________________ इंदिय 587 अभिधानराजेन्द्रः भाग 2 इंदिय स्तेन तेचे द्विमलजलभरात्कि भजन्ते न शान्ति, किं चाम्भ: काचकूपोदरविवरगतं निष्पतेत्तत्तदानीम् / दोषश्चेन्नैष तूर्णं यदयमुदयते नूतनव्यूहरूपः सर्पेयुस्तर्हि नैताः कथमपि रुचयोलोचनस्यापि तस्मिन् ||72 / / भवति परिगमश्चे द्वेगवत्त्वादमीषां कतिपयकलयास्तु क्षीरपातस्तदानीम्।नचभवति कदाचि-दुद्दस्यापितस्मात्प्रपतनमिति युक्तस्तस्य नाशः किमाशु // 73 / / किंच / / कलशकुलिशप्राकाराद्यत्रिविष्टपकन्दराकु हरकलितं विश्वं वस्तु प्रतीक्षणभंगुरम् / ज्वलनकलिकावरिकत्व-स्मिन्निरन्तरताभ्रमः प्रभवति वदन्नित्थं शाक्यः कथं प्रतिहन्यते७४|| तस्थौ स्थेमा तदस्मिन् व्यवधिमद मुना प्रेक्ष्यते येन सर्वम् तत्सिद्धा नेत्रबुद्धिर्व्यवधिपरिगतस्यापि भावस्य सम्यक् / कुड्यावष्टब्धबुद्धिर्भवति किमु न चेन्नेदृशी योग्यतास्य प्राप्तस्यापि प्रकाशे प्रभवति न कथं लोचनागन्धबुद्धिः 1175|| किं वा न प्रतिभासते शशधरे कर्मापि तद्रूपवत् दूराचेद्विलसत्तदस्य उदये लक्ष्येत किं लाच्छनम्। तस्माचक्षुषि योग्यतैव शरणं साक्षी चनः प्रत्ययस्तत्तर्कप्रगुण प्रतीहि नयनेष्वप्राप्यधीः कर्तृताम्॥७६|| रत्ना०२ परि०५ सूत्रे / तथा। च विशेषावश्यकेऽपि नन्विन्द्रियत्वे तुल्येऽपि केयम्मुख परीक्षिका यच्चतुर्ष स्पर्शनोदीन्द्रियेषु प्राप्यकारिताऽभ्युपगम्य नतु नत्रमवसोरित्याह। उवघाया णुग्गहओ, जंताई पत्तकारीणि। तत्र विषयभूतं शब्दादिकं वस्तुप्राप्तं संश्लेषद्वारेणासादितं कुर्वन्ति परिच्छिन्दन्तीति प्राप्तकारीणि प्राप्तकारीणि स्पृष्टार्थग्राही-णीत्यर्थः / कुतः पुनरेतान्येव प्राप्यकारीणीत्याह / उपघातश्चानुग्रहश्चोपधातानुग्रही तयोर्दशनात्कर्कशकंबलादिस्पर्शने, त्रिकटुकाधास्वादने, अशुच्यादिपुद्गलाघाणे, भेर्यादिशब्दश्रवणे, त्वक् क्षणनाद्युपघातदर्शनाचंदनादिस्पर्शने, क्षीरशर्कराधास्वादने, कप (पुद्गलाघ्राणे, मृदुमन्दशब्दाद्याकर्णने तु शैत्याद्यनु-ग्रहदर्शनादित्यर्थः / नयनस्य तु निशितकरपत्रप्रोल्लसद्भल्ला-दिवीक्षणेऽपि पाटनाद्युपधातानवलोकनाचन्दनागरुकर्पूरा-धवलोकनेऽपि शैत्याद्यनुनाहाननुभवात्। मनसस्तु वया-दिचिन्तनेपिदाहाद्युपघ्रातादर्शनाजलचन्दनादिचिन्तायामपिच पिपासोपशमानुग्रहाऽसंभवाचेति। अत्र परः प्राह। जुज्जइ पत्तविसयया, फरिसणरसणेन सोत्तघाणेसु। गिण्हंति सविसयं चिउ, जुत्ताई मिन्नदेशंपि॥२०५।। प्राप्तः स्पृष्टो विषयो ग्राह्यवस्तुरूपो यथोस्ते प्राप्तविषये तयो र्भावः प्राप्तविषयता सा युज्यते घटते / कस्मिन्नित्याह / स्पर्शनं रसनं चेति समाहारद्वन्द्वस्तस्मिन् स्पर्शनरसनेन्द्रिय इत्यर्थः / अनभिमतप्रतिषेधमाह। न श्रोत्राघ्राणयोः प्राप्तविषयता युज्यते / यद्यस्मात्कारणादितो विवक्षितात्स्वदेशादिन्नदेशमपि स्वविषयमेव गृह्णीतोस्यार्थस्यानुभवसिद्धत्वात् न हि शब्दः कश्चिच्छ्रोत्रेन्द्रिये प्रविशन्मुपलभ्यते नापि श्रोत्रेन्द्रियं शब्ददेशे गच्छन् समीक्ष्यते न चाभ्यामन्येनापि प्रकारेण विषयस्पर्शनं घटते। दूरे एष कस्यापि शब्दः श्रृयत इत्यादि जनोक्तिश्च श्रूयते कर्पूरकुंकुमकुसुमादीनां दूरस्थानामपि गन्धो निर्विवादमनुभूयतेच तस्मात् श्रोत्रध्राणयोः प्राप्तविषयतान युज्यत एवेति गाथार्थः। अत्रोच्यते पावंति सहगंधा, ताई गंतुं सयं न गिण्हंति। जं ते पोग्गलमइया, सकिरिया वाउवहणाउ||२०६|| धूमोव्व संहरण उ, दाराणु विहाणओ विसेसेणं। तोयव्य नियंबाइसु, पडिघायाओ यवाउव्व / / 207 / / (पावंति सद्दगंधा ताइंति) शब्दगन्धौ कर्तृभूमौ ते श्रोत्र घाणेन्द्रिये कर्मतापने अन्यत आगत्य प्राप्नुतः स्पृशत इति प्रतिज्ञा / अनभिमतप्रकारप्रतिषेधमाह। गंतुसयंन गिण्हतित्ति) ताइंति-संबध्यते अत्रापि / ततश्च ते श्रोत्रघ्राणे कर्तृभूते पुनः स्वयं शब्दगन्धदेशं गत्वा न गृहीतःशब्दगन्धाविति विभक्तिव्यत्ययेन संबध्यते आत्मनोऽबाह्यकरणत्वाच्छ्रोत्रघ्राणयोः स्पर्शनरसनवदिति। ननु शब्दगन्धावपि श्रोत्रध्राणे कुतः प्राप्नुत इत्याह (जं ते पोग्गलमइया सक्किरियत्ति) यस्मात्कारणात्तौ शब्दगन्धौ सक्रियौ गत्यादिक्रियावन्तौ तस्मादन्यत आगत्य श्रोत्रघ्राणे प्राप्नुतः कथंभूतौ सन्तौ सक्रियौ तावित्याह। पुनः पुद्गलमयौ यदि पुनरपौद्रलिकत्वादमूर्ती स्यातां तदा यथा जैनमतेन सक्रियेष्याकाशादिषु गतिक्रिया नास्ति तथैव तयोरपि न स्यादित्यालोच्य पुगलमयत्वविशेषणभकारि पुगलमयत्वे सति सक्रि याविति भावः / यचैवंभूतं तत्र गतिक्रियास्त्येव यथा पुनस्कन्धेष्वित्याह-ननु पुद्गमयत्वेऽपि सति शब्दगन्धयोर्गतिक्रियाऽस्तीति कुतो निश्चीयत इत्याह(वा उवहणाउ धूमोध्वत्ति) वायुना वहनं नयनं वायुवहनं तस्मादिदमुक्तं भवति यथा पवनाधूम इव गति-क्रियाभाजौ तौ तथाविशेषण द्वारानुविधानतस्तोयवत्तद्वन्तावेतौ तथा पर्वतनितम्बादिषु प्रतिघातात्प्रतिस्खलनाद्वायुवदेतौ गतिक्रियाश्रयाविति गाथाद्वयार्थः / हेत्वन्तरेणापि शब्दगन्धयोः सुयुक्तिकं गति क्रियावत्वं समर्थयन्नाहगेण्हंति पत्तमत्थं, उवघायाणुग्गहोवलद्धीओ॥ वाहिजपूइनासा-रिसादओ कहमसंबद्धे / / 20 / / प्राप्तमन्यत आगत्यात्मना सह संबद्धं शब्दगन्धलक्षणमर्थ गृह्णीतः श्रोत्रघाणेन्द्रिये इति गम्यते। एतेन शब्दगन्धयारोगमनक्रिया प्रतिज्ञाता भवति कुतः प्राप्तमेव गृह्णीत इत्याह उपघात-श्चानुग्रहश्चोपघातानुग्रही तयोरुपलब्धः तथाहि भेर्यादिमहाशब्दप्रदेशे श्रोत्रस्य बाधिर्यरूप उपधातो दृश्यते कोमलशब्दश्रवणे त्वनुग्रहः घ्राणस्याप्यशुच्चादिगन्धप्रवेशे पूतिरोगाऽर्शोव्याधिरूप उपधातोऽवलोक्यतेकर्पूरादिगन्धप्रवेशे त्वनुग्रहः शब्दगन्धा-संबन्धेऽपि श्रोत्रघ्राणयोरेतावनुग्रहोपधातौ भविष्यत इति चेदित्याह (वाहिज्जेत्यादि) बाधिर्यच पूतिश्चनासाकोयलक्षणोरोगविशेषः नासाऑसि च तानि आदिर्थेषां शेषोपघाताऽनुग्रहाणां ते यथा भूताः कथमुपगच्छे यु : क्व सति इत्याह (असंबद्धेति) स्वहेतुभूते शब्दगन्धलक्षणवस्तुनीति गम्यते। इदमुक्तं भवति। श्रोत्रघ्राणाभ्यां सह संबद्धा एव शब्दगन्धाःस्वकार्यभूतंबाधिर्योपघातमनुग्रहं वाजनयितुमलं नान्यधा सर्वस्यापि तज्जननप्राप्तेरतिप्रसङ्गादिति गाथार्थः / तदेवं स्पर्शनरसनघ्राणश्रोत्राणां प्राप्यकारित्वं समर्थितम्। विशेoll आ.चूoा। ___ साम्प्रतं नयनमनसोरप्राप्यकारित्वसमर्थनायाह। * कथमप्राप्यकारित्वं तथोरवसीयते उच्यते विषयकृतानुग्रहो पघाताभावात् तथाहि यदि प्राप्तमर्थ चक्षुर्मनो वा गृह्णीयात् तर्हि यथा स्पर्शनेन्द्रियं सक् चन्दनादिकमगारादिकं च प्राप्तमर्थ