________________ इंदिय 586 अमिधानराजेन्द्रः भाग 2 इंदिय अथास्तु कामं ननु तैजसत्वमुत्तेजितं किं न भवेत्त्वयास्य / तथा च नव्यस्त्वदुज्ञ एषोऽद्वैतप्रवादोऽजनि तैजसत्वे 26 उत्पद्यन्ते तरणिकिरणश्रेणिसंपर्चतश्चेत्तत्रोद्भूताः सपदि रुचयो लोचने रोचमानाः। यद्गृह्यन्ते न खलु तपनालोकसं पत्प्रतानस्तस्मिन् हेतुर्भवति हि दिवा दीपभासामभासः // 27 / / अत्रेयं प्रतिक्रियामुष्टिग्राह्ये कुवलयदलश्यामलिम्नाऽविलिप्ते स्फीते ध्वान्ते स्फुरति चरतो घूककाकोदरादेः। किं लक्ष्यंते क्षणमपि रुचो लोचनेनैव यस्मादालोकस्य प्रसरणकथा काचिदप्यत्र नास्ति।।२८।। उत्पत्तिरुद्भूततयाथतासां तत्रैव यत्रास्तिरवि प्रकाशः। काकोदरादेरपि तर्हि नैताः कीटप्रकाशे कुशला भवेयुः / / 29 / / अविवरतिमिरव्यतिकरपरिकरितापवर कोदरे वचन / वृषदंश दृशि न | दृष्टा मरीचयः किमु कदाचिदथ // 30 // अत एव विलोकयन्ति सम्यक्तिमिराङ्कूरकरंबितेऽपि कोणे। मूषकपरिपन्थिनः पदार्थान् ज्वलनालोकविजृम्भणं विनैव // 31 // अत्रोत्तरम्-चाकचिक्यप्रतीभास- / मात्रमत्रास्ति वज्रवत्। नांशवःप्रसरन्तस्तु,प्रेक्ष्यन्तेसूक्ष्मका अपि // 32 // | माजरिस्य यदीक्षण प्रणथिनः केचिन्मयूखाः सखे विद्येरन् न तदा कथं निशि भृशं त्तचक्षुषा प्रेक्षिते / प्रोन्मीलत्करपुञ्जपिञ्जरतनौ संजा तवत्युन्दरे प्रोजृम्भेत तवापि हन्त धिषणा दीपप्रदीपाद्यथा // 33 / / कृशतरतथा तेषां नोचेदुदेति मतिस्तव प्रभवति कथं तस्याप्यस्मिन्नसौ निरुपप्लवा / घटनविपुणा साक्षात्प्रेक्षाविधौ हि ततिस्त्विषां न खलु न समा धीमन् ! सा चोभयत्र विभाव्यते // 34 // अमूदृग्मूषिकारीषां तस्मादस्ति स्वयोग्यता। यया तमस्यपीक्षन्ते, नचक्रश्मिवत्पुनः॥३५|| इत्थं न चक्षुषि कथंचिदपि प्रयाति, संसिद्धिपद्धतिमियं खलु रश्मिक्त्ता। तस्मात्कथं कथय तार्किकचक्षुषः स्यात् प्राप्यैव वस्तुनि मतिः प्रतिबोधकत्वम् // 36 // बहिरर्थग्रहोन्मुख्यं बहिः कारणजन्यता / स्थायित्वं वा बहिर्देशे किं बाह्येन्द्रियता भवेत्।।३७।। तत्रादिमायां भिदि चेतसा स्थादेतस्य हे तोर्व्यभिचारचिह्नम् अप्राप्यकारि प्रकरोति यस्मान्मन्दा किनी मन्दरबुद्धिमेतत् / / 38 / / दोषः स एवोत्तरकल्पनायां यदात्मनः पुद्गल एष बाह्यः / चेतश्च तस्मादुपजायमान मेतद्वहिःकारणजन्यताभृत् / / 39 // चेतः सनातनतया कलितस्वरूपं सर्वापकृष्टपरिमाणपवित्रितं च / प्रायः प्रिय प्रणयिनीप्रणयातिरेकादेतत्करोति हृदये ननु तर्कतज्ज्ञाः 140ll एतदत्र विततीक्रियमाणं प्रस्तुतेतरदिव प्रतिभाति / विस्तराय च भवेदिति चिन्त्यं तद्विलोक्य गुरुगुम्फितवृत्तिम् // 41|| पक्षे तृतीये विषयप्रदेशः शरीरदेशो यदि वा बहिः स्यात् / स्थायित्वमाद्ये विषयाश्रितत्वं यद्वा प्रवृत्तिर्विषयोमुखी स्यात् // 42 / / प्राचीनपक्षे प्रतिवाद्यसिद्धिः कलङ्कपङ्कः समुपैति हेतोः / स्यावादिना यत्प्रतिवादिनास्य नाङ्गीकृतं मेयसमाश्रितत्वम्॥४३॥ पक्षे तथा साधनशून्यतास्मिन् दृष्टान्तदोषःप्रकटः पटूनाम्। जिह्वेन्द्रियं नार्थ समाश्रितं यद्विलोकयामासुरमी कदाचित् / / 4 / / द्वितीयकल्पे किमसौ प्रवृत्तिराभिमुख्य न विसर्षणं स्थात् // आश्रित्थ किं वा विषयप्रपञ्चप्रतीतिसंपत्प्रतिबोधकत्वम् ||11|| पक्षे पुरश्चारिणि सिद्धिबन्ध्यं स्यात्साधनं जैनमतानुगानाम् / यस्मान्न तैलोचनरश्मिचक्रमङ्गीकृतं वस्तुमुखं प्रसर्षत् ।।४क्षा निदर्शनस्यस्फुटमेव दृष्टं / वैकल्यमत्रैव हि साधनेन / पदार्थसाथ प्रति यन्नसपजिह्वेन्द्रियं केनचिदिष्टपूर्वम् / / 47|| पक्षान्तरे तु व्यभिचारमुद्रा किं चेतसा नैव समुज्जजृम्भे / यस्मात्तद-प्राप्तसुपर्वशैलस्वर्गे समुत्पादयति प्रतीतिम् ||शरीरस्य बहिर्देशे स्थायित्वं यदिजल्प्यते। बाह्येन्द्रियत्वमत्रस्यात्संदिग्धव्यभिचारिता // 49 / / अप्राप्तार्थपरिच्छेदे नापि सार्द्ध न विद्यते। हेतो ह्येन्द्रियत्वस्य विरोधो वत कश्चन || क्वचित्साध्यनिवृत्त्या तु हेतुव्यावृत्तिदर्शनात् प्रतिबन्ध-प्रसिद्धिश्चेत्तदात्रापि कथं न सा // 11 // रसन-स्पर्शन-घ्राण-श्रोत्रान्येन्द्रियता बलात् / चक्षुरप्राप्तविज्ञातृमनोवत् प्रतिपाद्यताम् // 12 // साध्यव्यावृत्तितोऽत्रापि हेतुव्यावृत्तिरीक्षता / नच कश्चिद्विशेषोऽस्ति, येनैकत्रैव सा मता // 13 // बाह्येन्द्रियत्वं सकलङ्कमेव न तार्किकान् प्रीणयितुं तदीष्टे / भूविभ्रमो दुर्भगभामिनीनां वैदग्धभाजो भजते न चेतः ||54 // किं चात्र संसूचितमादिशब्दात् वृत्ते पुरश्चारिणि कारकत्वं / यत्प्राप्यकारित्वसमर्थनाय नेत्रस्य तत्काणदृगञ्जनाभम् ||15|| यस्मादिदं मन्त्रजपोपसर्प-त्योद्दामरामाव्यभिचारदोषात् / उत्तालवेतालकरालके लि-कलंकितश्रीकमिवावभाति ||16|| तथाहि / कनकनिकषस्निग्धां मुग्धां मुहुर्मधुरस्मितां चटुलकुटिल-भूविभ्रान्तिं कटाक्षपटुच्छटाम् / त्रिजगति गतां कश्चिन्मंत्री समानयति क्षणात् तरुणरमणीमारान्मन्त्रान्मनोभुवि संस्मरन् // 57 // कश्चिदत्र गदति स्म यत्पुनमन्त्रमन्त्रणगवी समानयेत् / युक्तमेव मदिरेक्षणादिकं तेन नाभिहितदूषणोदयः / / 58 मन्त्रस्य साक्षाद्घटना प्रियादिना परंपरातो यदिवा निगद्यते।साक्षान्न तावद्यदयं विहायसोध्वनिस्वरूपस्तव सम्मतो गुणः / / 19 / / ततोऽस्य तेनैव समं समस्ति संसक्तिवार्तानतुपक्ष्मलाक्ष्या। अथाक्षरालम्बनवेदनं स्यान्मन्त्रस्तथाप्यस्त्वियमात्मनैव / / 60 / / अथापि मन्त्रस्य निवेद्यते त्वया संसक्तिरेतत्पतिदेवतात्मना। संतोषपोषप्रगुणा च सा प्रियां प्रियं प्रतिप्रेरयति स्वयोगिनीम्॥६|| ब्रूमहेऽत्र ननु देवतात्मनां मन्त्रवर्णविसरस्य का घटा। अम्बरस्य गुण एव तत्कथं देवतात्मनि भजेत संगतिम् ||6|| आश्रयद्वार-तोऽप्यस्य संसर्गो नास्ति सर्वथा / ध्यापकद्रव्ययोर्यस्मात्संसर्गो नामुना मतः // 63|| व्यापकेषु वदति व्यतिषङ्गयस्तु तेन मनसा ध्वनिना वाऽतीतवस्तुविषयेण विमृश्य स्पष्ट एव विलसन् व्यभिचारः // 64 // अयस्कान्तादनेकान्तस्तथाऽत्र परिभाव्यताम् / आक्षेपश्च समाधिश्च ज्ञेयो रत्नाकरादिह / / 6 / / कारकत्वमपि तन्न शोभते प्राप्यकारिणी यदीक्षणे मतम् / प्राप्य वस्तु वितनोति तन्मतिं नैव चक्षुरिति तत्त्वनिर्णयः / / 66|| अद्रिचन्द्रकलनेषु येत्यदःप्राक् प्ररूपितमुपैति नो घटाम्। रश्मिसंचयविषञ्चितं हि तत्ते च तत्र नितरां व्यपाकृताः॥६७।। किंच। चक्षुरप्राप्यधीकृत, व्यवधिम-तोऽपि प्रकाशकं यस्मात्। अन्तःकरणं यदृष्ट्यतिरेके स्यात् पुना रसना / / 8 / / अथ द्रुमादिव्यवधानभाजः प्रकाशकत्वं ददृशे न दृष्टौ / ततोऽप्य यं हेतुरसिद्धतायां धौरेयभावं बिभरांबभूव / / 69 // एतन्न युक्तं शतकोटिकाचस्वच्छोदकस्फाटिक भित्तिमुख्यैः / पदार्थपुजे व्यवधानमाजि संजायते किं नयनान्न संवित्।।७। दम्भोलिप्रभृतिप्रभिद्यभिदुराश्चेद्रोचिषश्चक्षुषः संसर्गोप-गताः पदार्थपटलीं पश्यन्ति तत्र स्थिताम् / एवं तर्हि समुच्छलन्मलभरं भित्वा जलं तत्क्षणात्तेनाप्यन्तरितस्थितीननिमिषा नालोकयेयुर्न किम् / / 71 / / विध्याता