________________ इंदिय 588 अभिधानराजेन्द्रः भाग२ इंदिय पक परिछिन्दत्तत्कृतानुग्रहोपघातभाग भवति तथा चक्षुर्मनसी अपि भवेतां विशेषाभावात् न च भवतस्तस्मादप्राप्तकारिणी तेन तु दृश्यते एवं चक्षुषो विषयकृतावग्रहोपघातौ / तथाहि घनपटलविनिमुक्त नभसि सर्वतो निबिडतरतमोऽपेतकरप्रसरमभि सर्पयन्तमंशुमालिनमनवरतमवलोकमानस्य भवति चक्षुषो विघातः शशाङ्ककरकदम्बकं यदि वा तर ङ्गमालोपशोभितंजलं तरुमण्डलंचशाडवलं निरन्तरं निरीक्ष्यमाणस्य चानुग्रहः / तदेतदप-रिभावितभाषितं यतो न ब्रूमः सर्वथा विषयकृतावनुग्रहोपधातौ न भवतः किं त्वेतावदेव वदामो यदा विषयं विषयतया चक्षुरवलम्बते तदा तत्कृतावनुग्रहोपघातौ तस्य न भवत इति तदप्राप्यकारि | शेषकालं तु प्राप्तेनोप वातके नोपघातो भविष्यत्यनुग्राहकेण वानुग्रहस्तत्रांशुमालिनो रश्मयः सर्वत्रापि प्रसरमुपाददाना यदांशुमालिनः सन्मुखमीक्ष्यते तदा ते चक्षुर्देशमपि प्रापुवन्ति ततश्चक्षुः संप्राप्तास्ते स्पर्शनेन्द्रियमिव चक्षुरुपघ्रन्ति शीतांशुरश्मयश्च स्वभावत एव शीतलत्वादनुग्राहकास्ततस्ते चक्षुः संप्राप्तास्सन्तस्तत्स्पर्शनेन्द्रियमिव चक्षुरनु गृह्णति तरङ्गमालासंकुलजलावलोकने च जलकणसंपृक्तसमीरावयवसंस्पर्शतोऽनुग्रहो भवति शाड्वलतरुमंडलावलोकनेपि शाड्वलतरुच्छायासंपर्कशीतभूतसमीरणसंस्पर्शात् शेषकालं तुजलाधवलोकने अनुग्रहाभिमान उपघाताभावादवसेयो भवति / चोपघाताभावेऽनुग्रहाभिमानो यथातिसूक्ष्माक्षरनिरीक्षणाद्विनिवर्त्य यथा सुखं नीलरत्नवस्वाद्यवलोकने इत्थं चैतदङ्गीकर्तव्यमन्यथा समासेन संपर्के यथा सूर्यमीक्षमाणस्य सूर्येणोपघातो भवति तथा हुतवहजलशूलाद्यालोकने दाहक्लेदपाटनादयो पि कस्मान्न भवन्ति अपिच यदि चक्षुः प्राप्यकारि तर्हि स्वदेशगतरजोमलाञ्जनशलाकादिकं किंन पश्यति तस्मादप्राप्यकार्येव चक्षुः। ननु यदि चक्षुरप्राप्तकारि तर्हि मनोवत् कस्मादविशेषेण सर्वानपि दूरं व्यवहितानान्न गृह्णाति यदि हि प्राप्तं परिच्छिन्द्यात्तर्हि यदेवानावृतमदूरदेशं वा तदेव गृह्णीयात्नावृतंदूरदेश वा तत्रचक्षूरश्मीना गमनासंभवे संपर्कासंभवात् ततो युज्यते चक्षुतो ग्रहणाग्रहणेनान्यथा तथाचोक्तम् 'प्राप्यकारि चक्षुरुपलब्ध्यनुपलब्ध्योरनावरणेतरापेक्षणाच" यदि हि चक्षुरप्राप्तकारिभवेत्तदावरणभावादनुपलब्धिरन्यथोपलब्धिरिति न स्यात् / नहि तदावरणमुपघातकरणसमर्थ प्राप्यकारित्वे तु मूर्तद्रव्य-प्रतिघातादुपपत्तिमानव्याघातात् अतिदूरे च गमनाभावादिति प्रयोगश्चात्र न चक्षुषो विषयपरिमाणमप्राप्यकारित्वान्मनोवत् तदेतदयुक्ततरं दृष्टान्तस्य साध्यविकलत्वात्न खलु मनो प्यशेषान् विषयान् गृह्णाति तस्यापि सूक्ष्मेप्वागमगमादि प्यर्थेषु मोहदर्शनात् तस्माद्यथा मनो प्राप्यकार्यपि स्वावरण क्षयोपशमापेक्षत्वानियतविषयं तथा चक्षुरपि स्वावरणक्षयो पशमसापेक्षत्वाद प्राप्यकार्यपि योग्यदेशावस्थितनियतविषयमिति नव्य-दहितानुपलम्भ प्रसंगो नापि दूरदेशस्थितानामिति / अपिच दृष्ट मप्राप्यकारित्वेऽपि तथा स्वभावविशेषाद्योग्यदेशापेक्षणं यथा ऽयस्कान्तस्य न खल्वयस्कान्तोऽयसोऽप्राप्यकर्षणे प्रवर्तमानः सर्वस्याप्ययसोजगदर्तिन आकर्षको भवति किंतु प्रतिनियतस्यैव / शङ्करस्वामी प्राह अयस्कान्तोऽपि प्राप्यकारी अयस्कान्तश्छायाणुभिः समाकृष्यमाण वस्तुनः संबन्धभावात् केवलं तेछायाणवः सूक्ष्मत्वान्नोपलभ्यन्ते इति तदेतदुन्मत्त प्रलपितं तदाहक प्रमाणाभावात् नहि तत्र छायाणु संभवग्राहक प्रमाणमस्ति न चाप्रमाणकं प्रतिपत्तुं शक मः अथास्ति तद्ग्राहक प्रमाणमनुमानम्-इह यदाकर्षणं तत्संसर्गपूर्वकं यथाऽयोगोलकस्य संदंशेनाकर्षणं चायसोऽयस्कान्तेन तत्र साक्षादयस्कान्ते संसर्गः प्रत्यक्षबाधित इति अर्थात् छायाणुभिः सह दृष्टव्य इति तदपि बालि शजल्पितं हेतोरनैकांतिकत्वात् मन्त्रेण व्यभिचारात् / तथाहि-मन्त्रः स्मर्यमाणोऽपि विवक्षितं वस्तु आकर्षति न च कोऽपि तत्र संसर्ग इति। अपिच यथा छायाणवः प्राप्तमयः समाकर्षन्ति तथा काष्ठादिकमपि प्राप्त कस्मान्न कर्षन्ति शक्ति प्रतिनियमादिति चेन्मनसः शक्तिप्रतिनियमोडप्राप्तावपि तुल्य एवेति व्यर्थं छायाणुपरिकल्पनम् अन्यस्त्वाह अस्ति चक्षुषःप्राप्यकारित्वे व्यवहितार्थानुपलब्धेरनुमानं प्रमाणं तदयुक्तमत्रापि हेतोरनैकान्तिकत्वात्। काचाभ्रपटलस्फटिकैरन्तरित-स्याप्युपलब्धेः अथैवमाचक्षीथाः नयनरश्मयो निर्गत्य तमर्थं गृह्णन्ति नायनाश्च रश्मयस्तैजसत्वान्न तेजोद्रव्यैः प्रतिस्खल्यन्ते ततो न कश्चिद्दोषः तदपि न मनोरमं महाज्वलादौ स्खलनो-पलब्धेस्तस्मादप्राप्यकारिचक्षुरिति स्थितम् नं आम.(मनसो ऽप्राप्यकारिता मनः शब्देपि) तथाच विशेषावश्यकेनयनमनसोरप्राप्यकारित्वमभिधित्सुर्नयनस्य तावदाहलोयणमपत्तविसयं, मणो व्व जमणुग्गहाइ सुण्णंति। जलसूरालोयाइसु. दीसंति अणुग्गहोवधाया। अप्राप्तोऽसंबद्धोऽसंश्लिष्टो विषयो ग्राह्यवस्तुरूपो यस्य तद प्राप्तविषयं लोचनमप्राप्यकारीत्यर्थः इति प्रतिज्ञा / कुत इत्याहयद्यस्मादनुग्रहादिशून्यमादिशब्दादुपघातपरिग्रहः बाह्यवस्तुकृतानुग्रहोपघातशून्यत्वादित्यर्थः अयच हेतुः मना वदिति दृष्टान्तः / यदि हि लोचनं ग्राह्यवस्तुनासह संबध्यतत्परिच्छेदं कुर्यात् तदाग्न्यादिदर्शने स्पर्शनस्येव दाहाद्युप घातः स्यात् कोमलतल्पाद्यवलोकने त्वनुग्रहो भवेत् व चैवं तस्माद प्राप्यकारि लोचनमिति भावः मनस्यप्राप्यकारित्वं परस्यासिद्धमिति कथं तस्य दृष्टान्तत्वेनोन्यास इति चेत्सत्थं किन्तु वक्ष्यमाणयुक्तिभिस्तत्र तत्सिद्धमिति निश्चित्य तस्येह दृष्टान्तत्वेन प्रदर्शनमित्यदोषः। अथ परो हेतोरसिद्धतामुद्भावयन्नाह (जलसूरेत्यादि) आदिशब्द आलोकशब्दश्च प्रत्येकमभिसम्बध्यते ततश्च जलादीनामालोके लोचनस्याऽनुग्रहो दृश्यते सूरादीनां त्वालोके उपघात इत्य-तोऽनुग्रहादिशून्य त्वादित्यसिद्धो हेतुरित्यर्थः / इदमुक्तं भवति जलघृतनीलवसनवनस्पतीन्दुमण्डलाद्यवलोक ने नयनस्य परमाश्वासलक्षणोनुग्रहः समीक्ष्यते सूरसितभित्त्यादिदर्शने तु जलविगलना दिरूप उपधातः संदृश्यत इत्यतः किमुच्यते (जमणुग्गहाइसुण्णंतीति) गाथार्थः / / अत्रोत्तरमाहडज्झेल पावित्रं रवि-कराइणा फरसणंव को दोसो।। मणिशाणुग्गहं पिव उवघायाभावओ सोम्मे / / 210 / / अथमत्रभावार्थः अस्मदभिप्रायानभिज्ञोऽप्रस्तुताभिधायी परो न हि क्यमेतद्यूमोयचक्षुषः कुतोऽपिवस्तुनः सकाशात्कदापिसर्वथैवानुग्रहोपधातौ नभवतस्ततोरविकरादिना दाहात्मकतो-पघातवस्तुना परिच्छेदानन्तरं पश्चाचिरमवलोकयतः प्रतिपत्तुश्चक्षुः प्राप्य समासाद्य स्पर्शनेन्द्रियमिव दह्येत दाहादिलक्षणस्तस्योपघातः क्रियत इत्यर्थः एतावता चाप्राप्यकारिचक्षुर्वादिनामस्माकंकोदोषोन कश्चिदृष्टस्य बाधितुमशक्य