________________ इंदिय 589 अभिधानराजेन्द्रः भाग२ इंदिय त्वादितिभावः / तथा यत्स्वरूपेणैव सौम्यं शीतलं शीतरश्निजलघृतचन्द्रादिकंवस्तुतस्मिंश्विरमवलोकिते उपघाता-भावादनुग्रहमिव मन्येत चक्षुः को दोषः इत्यत्रापि संबध्यतेन कश्चिदित्यर्थः इति गाथार्थः आह यधुक्तन्यायेनोपघातका-नुग्राहकवस्तुभ्य उपघातानुग्रहाभावं चक्षुषो न ब्रूषे तर्हि यब्रूषे तत्कथय इत्यासङ्क्याह॥ गंतुंन रूवदेसं,पासइ पत्तं सयं च नियमो यं। एत्तेण उ मुत्तिमया उवघायाणुग्गहो होला। अथं नियमः इदमेवाऽस्माभिर्नियम्यत इत्यर्थः किं तदित्याह रूपस्य देशो रूपदेशः आदित्यमण्डलादिसमाक्रान्तप्रदेशरूपस्तं गत्वा उत्प्लवनतस्तं समालिख्य चक्षुर्न पश्यति न परिच्छिनत्त्यन्यस्याश्रुतत्वादूपमिति गम्यते (पत्तंसयंचत्ति) स्वयं वा अन्यत आगत्थ चक्षुर्देशं प्राप्तं समागतं रूप चक्षुर्न पश्यति किंत्वप्राप्तमेव योग्यदेशस्थं विषयं तत्पश्यति अत्राह परो नन्वनेन नियमेनाप्राप्यकारित्वं चक्षुषः प्रतिज्ञातं भवति नच प्रतिज्ञामात्रेणैव हेतुपन्या समन्तरेण समीहितवस्तु सिद्धिरतोहेतुरिहवक्तव्यः (जमणुग्गहाइ सुण्णंती) त्यनेन पुर्वोक्ता गाथावयवेन विषयकृतानुग्र होप वातशून्यत्वलक्षणोयमभिहित एवेति चदेहो जराविधुरितस्येव सूरेविस्मरणशीलता यतो (जमाणुग्गहाइसुण्णंतीत्यनेन) विषयादनुग्रहोपघातौ चक्षुषो निषेधयति (डज्झेज पाविउं रविकराइणा फरिसणंचे) त्यादिना तु पुनरपि ततस्तौ तस्य समनुजानीत अतो न विद्मः कोप्येष वचन क्रम इति नैतदेव-मभिप्रायापरिज्ञानाद्यतः प्रथमत एव विषय परिच्छेदमात्र-कालेऽनुग्रहोपघातशून्यताहेतुत्वेनोक्ता पश्चातु चिरमवलोकयतः प्रतिपत्तुः प्राप्तेन रविकिरणादिना चन्द्रमरी चिनीलादिना वा मूर्तिमता सर्गत एव केनाप्युपघातकेनानुग्राहकेन च विषयेणोपघातानुग्रही भवेताम् / अपीत्येतदे वाह / (एतेण उ मुत्तिमया इत्यादि) अनेनाभिप्रायेण तौ पुनरपि समनुज्ञायेतेन विस्मरणशीलतया यदिपुनर्विषयपरिच्छित्तिमात्रमपितमप्राप्तचक्षुर्न करोतीति नियम्यते तदा वह्निविषजलधिक ण्ट क-करवालक रपत्र-सौ वीराजनादि परिच्छित्तावपि तस्य दाहस्फोटक्लेदपाटननीरोगतादि लक्षणो पघातानुगृहप्रसङ्गः नहि समानायामपि प्राप्तौ रविकरादिना तस्य भवन्ति दाहादयो न वन्ह्यादिभिः। तस्माठ्यवस्थितमिदं विषयमप्राप्तौवं चक्षुः परिच्छिनत्ति अंजनदनादिकृतानुग्रहोपधातशून्यत्वान्मनोवत् / परिच्छेदानन्तरं तु पश्चात्प्राप्तेन केनाप्युपघातकेन अनुग्राहकेण वा मूर्तिमता द्रव्येण तस्यो पघातानुग्रहौ न निषिध्येते विषशर्करादिभक्षणे मूस्विास्थ्यादय इव मनसइति। अत्राऽपरः प्राह-नयनान्नायना रश्मयो निर्गत्य प्राप्य च रविबिम्बरश्मय इव वस्तुप्रकाशयन्तीति नयनस्य प्राप्यकारिता प्रोच्यते सूक्ष्मत्वेन च तेषां वन्ह्यादिभिर्दाहादयो न भवन्ति रविरश्मिषु तथा दर्शनात्तदेतदयुक्ततरं तेषां प्रत्यक्षादिप्रमाणाग्राह्यत्वेन श्रद्धातुमशक्यत्वात्तथाविधानाम-प्यस्तित्वकल्पनेऽति प्रसङ्गाद्वस्तुपरिच्छेदान्ययानुपपत्तेस्ते सन्तीति कल्प्यत इति चेन्न तानन्तरेणापितत्परिच्छेदोपपत्तेः नहि मनसोरश्मयः सन्तिनचतदप्राप्तं / वस्तु परिच्छिनत्ति वक्ष्यमाणयुक्तिभ्यस्तस्य तत्सिद्धेः न च रविरश्म्युदाहरणमात्रेणाचेतनानां नयनरश्मीनां वस्तुपरिच्छेदो युज्यते नखदन्त-भालतलादिगतशरीररश्मीनामपि स्पर्शविषयवस्तुपरिच्छेदप्रसङ्गादित्यलं विस्तरेणेति गाथार्थः / तदेव मञ्जनज्वलना- | दिविषयविहितानुग्रहोपघातशून्यत्वलक्षहणहे तोर प्राप्यकारितां चक्षुषः प्रसाध्य हेत्वन्तरेणापि तस्य तांप्र-साधयितुमाहजइ पत्तं गिण्हिजउ तग्गयमंजणरओमलाइयं // पिच्छेन यं न पासइ अपत्तकारि तओ चक्खु / / 12 / / यदि तु प्राप्तं विषयं चक्षुर्गृहीयादित्युच्यते तदा तद्रतमात्मसंबद्धमजनरजोमलशलाकादिकं पश्येदवगच्छेत् तस्य निर्विवादमेव तत्प्राप्तत्वेनोपलब्धेः यस्माच न पश्यति ततो-ऽप्राप्तकारि चक्षुरिति स्थितम् / यद्यप्राप्यकारि चक्षुस्त प्राप्त त्वाविशेषात्सर्वस्याऽप्यर्थस्थाविशेषेणग्राहकं स्यान्न प्रतिनियत स्येति चेन्न ज्ञानदर्शनावरणादेस्तत्प्रतिबन्धकस्य सद्भावान्मनसा व्यभिचाराच्च तथा ह्यप्राप्यकारित्वे सत्यपि नाविशेषेण सर्वार्थषु मनः प्रवर्तते इन्द्रियाद्यप्रकाशितेषु सर्वथा अदृष्टा श्रुतार्थेषु तत्प्रवृत्यदर्शनादित्यलं प्रसंगेनेति गाथार्थः / तदेवं व्यवस्थापिता चक्षुषोऽप्राप्यकारिता-विशे।। तदेवं नयनमनासोर्विस्तरेणाप्राप्यकारितायां साधितायां नयन पक्षेऽद्यापि दूषणशेषमुत्पश्यन् परः प्राह-- जइ नयणिंदिय पत्तकारि सव्वन्न गिण्हए कम्हा॥ गहणागहणं किंकयमपत्त विसयत्त सामने 11|| यद्युक्तं युक्तिभ्यो नयनेन्द्रियमप्राप्तकारि तर्हि सर्वमपि त्रिभुवनान्तर्वर्ति वस्तुनि कुरम्बं कस्मान्न गृह्णाति अप्राप्ति-त्वाविशेषादेतठ्यक्तीकरोति अप्राप्तो विषयो यस्य तदप्राप्तिविषयं तद्भावोऽप्राप्तविषयत्वं तस्मिन् सामान्येऽविशिष्टऽपि सति यदिदं कस्यचिदर्थस्य ग्रहणं कस्यचिदग्रहणं तत्किकृतं किं निबन्धनं नेह किंचिन्निबन्धनमुत्पश्याम इतिभावः इतिगाथार्थः / तस्मादो आचार्य? तस्य चक्षुषो विषयपरिमाणोऽनयत्यमापोतीत्येतदेवाहविसयपरिमाणमनिययमपत्त क्सियति तस्स मणसोव्व। मणसो वि विसय नियमो नक्कमइजओ समवत्थ। विषयस्य ग्राहकस्य परिमाणमनियतमपरिमितं प्राप्नोति तस्य चक्षुष इति ज्ञानहेतुमाह अप्राप्तविषय इति कृत्वा मनसहावेति दृष्टान्तप्रयोगः यदप्राप्तमपि विषयं परिच्छिनत्तिन तस्य तस्परिमाणं युक्तं यथा मनसः। अप्राप्तं विषयमनुगच्छति चक्षुस्तस्मान्न तस्य तत्परिणाम युक्तमिति / अथेह प्रयोगे दृष्टान्तस्य साध्यवैकल्ये सूरिरूपदर्शयति मनसो दृष्टान्तीकृतस्याप्राप्यकारिणो विषयनियमोऽस्त्येवेति शेषः / कुत इत्याह / (मन सत्ति) तदपिमनः सर्वेष्वर्थेषु न क्रामति न प्रसरति इति गाथार्थः। तथाहि अत्थगहणेसु मुज्झुइ सत्तेसु वि केवलाई गम्मेसु / तं किं कयमग्गहणं अपत्तकारित्तसामण्णो॥ अर्थाएव मतेर्दुः प्रवेशत्वाद्गहनानि तेष्वनन्तेषु सत्स्वपि विद्यमानेष्वपि कथंभूतेष्वित्याह / केवलं केवलज्ञानमादिये-षामवधिज्ञानागमादीनां तानि केवलादीनि तैर्गम्यन्ते ज्ञायन्ते के वलादिगम्यानि तेष्वेवं भूतेष्वर्थगहनेषुसत्स्वपिकस्य-चिन्मन्दमतेर्जन्तर्मनोमुह्यतिकुण्ठी भवति। तदवगमनाय न प्रभवति तान् गहनभूतान् केवलादिगम्यान्सतोऽप्यन्न गृह्णाति तात्पर्य तत्रतदत्राहमपिभवन्तं पृच्छामि तदेतन्मनसोऽग्रहणमर्थानां किं कृतं किं निबन्धनमप्राप्तकारित्वसामान्येऽप्राप्तकारित्वे