाकादीन् कस्मान्नगृह्णाति / मनोऽपि प्राप्तान् सर्वानपि किमिति न गृह्णाति घटप्राप्तिकाले पटादयो न प्राप्तां एवेति चेन्न तदप्राप्ती हेत्वभावात्तथाहि न तावत्कटकुटपादयस्तेषामाधारकास्तरन्तरितानामपि मेर्वादीनां मनसोऽपरिच्छेदानुभवा-त्कर्मोदयात्स्वभावाद्वा प्रतिनियतमेव मनः प्राप्नोतीति चेन्नन्वेतदप्राप्यकारिणो नयनस्यापि समान मिति गाथार्थः। तस्मात्किमिह स्थितमित्याह / / सामत्थामावाओ मणोव्व विसवपरउ पगिण्हेइ॥ कम्मक्खओवसमओ साणुग्गहओय सामत्थं |शा चक्षुः सिद्धान्तनिर्दिष्ट नियतविषयपरिणामात्परतोन गृह्णातीति प्रतिज्ञा चक्षुषश्चेह कर्तृत्वं प्रक्रमाद्य्यतेसामर्थ्याभावादिति हेतुर्मनोवदिति दृष्टान्तः सामर्थ्य भावो नयनस्य कुत इत्याह (कम्मक्खओ इत्यादि) तदावरणकर्मक्षयोपशमात्स्वानुग्रहतश्चाऽप्राप्तेष्ट्यपि केषुचिद्योग्यदेशावस्थितेष्वर्थेषु परिच्छेदे कर्तव्ये लोचनस्य सामर्थ्य भवति इदमुक्तं भवति अप्राप्तत्वे समानेऽपि येष्वर्थेषु ग्रहणविषये कर्मक्षयोपशमो भवति तथा स्वस्यात्मनो रूपालोके नमस्कारादिसामरयाः। सकाशादनुग्रहो भवति तेष्वर्थेषु कर्मक्षयोपशमवसद्भावाच्छेषसामग्रयनुग्रहाचक्षुषो ग्रहणसामर्थ्य भवति येषु त्वर्थेषु ग्रहणविषये कर्म-क्षयोपशमः शेषसामग्रयनुग्रहश्च नास्ति तेषु तस्य सामर्थ्या भाव इत्यर्थापत्तित एव गम्यते तस्मादव्यवस्थितमप्राप्यकारित्वं नयनस्य / विशेष इहसुगतमतानुसारिणःश्रोत्रमप्राप्यकारि प्रतिपद्यन्ते तथाच तद्रन्थाः चक्षुः श्रोत्रं मनोऽप्राप्यकारीति तदयुक्तमिहाप्राप्यकारितत्प्रतिपत्तुं शक्यते यस्य विषयकृतानुग्रहोपघाताभावो यथा चक्षुर्मनसोः / श्रोत्रेन्द्रियस्य च शब्दकृत उपधातो दृश्यते सद्यो जातबालकस्य समीपे महाप्रयत्नताडितझल्लरीरणत्कार श्रवणतो यद्वा विद्युत्प्रपाते तत्प्रत्यासन्नदेशवर्तिनां निर्घोषश्रवणतो व धिरीभावदर्शनात् / शब्दपरमाणवो हि उत्पत्तिदेशादारभ्य सर्वतो जलतरंगन्यायेन प्रसरमभिगृहानां श्रोत्रेन्द्रियदेशमागच्छन्ति ततः संभवत्युपपातः। ननु यदि श्रोत्रेन्द्रियं प्राप्तमेव शब्दंगृह्णातिनाप्राप्तं तर्हि यथा गन्धादौ गृह्यमाणेन तत्र दूरा सन्नादिभेदप्रतीतिरेवं शब्दोऽपि न स्यात् प्राप्तो हि विषयः परिच्छिद्यमानः सर्वोषि सन्निहित एव तत्कथं तत्र दूरासन्ना दिभेदप्रतीतिर्भवितुमर्हति अथ च प्रतीयते शब्दो दूरासन्नादि तथा तथा च लोके वक्तारः श्रूयते कस्यापि दूरे शब्द इति। अन्यच्च यदि प्राप्तः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोक्तोऽपिशब्दः श्रोत्रेन्द्रियेण श्रोत्रेन्द्रियसंस्पृष्टो गृह्यते इति श्रोत्रेन्द्रियस्य चाण्डालस्पर्शदोषप्रसंगः तन्न श्रेयः पदवीप्रतिष्ठाममितिष्ठति श्रोत्रेन्द्रियस्य प्राप्यकारित्वं तदेतदिति महामोह मलीमसभाषितं यतो यद्यपि शब्दोऽप्राप्तो गृह्यते श्रोत्रेन्द्रियेण तथाऽपि यत उत्थितःशब्दस्तस्य दूरासन्नत्वे शब्देऽपि स्वभाववैचित्र्यसंभवात् दूरासन्नादिभेदप्रतीतिर्भवति। तथाहि-दूरोदात्तः शब्दः क्षीणशक्तित्वात् खिन्न उपलक्ष्यते स्पष्टरूपो वा ततो लोके लोको वदति दूरे शब्दः श्रूयते यस्य च वाक्यस्यायं भावार्थो दूरादागतः शब्द श्रूयते इति स्यादेत देवमतिप्रसंगः प्राप्रोति तथाह्येतदपि वक्तुं शक्यते दूरे रूप मुपलभ्यते किमुक्तं भवति दूरादागतं रूपमुपलभ्यते ततश्चक्षुरापे प्राप्यकारि प्राप्नोति न चेष्यते तस्मान्नैतत्समीचीनमिति तदयुक्तं यत इह चक्षुषो रूपकृतावनुग्रहोपघातौ नोपलभ्येतेश्रोत्रेन्द्रियस्य तु शब्दकृत उपघातोऽस्ति एतच प्रागेवोक्तं ततोनातिप्रसंगादानमुपपत्तिमत्। अन्यच्च प्रत्यासन्नोऽपि जनः पवनस्य प्रतिकूलमवतिष्ठमानः शब्दं न शृणोति पवनवमनि तु वर्तमानो दूरदेशस्थितोऽपिशृणोति तथाच लोके वक्तारोन वयं प्रत्यासन्ना अपित्वदीयंवचः श्रुणुमः पवनस्य प्रतिकूलमवस्थानात्यदिपुनरप्राप्तमेव शब्दं रूपमिव जनाः प्रमिणुयुस्तर्हि वातस्य प्रतिकूलमप्यवतिष्ठमाना रूपमिव शब्दं यथावस्थितं प्रत्यासन्नाः प्रमिणुयुर्न च प्रमिण्वन्ति तस्मात्प्राप्ता एव परमाणवः श्रोत्रेन्द्रियेण परिगृह्यन्ते इत्यवश्यमभ्युपगन्तव्यं तथा च सति पवनस्य प्रतिकूलमप्यवतिष्ठमानानां श्रोत्रेन्द्रियं न शब्द परिमाणवो वैपुल्येन पाप्नुवन्ति तेषामन्यथा वातेन नीयमानत्वात् ततोनतेशृण्वन्तीतिन काचित् क्षितिः। यदपि चोक्तं चाण्डालस्पर्शदोषः प्रापोतीति तदपि चेतनाविकलपुरुषभाषितमिवासमीचीनं स्पर्शास्पर्शव्यवस्था या लोके काल्यनिकत्वात् तथाहि न स्पर्शस्य व्यवस्था लोके पारमार्थिकी तथाहि यामेव भुवमग्रे चाण्डालः स्पृशन् प्रयाति तामेवपृष्ठतः श्रोत्रियोऽपि, तथा यामेव नावमधिरोहतिस्म चाण्डालस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतश्चाण्डालमपि स्पृष्ट्वा श्रोत्रियमपि स्पृशति, न च तत्र लोके स्पर्शदोषव्यवस्था तथा शब्दपुद्गलसंस्पर्शेऽपि न भवतीति न कश्चिद्दोषः / अपि च यदा लोके केतकीदलनिचयं शतपत्रा-दिपुष्पनिचयं वा शिरसि निबध्य वपुषि वा मृगमदचन्दनाधवलेपन मारचय्य विपणिं वीथ्यामागत्य चाण्डालोऽवतिष्ठते तदा तद्गतकेतकीदलादिगन्धपुद्गलाः श्रोत्रियादिनासिकास्वपि प्रविशन्ति ततस्तत्रापि चाण्डालस्पर्शदोषः प्राप्नोतीति तद्दोषभयाना सिकेन्द्रियमप्राप्यकारि प्रत्तिपत्तव्यं नचैतद्भवतोऽप्यागमे प्रति पाद्यते ततो बालिशजल्पितमेतदितिकृतं प्रसंगेनेति / नंळा आम तथाचरत्नावतारिकायाम् "बौद्धाः पुनरिदमाहुः श्रोत्रं न प्राप्य बुद्धिमाद्धत्ते! दिग्देशत्यपदेशान् करोति शब्दे यतो दृग्वत्।।७७।। तथाहि / प्राच्यामत्रविजृम्भते जलमुचा मत्यूजितं गर्जितं प्रोन्मीलत्यलमेव चातकरवो क्षामक्षण दक्षिणः / केकाः केकिकुटुम्बकस्य विकसन्त्येताः कलाः काननादिग्देश-व्यपदेशवानितिन किं शब्देस्ति संप्रत्ययः / / 7 / / प्राप्यकारि यदि तु श्रवणं स्यात्तर्हि तत्र न कथंन न सैषः / प्रस्तुतः समुदयाद्व्यपदेशः शर्करास्पृशि यथा रसनायाम् // 79|| वेश्या नुरागप्रतिमं तदेतत् सुस्पृष्टदृष्टव्यभिचारदोषात् / घ्राणं यदेतद्